भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.35

3.35.1

सन्धिं कृत्वैव कालेन ह्यन्तकेन पतत्रिणा ।
अनन्तेनाप्रमेयेण स्रोतसा सर्वहारिणा ॥

3.35.2

प्रत्यक्षं मन्यसे कालं मर्त्यः सन्कालबन्धनः ।
फेनधर्मा महाराज फलधर्मा तथैव च ॥

3.35.3

निमेषादपि कौन्तेय यस्यायुरपचीयते ।
सूच्येवाञ्जनचूर्णानि किमिति प्रतिपालयेत् ॥

3.35.4

यो नूनममितायुः स्यादथवाऽयुःप्रमाणवित् ।
स कालं वै प्रतीक्षेत सर्वप्रत्यक्षदर्शिवान् ॥

3.35.5

प्रतीक्ष्यमाणः कालो नः समा राजंस्त्रयोदश ।
आयुषोपचयं कृत्वा मरणायोपनेष्यति ॥

3.35.6

शरीरिणां हि मरणं शरीरे नित्यमाश्रितम् ।
प्रागेव मरणात्तस्माद्राज्यायैव घटामहे ॥

3.35.7

यो न याति प्रसंख्यानमस्पष्टो भूमिवर्धनः ।
अयातयित्वा वैराणि सोऽवसीदति गौरिव ॥

3.35.8

यो न यातयते वैरमल्पसत्वोद्यमः पुमान् ।
अफलं जन्म तस्याहं मन्ये दुर्जातजीविनः ॥

3.35.9

हैरण्यौ भवतो बाहू श्रुतिर्भवति पार्थिवी ।
हत्वा द्विषन्तं सन्ग्रामे भुङ्क्ष्व बाहुजितं वसु ॥

3.35.10

हत्वा वै पुरुषो राजन्निकर्तारमरिन्दम् ।
अह्नाय नरकं गच्छेत्स्वर्गेणास्य स सम्मितः ॥

3.35.11

अमर्षजो हि सन्तापः पावकाद्दीप्तिमत्तरः ।
येनाहमभिसन्तप्तो न नक्तं न दिवा शये ॥

3.35.12

अयं च पार्थो बीभत्सुर्वरिष्ठो ज्याविकर्षणे ।
आस्ते परमसन्तप्तो नूनं सिंह इवाशये ॥

3.35.13

योऽयमेको नुदेत्सर्वांल्लोके राजन्धनुर्भृतः ।
सोयमात्मजमूष्माणं ग्रहाहस्तीव यच्छति ॥

3.35.14

नकुलः सहदेवश्च वृद्धा माता च वीरसूः ।
तवैव प्रियमिच्छन्त आसते जडमूकवत् ॥

3.35.15

सर्वे तेऽप्रियमिच्छन्ति बान्धवाः सह सृञ्जयैः ।
अहमेकश्च सन्तप्तो माता च प्रतिबिन्ध्यतः ॥

3.35.16

प्रियमेव तु सर्वेषां यद्ब्रवीम्युत किञ्चन ।
सर्वे हि व्यसनं प्राप्ताः सर्वे युद्धाभिनन्दिनः ॥

3.35.17

नातः पापीयसी काचिदापद्राजन्भविष्यति ।
यन्नो नीचैरल्पबलै राज्यमाच्छिद्य भुज्यते ॥

3.35.18

शीलदोषाद्धृणाविष्ट आनृशंस्यात्परन्तप ।
क्लेशांस्तितिक्षसे राजन्नान्यः कश्चित्प्रशंसति ॥

3.35.19

श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः ।
अनुवाकहता बुद्धिर्नैषा तत्त्वार्थदर्शिनी ॥

3.35.20

घृणी ब्राह्मणरूपोसि कथं क्षत्रेष्वजायथाः ।
अस्यां हि योनौ जायन्ते प्रायशः क्रूरबुद्धयः ॥

3.35.21

अश्रौषीस्त्वं राजधर्मान्यथा वै मनुरब्रवीत् ।
क्रूरान्निकृतिसम्पन्नान्विहितानशमात्मकान् ॥

3.35.22

धार्तराष्ट्रान्महाराज क्षमसे किं दुरात्मनः ।
कर्तव्ये पुरुषव्याघ्र किमास्से पीठसर्पवत् ॥

3.35.23

बुद्ध्या वीर्येण संयुक्तः श्रुतेनाभिजनेन च । तृणानां मुष्टिनैकेन हिमवन्तं च पर्वतम् ।
छन्नमिच्छसि कौन्तेय योऽस्मान्संवर्तुमिच्छसि ॥

3.35.24

अज्ञातचर्यागूढेन पृथिव्यां विश्रुतेन च ।
दिवीव पार्थ सूर्येण न शक्याऽचरितुं त्वया ॥

3.35.25

बृहत्साल इवानूपे शाखापुष्पपलावान् ।
हस्ती श्वेत इवाज्ञातः कथं जिष्णुश्चरिष्ति ॥

3.35.26

इमौ च सिंहसन्काशौ भ्रातरौ सहितौ शिशू ।
नकुलः सहदेवश्च कथं पार्थ चरिष्यतः ॥

3.35.27

पुण्यकीर्ती राजपुत्री द्रौपदी वीरसूरियम् ।
विश्रुता कथमज्ञाता कृष्णा पार्थ चरिष्यति ॥

3.35.28

मां चापि राजञ्जानन्ति ह्याकुमारमिमाः प्रजाः ।
अज्ञातचर्यां पश्यन्ति मेरोरिव निगूहनम् ॥

3.35.29

तथैव बहव्रोऽस्माभी राष्ट्रेभ्यो विप्रवासिताः ।
राजानो राजपुत्राश्च धार्तराष्ट्रमनुव्रताः ॥

3.35.30

न हि तेऽप्युपशाम्यन्ति निकृता वा निराकृताः ।
अवश्यं तैर्निकर्तव्यमस्माकं तत्प्रियैषिभिः ॥

3.35.31

तेऽप्यस्मासु प्रयुञ्जीरन्प्रच्छन्नान्सुबहूंश्चरान् ।
आचक्षीरंश्च नो ज्ञात्वा ततः स्यात्सुमहद्भयम् ॥

3.35.32

अस्माभिरुषिताः सम्यग्वने मासास्त्रयोदश ।
परिमाणएन तान्पश्य तावतः परिवत्सरान् ॥

3.35.33

अस्ति मासः प्रतिनिधिर्यथा प्राहुर्मनीषिणः ।
पूतिकानिव सोमस्य तथेदं क्रियतामिति ॥

3.35.34

अथवाऽनडुहे राजन्साधने साधुवाहिने ।
सौहित्यदानादेतस्मादेनसः प्रतिमुच्यते ॥

3.35.35

तस्माच्छत्रुवधे राजन्क्रियतां निश्चयस्त्वया । क्षत्रियस्य हि सर्वस्य नान्यो धर्मोस्ति संयुगात् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc