भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.38

3.38.1

भगवञ्श्रोतुमिच्छासमि पार्थस्याक्लिष्टकर्मणः ।
विस्तरेण कथामेतां यथाऽस्त्राण्युपलब्धवान् ॥

3.38.2

कथं च पुरुषव्याघ्रो दीर्घबाहुर्धनञ्जयः ।
वनं प्रविष्टस्तेजस्वी निर्मनुष्यमभीतवत् ॥

3.38.3

किञ्चानेन कृतन्तत्रवसता ब्रह्मवित्तम ।
कथं च भगवान्स्थाणुर्देवराजश्च तोषितः ॥

3.38.4

एतदिच्छाम्यहं श्रोतुं त्वत्प्रसादाद्द्विजोत्तम ।
त्वं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थ ॥

3.38.5

अत्यद्भुतं महाप्राज्ञ रोमहर्षणमर्जुनः । भवेन सह सन्ग्रामं चकाराप्रतिमं किल ।
पुरा प्रहरतांश्रेष्ठः सन्ग्रामेष्वपराजितः ॥

3.38.6

यच्छ्रुत्वा नरसिंहानां दैन्यहर्षातिविस्मयात् ।
शूराणामपि पार्थानां हृदयानि चकम्पिरे ॥

3.38.7

यद्यच्च कृतवानन्यत्पार्थस्तदस्विलं वद ॥

3.38.8

न ह्यस् निन्दितं जिष्णोः सुसूक्ष्ममपि लक्षये ।
चरितं यस्य शूरस्य तन्मे सर्वं प्रकीर्तय ॥
वैशम्पायन उवाच ।

3.38.9

कथयिष्यामि ते तात कथामेतां महात्मनः ।
दिव्यां कौरवशार्दूल महतीमद्भुतोपमाम् ॥

3.38.10

गात्रसंस्पर्शसम्बद्धां त्र्यम्बकेण महाहवे ।
पार्थस्य देवदेवेन शृणु सम्यक्समागमम् ॥

3.38.11

युधिष्ठिरनियोगात्स जगामामितविक्रमः ।
शक्रं सुरेश्वरं द्रष्टुं देवदेवं च शन्करम् ॥

3.38.12

दिव्यं तद्धनुरादाय खङ्गं च पुरुषर्षभः ।
महाबलो महाबाहुरर्जुनः कार्यसिद्धये ॥

3.38.13

दिशं ह्युदीचीं कौरव्यो हिमवच्छिखरं प्रति ।
ऐन्द्रिः स्थिरमना राजन्सर्वलोकमहारथः ॥

3.38.14

त्वरया परया युक्तस्तपसे धृतनिश्चयः ।
वनं कण्टकितं घोरमेक एवान्वपद्यत ॥

3.38.15

नानापुष्पफलोपेतं नानापक्षिनिनादितम् ।
नानामृगगणाकीर्णं सिद्धचारणसेवितम् ॥

3.38.16

ततः प्रयाते बीभत्सौ वनं मानुषवर्जितम् ।
शङ्खानां पटहानां च शब्दः समभवद्दिवि ॥

3.38.17

पुष्पवर्षं च सुमहन्निपपात महीतले ।
मेघजालं च सततं छादयामास सर्वतः ॥

3.38.18

सोतीत्य वनदुर्गाणि सन्निकर्षे महागिरेः ।
शुशुभे हिमवत्पृष्ठे वसमानोऽर्जुनस्तदा ॥

3.38.19

तत्रतत्र द्रुमान्फुल्लान्विहगैर्वल्गुनादितान् ।
नदीश्च विपुलावर्ता वैदूर्यनीलसन्निभाः ॥

3.38.20

हंसकारण्डवोद्गीताः सारसाभिरुतास्तथा ।
पुंस्कोकिलरुताश्चैव क्रौञ्चबर्हिणनादिताः ॥

3.38.21

मनोहरवनोपेतास्तस्मिन्नतिरथोऽर्जुनः ।
पुण्यशीतामलजलाः पश्यन्प्रीतमनाऽभवत् ॥

3.38.22

रमणीये वनोद्देशे रममाणोऽर्जुनस्तदा ।
तपस्युग्रे वर्तमान उग्रतेजा महामनाः ॥

3.38.23

दर्भचीरं निवस्याथ दण्डाजिनबिभूषितः ।
शीर्णं च पतितं भूमौ पर्णं समुपभुक्तवान् ॥

3.38.24

पूर्णेपूर्णे त्रिररात्रे तु मासमेकं फलाशनः ।
द्विगुणेनैव कालेन द्वितीयं मासमत्ययात् ॥

3.38.25

तृतीयमपि मासं स क्रमेणाहारमाचरन् ।
चतुर्थे त्वथ सम्प्राप्ते मासे भरतसत्तमः ॥

3.38.26

वायुभक्षो महाबाहुरभवत्पाण्डुनन्दनः ।
ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाग्रधिष्ठितः ॥

3.38.27

सदोपस्पर्शनाच्चास्य बभूवुरमितौजसः ।
विद्युदम्भोरुहनिभा जटास्तस्य महात्मनः ॥

3.38.28

ततो महर्षयः सर्वे जग्मुर्देवं पिनाकिनम् ।
विवेदयिषवः पार्थं तपस्युग्रे समास्थितम् ॥

3.38.29

नीलकण्ठं महादेवमभिवाद्य प्रणम्य च ।
सर्वे निवेदयामासुः कर्म तत्फल्गुनस्य ह ॥

3.38.30

एकः पार्थो महातेजा हिमवत्पृष्ठमाश्रितः ।
उग्रे तपरसि दुष्पारे स्थितो धूमापयन्दिशः ॥

3.38.31

तस्य देवेश न वयं विद्मः सर्वे चिकीर्षितम् ।
सन्तापयति नः सर्वानसौ साधु निवार्यताम् ॥

3.38.32

तेषां तद्वचनं श्रुत्वा मुननां भावितात्मनाम् ।
उमापतिर्भूतपतिर्वाक्यमेतदुवाच ह ॥

3.38.33

न वो विषादः कर्तव्यः फल्गुनं प्रति सर्वशः ।
शीघ्रं गच्छत संहृष्टा यथागतमतन्द्रिताः ॥

3.38.34

अहमस्य विजानामि सन्कल्पं मनसि स्थितम् । नास्य स्वर्गस्पृहा काचिन्नैश्वर्यस्य न चायुषः ।
यत्तस्य काङ्क्षितं प्राप्तुं तत्करिष्येऽहमद्य वै ॥
वैशम्पायन उवाच ।

3.38.35

तच्छ्रुत्वा शर्ववचनमृषयः सत्यवादिनः । प्रहृष्टमनसो जग्मुर्यथास्वं पुनराश्रमम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc