भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.37

3.37.1

कस्यचित्त्वथ कालस्य धर्मराजो युधिष्ठिरः ।
संस्मृत्य मुनिसन्देशमिदं वचनमब्रवीत् ॥

3.37.2

विविक्ते विदितप्रज्ञमर्जुनं पुरुषर्षभ ।
सान्त्वपूर्वं स्मितं कृत्वापाणिना परिसंस्पृशन् ॥

3.37.3

स मुहूर्तमिव ध्यात्वा वनवासमरिन्दमः ।
धनञ्जयन्धर्मराजो रहसीदमुवाच ह ॥

3.37.4

भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत ।
धनुर्वेदश्चतुष्पाद एतेष्वद्य प्रतिष्ठितः ॥

3.37.5

दैवं ब्राह्मं चासुरं च सप्रयोगचिकित्सितम् ।
सर्वास्त्राणां प्रयोगं च अभिजानन्ति कृत्स्नशः ॥

3.37.6

ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः । संविभक्ताश्च तुष्टाश्च गुरुवत्तेषु वर्तते ।
सर्वयोधेषु चैवास्य सदा प्रीतिरनुत्तमा ॥

3.37.7

आचार्या मानितास्तुष्टाः शान्तिं व्यवहरन्न्युत ।
शक्तिं न हापयिष्यन्ति ते काले प्रतिपूजिताः ॥

3.37.8

अद्य चेयं मही कृत्स्ना दुर्याधनवशानुगा । सग्रामनगरा पार्थ ससागरवनाकरा ॥ भवानेव प्रियोऽस्माकं त्वयि भारः समाहितः ॥

3.37.10

अत्र कृत्यं प्रपश्यामि प्राप्तकालमरिन्दम ।
कृष्णद्वैपायनात्तात गृहीतोपनिषन्मया ॥

3.37.11

गृहीतया तया सम्यग्जगत्सर्वं प्रकाशते ।
तेन त्वं ब्रह्मणा तात संयुक्तः सुसमाहितः ॥

3.37.12

देवतानां यथाकालं प्रसादं प्रतिपालय ।
तपसा योजयात्मानमुग्रेण भरतर्षभ ॥

3.37.13

धनुष्मान्कवची खङ्गी मुनिः साधुव्रते स्थितः ।
न कस्यचिद्ददन्मार्गं गच्छ तातोत्तरां दिशम् ॥

3.37.14

इनद्रे ह्यस्त्राणि दिव्यानि समस्तानि धनञ्जय ।
वृत्राद्भीतैर्बलं देवैस्तदा शक्रे समर्पितम् ॥

3.37.15

तान्येकस्थानि सर्वाणि ततस्त्वं प्रतिपत्स्यसे । अनेन ब्रह्मणा तात सर्वं सम्प्रतिपद्यते ॥

3.37.16

शक्रमेव प्रपद्यस्व स तेऽस्त्राणि प्रदास्यति ।
दीक्षितोऽद्यैव गच्छ त्वं द्रष्टुं देवं पुरन्दरम् ॥
वैशम्पायन उवाच ।

3.37.17

एवमुक्त्वा धर्मराजस्तमध्यापयत प्रभुः ॥

3.37.18

दीक्षितं विधिना तेन यतवाक्कायमानसम् ।
अनुजज्ञे तदा वीरं भ्राता भ्रातरमग्रजः ॥

3.37.19

निदेशाद्धर्मराजस्य द्रष्टुकामः पुरन्दरम् ।
धनुर्गाण्डीवमादाय तथाऽक्षय्ये महेषुधी ॥

3.37.20

कवची सतलत्राणो बद्धगोधाङ्गुलित्रवान् ।
हत्वाऽग्निं ब्राह्मणान्निष्कैः स्वस्तिवाच्य मह्यभुज ॥

3.37.21

प्रातिष्ठत महाबाहुः प्रगृहीतशरासनः ।
वधाय धार्तराष्ट्राणां निःश्वस्योर्ध्वमुदैक्षत ॥

3.37.22

तं दृष्ट्वा तत्रकौन्तेयं प्रगृहीतशरासनम् ।
अब्रुवन्ब्रह्मणाः सिद्धा भूतान्यन्तर्हितानि च ॥

3.37.23

क्षिप्रमाप्नुहि कौन्तेय मनसा यद्यदिच्छसि ।
संसाधयस्व कौन्तेय ध्रुवोस्तु विजयस्तव ॥

3.37.24

अब्रुवन्ब्राह्मणाः पार्थमिति कृत्वा जयाशिषः ।
सिद्धचारणसङ्घाश्च गन्धर्वाश्च तमब्रुवन् ॥

3.37.25

स्वस्तिव्रतमुपाधत्स्व सङ्कल्पस्तव सिद्ध्यताम् ।
मनोरथाश्च ते सर्वे समृद्ध्यन्तां महारथ ॥

3.37.26

एवमुक्तोऽभिवाद्यैतान्बद्धाञ्जलिपुटस्तथा ।
तपोयोगमनाः पार्थः पुरोहितमवन्दत ॥

3.37.27

ततः प्रीतमना जिष्णुस्तावुभावभ्यवन्दत ।
सहोदरावतिरथौ युधिष्ठिरवृकोदरौ ॥

3.37.28

तं क्लान्तमनसौ पूर्णमभिगम्य महारथौ ।
यमौ गाण्डीवधन्वानमभ्यवादयतामुभौ ॥

3.37.29

अभिवाद्य तु तौ वीरावूचतुः पाकशासनिम् । अवाप्तव्यानि सर्वाणि दिव्यान्यस्त्राणि वासवात् । 3-37-29चस्त्राण्याप्नुहि कौन्तेय मनसा यद्यदिच्छसि ॥

3.37.30

गिरो ह्यशिथिलाः सर्वा निर्दोषाः सम्मताः सताम् ।
त्वमेकः पाण्डवेष्वद्य सम्प्राप्तोसि धनञ्जय ॥

3.37.31

न चाधर्मविदं देवा नासिद्धं नातपस्विनम् ।
द्रष्टुमिच्छन्ति कौन्तेय चलचित्तं शठं न च ॥

3.37.32

रोरूयमाणः कटुकमीर्ष्यकः कटुकाक्षरः ।
शठकः श्लाघकः क्षेप्ता हन्ता च विचिकित्सिता ॥

3.37.33

विश्वस् हन्ता मायावी क्रोधनोऽनृतभाषिता ।
अत्याशी नास्तिकोऽदाता मित्रध्रुक्सर्वशङ्कितः ॥

3.37.34

आक्रोष्टा चातिमानी च रौद्रो लुब्धोऽथ लोलुपः ।
स्तेनश्च मद्यपश्चैव भ्रूणहा गुरुतल्पगः ॥

3.37.35

सम्भावितात्मा चात्यर्थं नृशंसः पुरुषश्च यः ।
नैते लोकानाप्नुवन्ति निर्लोकास्ते धनञ्जय ॥

3.37.36

आनृशंस्यमनुक्रोशः सत्यं करुणवेदिता ।
दमः स्थितिर्धृतिर्धर्मः क्षमा कृत्यमनुत्तमम् ॥

3.37.37

दया शमश्च धर्मश्च गुरुपूजा कृतज्ञता । मैत्रता द्विजभक्तिश्च वसन्ति त्वयि फल्गुन ।
व्यपेक्षा सर्वभूतेषु कृपा दानं मतिः स्मृतिः ॥

3.37.38

तस्मात्कौरव्य शक्रेण समेष्यसि धनञ्जय ।
त्वादृशेन हि देवानां श्लाघनीयः समागमः ॥

3.37.39

सुहृदां सोदराणां च सर्वेषां भरतर्षभ ।
त्वं गतिः परमा तात वृत्रहा मरुतामिव ॥

3.37.40

तस्मिंस्त्रयोदशे वर्षे भ्रातरः सुहृदश्च ते ।
सर्वे हिसंश्रयिष्यन्ति बाहुवीर्यं महाबल ॥

3.37.41

स पार्थ पितरं गच्छ सहस्राक्षमरिन्दम ।
मुष्टिग्रहणमादत्स्व सर्वाण्यस्त्राणि वासवात् ॥

3.37.42

शतशृङ्गे महाबाहो मघवानिदमब्रवीत् ।
शृण्वतां सर्वभूतानां त्वामुपाघ्राय मूर्धनि ॥

3.37.43

विदितः सर्वभूतानां दिवं तात गमिष्यसि ।
प्राप्य पुण्यकृतां लोकान्रंस्यसे जयतांवर ॥

3.37.44

मानितस्त्रिदशैः पार्थ विहृत्य सुसुखं दिवि ।
अवाप्यपरमास्त्राणि पृथिवीं पुनरेष्यसि ॥

3.37.45

गुणांस्ते वासवस्तात खाण्डवं दहति त्वयि ।
शृण्वतां सर्वभूतानां पुनः पुनरभाषत ॥

3.37.46

तां प्रतिज्ञां नरश्रेष्ठ कर्तुमर्हसि वासवीम् ।
कञ्चिद्देशमितः प्राप्य तपोयोगमना भव ॥

3.37.47

कर्तुमर्हसि कौरव्य मघवद्वचनं हितम् ।
दीक्षित्वाऽद्यैव गच्छ त्वं द्रष्टाऽसि त्वं पुरन्दरम् ॥

3.37.48

तौ परिष्वज्य बीभत्सुः कृष्णामामन्त्र्य चाप्युभौ । मनांस्यादाय सर्वेषां प्रयातः पुरुषर्षभः ॥

3.37.49

तं तथा प्रस्थितं वीरं सिंहस्कन्धोरसं तदा । प्राञ्जलिः पाण्डवन्कृष्णा देवानां कुर्वती नमः ।
वाग्भिः परमशुद्धाभिर्मङ्गलाभिरभाषत् ॥

3.37.50

नमो धात्रे विधात्रे च स्वस्ति गच्छ वनाद्वनम् । धर्मस्त्वां जुषतां पार्थ भास्करश्च विभावसुः ।
ब्रह्मा त्वां ब्राह्मणाश्चैव पालयन्तु धनञ्जय ॥

3.37.51

ज्येष्ठापचायी ज्येष्ठस्य भ्रातुर्वचनमास्थितः । प्रपद्येथा वसूव्रुद्रानादित्यान्समरुद्गणान् ।
विश्वेदेवांस्तथा साध्याञ्शान्त्यर्थं भरतर्षभ ॥

3.37.52

स्वस्ति तेस्त्वान्तरिक्षेभ्यो दिव्येभ्यो भरतर्षभ ।
पार्थिवेभ्यश्च सर्वेभ्यो ये केचित्परिपन्थिनः ॥

3.37.53

अवरोधाद्वने वासात्सर्वस्वहरणादपि ।
इदं दुःखतरं मन्ये पुत्रेभ्यश्च विवासनात् ॥

3.37.54

मास्माकं क्षत्रियकुले जातुचित्पुनरुद्भवः ।
ब्राह्मणेभ्यो नमस्यामि येषां नायुधजीविका ॥

3.37.55

इदं मे परमं दुःखं यः स पापः सुयोधनः ।
दृष्ट्वा मां गौरिति प्राह प्रहसन्राजसंसदि ॥

3.37.56

तस्माद्दुःखादिदं दुःखं गरीय इतिमे मतिः ।
यत्तत्परिषदो मध्ये बह्वयुक्तमभाषत ॥

3.37.57

ध्वंसितः स्वगृहेभ्यश्च राष्ट्राच्च भरतर्षभ । वने प्रतिष्ठितो भूत्वा सौहार्दादवतिष्ठसे ॥

3.37.58

जेता यः सर्वशत्रूणां यः पावकमतर्पयः । जनस्त्वां पश्यतीदानीं गच्छन्तं भरतर्षभ ॥

3.37.59

अस्मिन्नूनं महारण्ये भ्रातरः सुहृदश्च ते ।
त्वत्कथाः कथयिष्यन्ति चारणा ऋषयस्तथा ॥

3.37.60

यत्ते कुन्ती महाबाहो जातस्यैच्छद्धनञ्जय ।
तत्तेऽस्तु सर्वं कौन्तेय यथा च स्वयमिच्छसि ॥

3.37.61

वसुदेवस्वसा देवी त्वामार्या पुनरागतम् ।
पश्यतु त्वां पृथा पार्थ सहस्राक्षमिवादितिः ॥

3.37.62

नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे ।
रंस्यन्ते तव कर्माणि कीरत्यन्तः पुनः पुनः ॥

3.37.63

न च नः पार्थ भोगेषु न धने नोत जीविते ।
तुष्टिर्बुद्धिर्भवित्री वा त्वयि दीर्घप्रवासिनि ॥

3.37.64

त्वयि नः पार्थ सर्वेषां सुखदुःखे प्रतिष्ठते ।
जीवितं मरणं चैव राज्यमैश्वर्यमेव च ॥

3.37.65

आपृष्टो नोसि कौन्तेय स्वस्ति प्राप्नुहि पाण्डव ।
कृतास्त्रं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम् ॥

3.37.66

बलवद्भिर्विरुद्धं न कार्यमेतत्त्वयाऽनघ ।
प्रयाह्यविघ्नेयैवाशु विजयाय महाबल ॥

3.37.67

ह्रीः श्रीः कीर्तिर्धृतिः पुष्टिरुमा लक्ष्मीः सरस्वती ।
इमा वै तव पान्थस् पालयन्तु धनञ्जय ॥
वैशम्पायन उवाच ।

3.37.68

एवमुक्त्वाऽशिषः कृष्णा विरराम यशस्विनी ।

3.37.69

ततःप्रदक्षिणं कृत्वा भ्रातॄन्धौम्यं च पाण्डवः ।
प्रातिष्ठत महाबाहुः प्रगृह्य रुचिरं धनुः ॥

3.37.70

शनैरिव दिशं वीर उदीचीं भरतर्षभ । संहरंस्तरसा वृक्षाँल्लता वल्लीश्च भारत ।
असज्जमानो वृक्षेषु जगाम सुमहाबलः ॥

3.37.71

तस्य मार्गादपाक्रामन्सर्वभूतानि गच्छतः ।
युक्तस्यैन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः ॥

3.37.72

सोऽगच्छत्पर्वतांस्तात तपोधननिषेवितान् ।
दिव्यं हैमवतं पुण्यं देवजुष्टं परन्तपः ॥

3.37.73

अगच्छत्पर्वतं पुण्यमेकाह्नैव महामनाः ।
मनोजवगतिर्भूत्वा योगयुक्तो यथाऽनिलः ॥

3.37.74

हिमवन्तमतिक्रम्य गन्धमादनमेव च ।
अत्यक्रामत्स दुर्गाणि दिवारात्रमतन्द्रितः ॥

3.37.75

इन्द्रिकीलं समासाद्य ततोऽतिष्ठद्धनञ्जयः ।
गत्वा स षडहोरात्रान्सप्तमेऽहनि पाण्डवः ॥

3.37.76

प्रस्थेन्द्रकीलस्य शुभे तपोयोगपरोऽभवत् ।
ऊर्ध्वबाहुर्न चाङ्गानि प्रास्पन्दयत किञ्चन ॥

3.37.77

समाहितात्मा नियतः सहस्राक्षसुतोऽच्युतः ।
अन्तरिक्षे स शुश्राव तिष्ठेति स वचस्तदा ॥

3.37.78

तच्छ्रुत्वा सर्वतो दृष्टिं चारयामास रपाण्डवः ।
अथापश्यत्सव्यसाची वृक्षमूले तपस्विनम् ॥

3.37.79

ब्राह्म्या श्रिया दीप्यमानं पिङ्गलं जटिलं कृशम् ।
सोऽब्रवीदर्जुनं तत्रस्थितं दृष्ट्वा महातपाः ॥

3.37.80

कस्त्वं तातेह सम्प्राप्तो धनुष्मान्कवची शरी ।
निबद्धाऽसितलत्राणः क्षत्रधर्ममनुव्रतः ॥

3.37.81

नेह शस्त्रेण कर्तव्यं शान्तानामेष आलयः ।
विनीतक्रोधहर्षाणां ब्राह्मणानां तपस्विनाम् ॥

3.37.82

नेहास्ति धनुषा कार्यं न सन्ग्रामोऽत्र कर्हिचित् ।
निक्षिपैतद्धनुस्तात प्राप्तोसि परमां गतिम् ॥

3.37.83

इत्यनन्तौजसं वीरं यथा चान्यं पृथग्जनम् । तथा हसन्निवाभीक्ष्णं ब्राह्मणोऽर्जुनमब्रवीत् । 3-3783च् न चैनं चालयामास धैर्यात्सुधृतनिश्चयम् ॥

3.37.84

तमुवाच ततः प्रीतः स द्विजः प्रहसन्निव ।
वरं वृणीष्व भद्रं ते शक्रोऽहमरिसूदन ॥

3.37.85

एवमुक्तः सहस्राक्षं प्रत्युवाच धनञ्जयः ।
प्राञ्जलिः प्रणतो भूत्वा सूरः कुरुकुलोद्वहः ॥

3.37.86

ईप्सितो ह्येष वै कामो वरं चैनं प्रयच्छ मे ।
त्वत्तोऽद्य भगवन्नस्त्रन्कृत्स्नमिच्छामि वेदितम् ॥

3.37.87

प्रत्युवाच महेन्द्रस्तं प्रीतात्मा प्रहसन्निव ।
इह प्राप्तस्य किं कार्यमस्त्रैस्तव धनञ्जय ॥

3.37.88

कामान्वृणीष्व लोकांस्त्वं प्राप्तोसि परमां गतिम् ।
एवमुक्तः प्रत्युवाच सहस्राक्षं धनञ्जयः ॥

3.37.89

न लोभान्न पुनः कामान्न देवत्वं पुनः सुखम् ।
न च सर्वामरैश्वर्यं कामये त्रिदशाधिप ॥

3.37.90

भ्रातॄंस्तान्विपिने त्यक्त्वा वैरमप्रतियात्य च ।
अकीर्तिं सर्वलोकेषु गच्छेयं शाश्वतीः समाः ॥

3.37.91

एवमुक्तः प्रत्युवाच वृत्रहा पाण्डुनन्दनम् ।
सान्त्वयञ्श्लक्ष्णया वाचा सर्वलोकनमस्कृतः ॥

3.37.92

यदा द्रक्ष्यसि भूतेशं त्र्यक्षं शूलधरं शिवम् ।
तदा दाताऽस्मि ते तात दिव्यान्यस्त्राणि सर्वशः ॥

3.37.93

क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः ।
दर्शनात्तस्य कौन्तेय संसिद्धः स्वर्गमेष्यसि ॥

3.37.94

इत्युक्त्वा फल्गुनं शक्रो जगामादर्शनं पुनः । अर्जुनोप्यथ तत्रैव तस्थौ योगसमन्वितः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc