भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.34

3.34.1

स एवमुक्तस्तु महानुभावः सत्यव्रतो भीमसेनेन राजा ।
अजातशत्रुस्तदनन्तरं वै धैर्यान्वितो वाक्यमिदं बभाषे ॥

3.34.2

असंशयं भारत सत्यमेत- द्यन्मां तुदन्वाक्यशल्यैः क्षिणोषि ।
न त्वां विगर्हे प्रतिकूलमेत- न्ममानयाद्धि व्यसनं व आगात् ॥

3.34.3

अहं ह्यक्षानन्वपद्यं जिहीर्षन् राज्यंसराष्ट्रं धृतराष्ट्रस्य पुत्रात् ।
तन्मां शठः कितव प्रत्यदेवी- त्सुयोधनार्थं सुबलस्य पुत्रः ॥

3.34.4

महामायः शकुनिः पार्वतीयः सभामध्ये प्रवपन्नक्षपूगान् ।
अमायिनं मायया प्रत्यजैषी- त्ततोऽपश्यं वृजिनं भीमसेन ॥

3.34.5

अक्षांश्च दृष्ट्वा शकुनेर्यथावत् कामानुकूलानयुजो युजश्च ।
शक्यो नियन्तुमभविष्यदात्मा मन्युस्तु हन्यात्पुरुषस्य धैर्यम् ॥

3.34.6

यन्तुं नात्मा शक्यते पौरुषेण मानेन वीर्येण च तात नद्धः ।
न ते वाचो भीमसेनाभ्यसूये मन्ये तथा तद्भवितव्यमासीत् ॥

3.34.7

स नो राजा धृतराष्ट्रस्य पुत्रो न्यपातयद्व्यसने राज्यमिच्छन् ।
दास्यं च नोऽगमयद्भीमसेन यत्राभवच्छरणं द्रौपदी नः ॥

3.34.8

त्वं चापि तद्वेत्थ धनञ्जयश्च पुनर्द्यूतायागतास्तां सभां नः ।
यन्माऽभवीद्धृतराष्ट्रस्य पुत्र एकग्लहार्थं भरतानां समक्षम् ॥

3.34.9

वने समा द्वादश राजपुत्र यथाकामं विदितमजातशत्रो ।
अथापरं चाविदितश्चरेथाः सर्वैः सह भ्रातृभिश्छद्मरूपः ॥

3.34.10

त्वां चेच्छ्रुत्वा तात तथा चरन्त- मवभोत्स्यन्ते भारतानां चराश्च ।
अन्यांश्चरेथास्तावतोऽब्दांस्तथात्वं निश्चित्य तत्प्रतिजानीहि पार्थ ॥

3.34.11

चरैश्चेन्नो विदितः कालमेतं युक्तो राजन्मोहयित्वा मदीयान् ।
ब्रवीमि सत्यं कुरुसंसदीह तवैव ता भारत पञ्च नद्यः ॥

3.34.12

वयं चैतद्भारत सर्व एव त्वया जिताः कालमपास्य भोगान् ।
चरेम इत्याह पुरा स राजा मध्ये कुरूणां स मयोक्तस्तथेति ॥

3.34.13

तत्र द्यूतमभवन्नो जघन्यं यस्मिञ्जिताः प्रव्रजिताश् सर्वे ।
इत्थं तु देशाननुसञ्चरामो वनानि कृच्छ्राणि च कृच्छ्ररूपाः ॥

3.34.14

सुयोधनश्चापि न शान्तिमिच्छत् भूयः स मन्योर्वशमन्वगच्छत् ।
उद्योजयामास कुरूंश्च सर्वान् येचास्य केचिद्वशमन्वगच्छन् ॥

3.34.15

तां सिद्धिमास्थाय सतां सकाशे को नाम जह्यादिह राज्यहेतोः ।
आर्यस्य मन्ये मरणाद्गरीयो यद्धर्ममुत्क्रम्य महीं प्रशासेत् ॥

3.34.16

तदैव चेद्वीरकर्माकरिष्यो यदा द्यूते परिघं पर्यमृक्षः ।
बाहू दिधक्षन्वारितः फल्गुनेन किं दुष्कृतम्भीम तदाऽभविष्यत् ॥

3.34.17

प्रागेव चैवं समयक्रियायाः किं नाब्रवीः पौरुषमाविदानः ।
प्राप्तं तु कालं त्वभिपद्यपश्चात् किं मामिदानीमतिवेलमात्थ ॥

3.34.18

भूयोपि दुःखं मम भीमसेन दूये विषस्येव रसं हि पीत्वा ।
यद्याज्ञसेनीं परिक्लिश्यमानां सन्दृश्य तत्क्षान्तमिति स्म भीम ॥

3.34.19

न त्वद्य शक्यं भरतप्रवीर कृत्वा यदुक्तं कुरुवीरमध्ये ।
कालं प्रतीक्षस्व सुखोदयाय पाकं फलानामिव बीजवापः ॥

3.34.20

यदा हि पूर्वं निकृतोनिकृन्ते- द्वैरं सपुष्पं सफलं विदित्वा ।
महागुणं हरति हि पौरुषेण तदा वीरो जीवति जीवलोके ॥

3.34.21

श्रियं च लोके लभते समग्रां मन्ये चास्मै शत्रवः सन्नमन्ते ।
मित्राणि चैनमतिरागाद्भजन्ते देवा इवेनद््रमुपजीवन्ति चैनम् ॥

3.34.22

मम प्रतिज्ञां च निबोध सत्यां वृणे सत्यममृतीज्जीविताच्च ।
राज्यं च पुत्राश्च यशो धनं च सर्वं न सत्यस्य कलामुपैति ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc