भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.36

3.36.1

भीमसेनवचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः ।
निःश्वस्य पुरुषव्याघ्रः सम्प्रदध्यौ परन्तपः ॥

3.36.2

श्रुता मे राजधर्माश्च वर्णानां च पृथक्पृथक् ।
आयत्यां च तदात्वे च यः पश्यति स पश्यति ॥

3.36.3

धर्मस्य जानमानोऽहं गतिमग्र्यां सुदुर्विदाम् ।
कथं बलात्करिष्यामि मेरोरिव विवर्तनम् ॥

3.36.4

स मुहूर्तमिव ध्यात्वा विनिश्चित्येतिकृत्यताम् ।
भीमसेनमिद वाक्यमपदान्तरमब्रवीत् ॥

3.36.5

एवमेतन्महाबाहो यथा वदसि भारत ।
इदमन्यत्समादत्स्व वाक्यं मे वाक्यकोविद ॥

3.36.6

महापापानि कर्माणि यानि केवलसाहसात् ।
आरभ्यन्ते भीमसेन व्यथन्ते तानि भारत ॥

3.36.7

सुमन्त्रिते सुविक्रान्ते सुकृतेसुविचारिते ।
सिद्ध्यन्त्यर्था महाबाहो दैवं चात्र प्रदक्षिणम् ॥

3.36.8

यत्तु केवलचापल्याद्बलदर्पोत्थितः स्वयम् ।
आरब्धव्यमिदं कार्यं मन्यसे शृणु तत्रमे ॥

3.36.9

भूरिश्रवाः शलश्चैव जलसन्धश्च वीर्यवान् ।
भीष्मो द्रोणश्च कर्णशच् द्रोणपुत्रश्च वीर्यवान् ॥

3.36.10

धार्तराष्ट्रा दुराधर्षा दुर्योधनपुरोगमाः ।
सर्व एव कृताशस्त्राश्च सततं चाततायिनः ॥

3.36.11

राजानः पार्थिवाश्चैव येऽस्माभिरुपतापिताः ।
ते श्रिताः कौरवं पक्षं जातस्नेहाश्च साम्प्रतम् ॥

3.36.12

दुर्योधनहिते युक्ता न तथाऽस्मासु भारत ।
पूर्णकोशा बलोपेताः प्रयतिष्यन्ति रक्षणे ॥

3.36.13

सर्वे कौरवसैन्यस् सपुत्रामात्यसैनिकाः ।
संविभक्ता हि मात्राभिर्भोगैरपि च सर्वशः ॥

3.36.14

दुर्योधनेन ते वीरा मानिताश्च विशेषतः ।
प्राणांस्त्यक्ष्यन्ति सन्ग्रामे इति मे निश्चिता मतिः ॥

3.36.15

समा यद्यपि भीष्मस्य वृत्तिरस्मासु तेषु च ।
द्रोणस् च महाबाहो कृषस्य च महात्मनः ॥

3.36.16

अवश्यं राजपिण्डस्तैर्निर्वेश्य इति मे मतिः ।
तस्मात्त्यक्ष्यन्ति सन्ग्रामे प्राणानपि सुदुस्त्यजान् ॥

3.36.17

सर्वेदिव्यास्त्रविद्वांसः सर्वे धर्मपरायणाः ।
अजेयाश्चेति मे बुद्धिरपि देवैः सवासवैः ॥

3.36.18

अमर्षी नित्यसंरब्धस्तत्र कर्णो महारथः ।
सर्वास्त्रविदनाधृष्यो ह्यभेद्यकवचावृतः ॥

3.36.19

अनिर्जित्यरणे सर्वानेतान्पुरुषसत्तमान् ।
अशक्यो ह्यसहायेन हन्तुं दुर्योधनस्त्वया ॥

3.36.20

न निद्रामधिगच्छामि चिन्तयानो वृकोदर ।
अतिसर्वान्धनुर्ग्राहान्सूतपुत्रस्य लाघवम् ॥
वैशम्पायन उवाच ।

3.36.21

एतद्वचनमाज्ञाय भीमसेनोऽत्यमर्षणः ।
बभूव शान्तिसंयुक्तो गुरोर्वचनवारितः ॥

3.36.22

तयोः संवदतोरेवं तदा पाण्डवयोर्द्वयोः ।
आजगाम महायोगी व्यासः सत्यवतीसुतः ॥

3.36.23

सोऽभिगम्य यथान्यायं पाण्डवैः प्रतिपूजितः ।
युधिष्ठिरमिदं वाक्यमुवाच वदतांवरः ॥

3.36.24

युधिष्ठिर महाबाहो वेद्मि ते हृदयस्थितम् ।
मनीषया तत क्षिप्रमागतोस्मि नरर्षभ ॥

3.36.25

भीष्माद्द्रोणात्कृपात्कर्णाद्द्रोणपुत्राच्च भारत ।
दुर्योधनान्नृपसुतात्तथा दुःशासनादपि ॥

3.36.26

त्ते भयममित्रघ्न हृदि सम्परिवर्तते ।
तत्तेऽहं नाशयिष्यामि विधिदृष्टेन हेतुना ॥

3.36.27

तच्छ्रुत्वा धृतिमास्थाय कर्मणा प्रतिपादय ।
प्रतिपाद्य तु राजेन्द्र ततः क्षिप्रं ज्वरं जहि ॥

3.36.28

तत एकान्तमानाय्य पाराशर्यो युधिष्ठिरम् ।
अब्रवीदुपपन्नार्थमिदं वाक्यविशारदः ॥

3.36.29

श्रेयसस्तेऽपरः कालः प्राप्तो भरतसत्तम ।
येनाभिभविता शत्रून्रणे पार्थो धनुर्धरः ॥

3.36.30

गृहाणेमां मया प्रोक्तां सिद्धिं मूर्तिमर्तामिव ।
विद्यां प्रतिस्मृतिं नाम प्रपन्नाय ब्रवीमि ते ॥

3.36.31

यामवाप्यमहाबाहुरर्जुनः साधयिष्यति ।
अस्त्रहेतोर्महेन्द्रं च रुद्रं चैवाभिगच्छतु ॥

3.36.32

वरुणं च कुबेरं च धर्मराजं च पाण्डव ।
शक्तो ह्येष सुरान्द्रष्टुं तपसा विक्रमेण च ॥

3.36.33

ऋषिरेष मेहातेजा नारायणसहायवान् ।
पुराणः शास्वतो देवस्त्वजेयो जिष्णुरच्युतः ॥

3.36.34

अस्त्राणीनद्राच्च रुद्राच्च लोकपालेभ्य एव च ।
समादाय महाबाहुर्महत्कर्म करिष्यति ॥

3.36.35

वनादस्माच्च कौन्तेय वनमन्यद्विचिन्त्यताम् ।
निवासार्थाय यद्युक्तं भवेद्वः पृथिवीपते ॥

3.36.36

एकत्रचिरवासो हि न प्रीतिजननो भवेत् ।
तापसानां च शान्तानां भवेदुद्वेगकारकः ॥

3.36.37

मृगाणामुपरोधश्च वीरुदोषधिसन्क्षयः ।
बिभर्षि च बहून्विप्रान्वेदवेदाङ्गपारगान् ॥
वैशम्पायन उवाच ।

3.36.38

एवमुक्त्वा प्रपन्नाय शुचये भगवान्प्रभुः ।
प्रोवाच योगतत्त्वज्ञो योगविद्यामनुत्तमाम् ॥

3.36.39

धर्मराजाय धीमान्स व्यासः सत्यवतीसुतः ।
अनुज्ञाय च कौन्तेयं तत्रैवान्तरधीयत ॥

3.36.40

युधिष्ठिरस्तु धर्मात्मा तद्ब्रह्म मनसा यतः ।
धारयामास मेधावी कालेकाले सदाऽभ्यसन् ॥

3.36.41

स व्यासवाक्यमुदितो वनाद्द्वैतवनात्ततः ।
ययौ सरस्वतीकूले काम्यकं नाम काननम् ॥

3.36.42

तमन्वयुर्महाराज शिक्षाक्षरविशारदाः ।
ब्राह्मणास्तपसा युक्ता देवेन्द्रमृषयो यथा ॥

3.36.43

ततः काम्यकमासाद्य पुनस्ते भरतर्षभ ।
न्यविशन्त महात्मानः सामान्याः सपदानुगाः ॥

3.36.44

तत्रते न्यवसन्राजन्कञ्चित्कालं मनस्विनः ।
धनुर्वेदपरा वीरा गृणाना वेदमुत्तमम् ॥

3.36.45

चरन्तो मृगयां नित्यं शुद्धैर्बाणैर्मृगार्थिनः । पितृदैवतविप्रेभ्यो निर्वपन्तो यथाविधि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc