भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.314

3.314.1

स ददर्श हतान्भ्रातृँल्लोकपालानिव च्युतान् ।
युगान्ते समनुप्राप्ते शक्रवैश्रवणोपमान् ॥

3.314.2

विनिकीर्णधनुर्बाणं दृष्ट्वा निहतमर्जुनम् ।
भीमसेनं यमौ चैव निर्विचेष्टान्गतायुषः ॥

3.314.3

सदीर्घमुष्णं निःश्वस्य शोकबाष्पपरिप्लुतः । तान्दृष्ट्वा पतितान्भ्रातॄन्सर्वांश्चिन्तासमन्वितः ।

3.314.4

ननु त्वया महाबाहो प्रतिज्ञातं वृकोदर ।
सुयोधनस्य भेत्स्यामि गदया सक्थिनी रणे ॥

3.314.5

व्यर्थं तदद्य मे सर्वं त्वयि वीरे निपातिते ।
महात्मनि महाबाहो कुरूणां कीर्तिवर्धने ॥

3.314.6

मनुष्यसम्भवा वाचो विधर्मिण्यः प्रतिश्रुताः ।
भवतान्दिव्यवाचस्तु ता भवन्तु कथं मृपा ॥

3.314.7

देवाश्चापि यदाऽवोचन्मूतके त्वां धनञ्जय ।
सहस्राक्षादनवरः कुन्ति पुत्रस्तवेति वै ॥

3.314.8

उत्तरे पारियात्रे च जगुर्भूतानि सर्वशः ।
विप्रनष्टां श्रियं चैषामाहर्ता पुनरोजसा ॥

3.314.9

नास्य जेता रणे कश्चिदजेता नैष कस्यचित् ।
सोयं मृत्युवशं यातः कथं जिष्णुर्महाबलः ॥

3.314.10

अयम्ममाशां संहत्य शेते भूमौ धनञ्जयः ।
आश्रित्ययं वयं नाथं दुःखान्येतानिसेहिम ॥

3.314.11

रणे प्रगल्भौ वीरौ चसदा शत्रुनिबर्हणौ । कथं रिपुवशं यातौ कुन्तीपुत्रौ महाबलौ ।
यौ सर्वास्त्राप्रतिहतौ भीमसेनधनञ्जयौ ॥

3.314.12

अश्मसारमयं नूनं हृदयं मम दुर्हृदः ।
यमौ यदेतौ दृष्ट्वाऽद्य पतितौ नावदीर्यते ॥

3.314.13

शास्त्रज्ञा देशकालज्ञास्तपोयुक्ताः क्रियान्विताः ।
अकृत्वा सदृशं कर्म किं शेध्वं पुरुषर्षभाः ॥

3.314.14

अविक्षतशरीराश्चाप्यप्रमृष्टशरासनाः ।
असञ्ज्ञा भुवि सन्गम्य किं शेष्वमपराजिताः ॥

3.314.15

सानूनिवाद्रेः संसुप्तान्दृष्ट्वा भ्रातृन्महामतिः ।
सुखं प्रसुप्तान्प्रस्विन्नः खिन्नः कष्टां दशां गतः ॥

3.314.16

एवमेवेदमित्युक्त्वा धर्मात्मा स नरेश्वरः ।
शोकसागरमध्यस्थो दध्यौ कारणमाकुलः ॥

3.314.17

इतिकर्तव्यतां चेति देशकालविभागवित् ।
नाभिपेदे महाबाहुश्चिन्तयानो महामतिः ॥

3.314.18

अथसंस्तभ्य धर्मात्मा तदाऽत्मानं तपःसुतः । एवंविलप्य बहुधा धर्मपुत्रो युधिष्ठिरः ।
बुद्ध्या विचिन्तयामासवीराः केन निपातिताः ॥

3.314.19

नैषां शस्त्रप्रहारोस्ति पदं नेहास्ति कस्यचित् ।
भूतं महदेदं मन्ये भ्रातरो येन मे हताः ॥

3.314.20

एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम् ।
भ्रातॄणां न्न्यसनं घोरं सममेव महात्मनाम् ॥

3.314.21

स्यात्तु दुर्योधनेनेदमुपांशु परिकल्पितम् ।
गान्धारराजरचितं सततं जिह्मवुद्धिना ॥

3.314.22

यस् कार्यमकार्यं वा सममेव भवत्युत ।
कस्तस्य विश्वसेद्वीरो दुष्कृतेरकृतात्मनः ॥

3.314.23

अथवा पुरुषैर्गूढैः प्रयोगोऽयन्दुरात्मनः ।
भवेदिति महाबुद्धिर्बहुधा समचिन्तयत् ॥

3.314.24

आचार्यं किन्नु वक्ष्यामि कृपं भीष्ममहं नु किम् ।
विदुरं किन्नु वक्ष्यामि बृहस्पतिसमं नये ॥

3.314.25

अम्बां च किन्नु वक्ष्यामि सर्वदा दुःखभागिनीम् ।
दृष्ट्वा मां भ्रातृभिर्हीनं पृच्छन्तीं पुत्रगृद्धिनीम् ॥

3.314.26

यदा त्वं भ्रातृभिः सर्वैः शक्रतुल्यपराक्रमैः ।
सार्धं वनं गतो वीरैः कथमेकस्त्वमागतः ॥

3.314.27

कस्य किन्नु विषेणेदमुदकं दूपितं यथा । मृतानामपि चैतेषां विकृतं नैव जायते ।
मुखवर्णाः प्रसन्ना मे भ्रातॄणामित्यचिन्तयत् ॥

3.314.28

एकैकशश्चौघबलानिमान्पुरुपसत्तमान् ।
कोऽन्यः प्रतिसमासेत कालान्तकयमादृते ॥

3.314.29

एतेन व्यवसायेन तत्तोयं व्यवगाढवान् ।
पातुकामश्च तत्तोयमन्तरिक्षात्स शुश्रुवे ॥
यक्ष उवाच ।

3.314.30

अहं बकः शैवलमत्स्यभक्षो नीता मया प्रेतवशं तवानुजाः ।
त्वं पञ्चमो भविता राजपुत्र न चेत्प्रश्नान्पृच्छतो व्याकरोपि ॥

3.314.31

मा तात साहसन्कार्पीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥
युधिष्ठिर उवाच ।

3.314.32

रुद्राणां वा वसूनां वामरुतां वा प्रधानभाक् ।
पृच्छामि को भवान्देवो नैतच्छकुनिना कृतम् ॥

3.314.33

हिमवान्पारियात्रश्च विन्ध्यो भलय एव च ।
चत्वारः पर्वताः केन पातिता भुवि तेजसा ॥

3.314.34

त्वयाऽतीव महत्कर्म कृतं च बलिनांवर ।
विनिघ्नता महेष्वासांश्चतुरोपि ममात्मजान् ॥

3.314.35

यान्न देवान गन्धर्वानासुराश्च न राक्षसाः ।
विपहेरन्महायुद्धे कृतं ते तन्महाद्भुतम् ॥

3.314.36

न ते जानामि यत्कार्यं नाभिजानामि काङ्क्षित्तम् ।
कौतूहलं महज्जातं साध्वसं चागतं मम ॥

3.314.37

येनास्स्युद्विग्नहृदयः समुत्पन्नशिरोज्वरः ।
पृच्छामि भगवंस्तस्मात्को भवानिह तिष्ठति ॥
यक्ष उवाच ।

3.314.38

यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जलेचरः ।
मयैते निहता सर्वे भ्रातरस्ते निवारिताः ॥
वैशम्पायन उवाच ।

3.314.39

ततस्तामशिवां श्रुत्वावाचं स परुपाक्षराम् ।
यक्षस् ब्रुवतो राजन्नाकम्पत तदाऽस्थितः ॥

3.314.40

विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम् ।
ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम् ॥

3.314.41

सेतुमाश्रित्य तिष्ठन्तं दद्रश भरतर्षभः ।
मेघगम्भीरनादेन तर्जयन्तं महास्वनम् ॥

3.314.42

उवाच यक्षः कौन्तेयं भ्रातृशोकप्रपीडितम् ॥

3.314.43

इमे तेभ्रातरो राजन्वार्यमाणआ मयाऽसकृत् । बलात्तोयं जिहीर्षन्तस्ततो वै मृदिता मया ।
न पेयमुदकं राजन्प्राणानिह परीप्सता ॥

3.314.44

पार्थ मा साहसं कार्पीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा तु कौन्तेय ततःपिब हरस्व च ॥
यूधिष्ठिर उवाच ।

3.314.45

न चाहं कामये यक्ष तव पूर्वपरिग्रहम् ॥

3.314.46

कामं नैतत्प्रसंसन्ति सन्तो हि पुरुषाः सदा । यदात्मना स्वमात्मानं प्रशंसेत्पुरुषर्षभ ।
यथाप्रज्ञं तु ते प्रश्नान्प्रतिवक्ष्यामि पृच्छ माम् ॥
यक्ष उवाच ।

3.314.47

किंस्विदादित्यमुन्नयति के च तस्याभितश्चराः ।
कश्चैनमस्तं नयतिकस्मिंश्च प्रतितिष्ठति ॥
युधिष्ठिर उवाच ।

3.314.48

ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः ।
धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति ॥
यक्ष उवाच ।

3.314.49

केन स्विच्छ्रोत्रियो भवति केन स्विद्विन्दते महत् ।
केन स्विद्द्वितीयवान्भवतिराजन्केन च बुद्दिमान् ॥
युधिष्ठिर उवाच ।

3.314.50

श्रुतेन श्रोत्रियो भति रतपसा विन्दते महत् ।
धृत्या द्वितीयवान्भवति बुद्धिमान्वृद्धसेवया ॥
यक्ष उवाच ।

3.314.51

किं ब्राह्मणानां देवत्वं कश्च धर्मः सतामिव ।
कश्चैषां मानुषो भावः किमेषामसतामिव ॥
युधिष्ठिर उवाच ।

3.314.52

स्वाध्याय एषां देवत्वं तप एषां सतामिव ।
मरणं मानुषो भावः परिवादोऽसतामिव ॥
यक्ष उवाच ।

3.314.53

किं क्षत्रियाणां देवत्वं कश्च धर्मः सतामिव ।
कश्चैषां मानुषो भावः किमेषामसतामिव ॥
युधिष्ठिर उवाच ।

3.314.54

इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतामिव ।
भयं वै मानुषो भावः परित्यागोऽसतामिव ॥
यक्ष उवाच ।

3.314.55

किमेकं यज्ञियं साम किमेकं यज्ञियं यजुः ।
का चैषां वृणुते यज्ञं कां यज्ञो नातिवर्तते ॥
युधिष्ठिर उवाच ।

3.314.56

प्राणो वै यज्ञियंसाम मनो वै यज्ञियं यजुः ।
ऋगेका वृणुते यज्ञं तां यज्ञो नातिवर्तते ॥
यक्ष उवाच ।

3.314.57

किंस्विदावपतां श्रेष्ठं रकिंस्विन्निवपतां वरम् ।
किंस्वित्प्रतिष्ठमानानां किस्वित्प्रसवतांवरम् ॥
युधिष्ठिर उवाच ।

3.314.58

वर्षमावपतां श्रेष्ठं बीजं निवपतां वरम् ।
गावः प्रतिष्ठमानानां पुत्रः प्रसवतां वरः ॥
यक्ष उवाच ।

3.314.59

इन्द्रियार्थाननुभवन्बुद्धिमाँल्लोकपूजितः ।
सम्मतः सर्वभूतानामुच्छ्वसन्को न जीवति ॥
युधिष्ठिर उवाच ।

3.314.60

देवतातिथिभृत्यानां पितॄणामात्मनश्च यः ।
न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति ॥
यक्ष उवाच ।

3.314.61

किंस्विद्गुरुतरं भूमेः किंस्विदुच्चतरं च स्वात् ।
किंस्विच्छीघ्रतरं वायोः किंस्विद्बहुतरं तृणात् ॥
युधिष्ठिर उवाच ।

3.314.62

माता गुरुतरा भूमेः खात्पितोच्चतरस्तथा ।
मनः शीघ्रतरं वाताच्चिन्ता बहुतरी तृणात् ॥
यक्ष उवाच ।

3.314.63

किंस्वित्सुप्तं न निमिषति किंस्विज्जातं न चेङ्गते ।
कस्यस्विद्धृदयं नास्तिकास्विद्वेगेन वर्धते ॥
युधिष्ठिर उवाच ।

3.314.64

मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चेङ्गते ।
अश्मनो हृदयन्नास्ति नदी वेगेन वर्धते ॥
अक्ष उवाच ।

3.314.65

किंस्वित्प्रवसतो मित्रं किंस्विन्मित्रं गृहे सतः ।
आतुरस् च किं मित्रं किंस्विन्मित्रं मरिष्यतः ॥
युधिष्ठिर उवाच ।

3.314.66

विद्या प्रवसतो मित्रं भार्या मित्रं गृहे सतः ।
आतुरस्य भिषङ्भित्रं दानं मित्रं मरिष्यतः ॥
यक्ष उवाच ।

3.314.67

कोऽतिथिः सर्वभूतानां किं स्विद्धर्मं सनातनम् ।
अमृतं किंस्विद्राजेन्द्रकिंस्वित्सर्वमिदं जगत् ॥
युधिष्ठिर उवाच ।

3.314.68

अतिथिः सर्वभूतानामग्निः सोमो गवामृतम् ।
सनातनोऽमृतो धर्मो वायुः सर्वमिदं जगत् ॥
यक्ष उवाच ।

3.314.69

किंस्विदेको विचरते जातः को जायते पुनः ।
किंस्विद्धिमस्य भैषज्यं किंस्विदावपनं महत् ॥
युधिष्ठिर उवाच ।

3.314.70

सूर्य एको विचरते यन्द्रमा जायते पुनः ।
अग्निर्हमस्य भैषज्यं भूमिरावपनं महत् ॥
यक्ष उवाच ।

3.314.71

किंस्विदेकपदं धर्म्यं किंस्विदेकपदं यशः ।
किंस्विदेकपदं स्वर्ग्यं किंस्विदेकपदं सुखम् ॥
युधिष्ठिर उवाच ।

3.314.72

दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः ।
सत्यमेकपदं स्वर्ग्यं शीलमेकपदंसुखम् ॥
यक्ष उवाच ।

3.314.73

किंस्विदात्मा मनुष्यस् किंस्विद्दैवकृतः सखा ।
उपजीवनं किस्विदस् किंस्विदस्य परायणम् ॥
युधिष्ठिर उवाच ।

3.314.74

पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा ।
उपजीवनं च पर्जन्यो दानमस् परायणम् ॥
यक्ष उवाच ।

3.314.75

धन्यानामुत्तमं किंस्विद्धनानां स्यात्किमुत्तमम् ।
लाभानामुत्तमं किंस्यात्सुखानां स्यात्किमुत्तमं ॥

3.314.76

धन्यानामुत्तमं दाक्ष्यन्धनानामुत्तमं श्रुतम् ।
लाभानां श्रेय आरोग्यं सुखानां तुष्टिरुत्तमा ॥
यक्ष उवाच ।

3.314.77

किंस्विद्धर्मपरंलके कश्च धर्मः सदाफलः ।
किं नियम्य न शोचन्ति कैश् सन्धिर्न जीर्यते ॥
युधिष्ठिर उवाच ।

3.314.78

आनृशंस्यं परं धर्मात्रेताधर्मः सदाफलः ।
मनो यम्य न शोचन्ति सन्धिः सद्भिर्न जीर्यते ॥
यक्ष उवाच ।

3.314.79

किन्नु हित्वाप्रियो भवति किन्नु हित्वा न शोचति ।
किन्नु हित्वाऽर्थवान्भवति किन्नु हित्वा सुखी भवेत् ॥
युधिष्ठिर उवाच ।

3.314.80

मानं हित्वाप्रियो भवति क्रोधं हित्वा न शोचति ।
कामं हित्वाऽर्थवान्भवति लोमं हित्वा सुखी भवेत् ॥
यक्ष उवाच ।

3.314.81

किमर्थं ब्राह्मणे दानं किमर्थं नटनर्तके ।
किमर्थं चैव भृत्येषु किमर्थं चैव राजसु ॥
युधिष्ठिर उवाच ।

3.314.82

धर्मार्थं ब्राह्मणे दानं यशोर्थं नटनर्तके ।
भृत्येषु सङ्ग्रहार्थं च भयार्थं चैव राजसु ॥
यक्ष उवाच ।

3.314.83

अज्ञानेनावृतोलोकस्तमसा न प्रकाशते ।
लोभात्त्यजतिमित्राणि सङ्गात्स्वर्गं न गच्छति ॥
युधिष्ठिर उवाच ।

3.314.84

अज्ञानेनावृतोलोकस्तमसा न प्रकाशते ।
लोभात्त्यजतिमित्राणि सङ्गात्स्वर्गं न गच्छति ॥
यक्ष उवाच ।

3.314.85

मृत कथं स्यात्पुरुषः कथं राष्ट्रं मृतं भवत् ।
श्राद्धं मृतन्कथं वा स्यात्कथं यज्ञा मृतो भवेत् ॥
युधिष्ठिर उवाच ।

3.314.86

मृतो दरिद्रः पुरुषोमृतंराष्ट्रमराजकम् ।
मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः ॥
यक्ष उवाच ।

3.314.87

का दिक्किमुदकम्पार्थ किमन्नं किञ्च वै विषम् ।
श्राद्धस् कालमाख्याहि ततः पिब हरस्व च ॥
युधिष्ठिर उवाच ।

3.314.88

सन्तो दिग्जलमाकाशं गौरन्नं ब्राह्मणं विषम् ।
श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे ॥
यक्ष उवाच ।

3.314.89

तपः किंलक्षणं प्रोक्तं को दमश्च प्रकीर्तितः ।
क्षमा च का परा प्रोक्ता का च ह्रीः परिकीर्तिता ॥
युधिष्ठिर उवाच ।

3.314.90

तपः स्वधर्मवर्तित्वं मनसो दमनं दमः ।
क्षमा द्वन्द्वसहिष्णुत्वंहीरकार्यनिवर्तनम् ॥
यक्ष उवाच ।

3.314.91

किं ज्ञानं प्रोच्यते राजन्कः शमश्च प्रकीर्तितः ।
दया च का परा प्रोक्ता किं चार्जवमुदाहृतम् ॥
युधिष्ठिर उवाच ।

3.314.92

ज्ञानं तत्त्वार्थसम्बोधः शमश्चित्तप्रशान्तता ।
दयासर्वसुखैपित्वमार्जवं समचित्तता ॥
यक्ष उवाच ।

3.314.93

कः शत्रुर्दुर्जयः पुंसां कश्चव्याधिरनन्तकः ।
कीदृशश्च स्मृतः साधुरसाधुः कीदृशः स्मृतः ॥
युधिष्ठिर उवाच ।

3.314.94

क्रोधः सुदुर्जयः शत्रुर्लोभोव्याधिरनन्तकः ।
सर्वभूतहितः साधुरसाधुर्निर्दयः स्मृतः ॥
यक्ष उवाच ।

3.314.95

को मोहः प्रोच्यते राजन्कश् मानः प्रकीर्तितः ।
किमालस्यं च विज्ञेयं कश्चशोकः प्रकीर्तितः ॥
युधिष्ठिर उवाच ।

3.314.96

मोहो हिधर्ममूढ्तवम्मानस्त्वात्माभिमानिता ।
धर्मनिष्क्रियताऽलस्यं शोकस्त्वज्ञानमुच्यते ॥
यक्ष उवाच ।

3.314.97

किं स्थैर्यमृषिभिः प्रोक्तं किं च धैर्यमुदाहृतम् ।
स्नानं च किं परं प्रोक्तं दानं च किमिहोच्यते ॥
युधिष्ठि उवाच ।

3.314.98

स्वधर्मे स्थिरता स्थैर्यं धैर्यमिन्द्रियनिग्रहः ।
स्नानं मनोमलत्यागो दानं वै भूतरक्षणम् ॥
यक्ष उवाच ।

3.314.99

कः पण्डिः पुमान्ज्ञेयो नास्तिकः कश्च उच्यते ।
को मूर्खः कश्चकामः स्यात्को मत्सर इति स्मृतः ॥
युधिष्ठिर उवाच ।

3.314.100

धर्मज्ञः पण्डितो ज्ञेयो नास्तिको मूर्ख उच्यते ।
कामः संसारहेतुश्च हृत्तापो मत्सरः स्मृतः ॥
यक्ष उवाच ।

3.314.101

कोऽहन्कार यैतिप्रोक्तः कश्च दम्भः प्रकीर्तितः ।
किं तद्दैवं परं प्रोक्तं किं तत्पैशुन्यमुच्यते ॥
युधिष्ठिर उवाच ।

3.314.102

महाऽज्ञानमहन्कारो दम्भो धर्मो ध्वजोच्छ्रयः ।
दैवं रदानफलं प्रोक्तं पैशुन्यं परदूषणम् ॥
यक्ष उवाच ।

3.314.103

धर्मश्चार्थश्च कामश्च परस्परविरोधिनः ।
एषां नित्यविरुद्धानां कथमेकत्र सन्गमः ॥
युधिष्ठिर उवाच ।

3.314.104

यदा धर्मश्भार्या च परस्परवशानुगौ ।
तदा धर्मार्थकामानां त्रयाणामपि सन्गमः ॥
यक्ष उवाच ।

3.314.105

अक्षयोनरकः केन प्राप्यते भरतर्षभ ।
एतन्मे पृच्छतः प्रश्नं तच्छीघ्रं वक्तुमर्हसि ॥
युधिष्ठिर उवाच ।

3.314.106

रब्राह्मणं स्वयमाहूय याचमानमकिञ्चनम् ।
पश्चान्नास्तीति योब्रूयात्सोक्षयन्नरकं व्रजेत् ॥

3.314.107

वेदेषु धर्मशास्त्रेषु मिथ्या यो वै द्विजातिषु ।
देवेषु पितृध्रमेषु सोऽक्षयन्नरकं व्रजेत् ॥

3.314.108

विद्यमाने धने लोभाद्दानभोगविवर्जितः ।
पश्चान्नास्तीति यो ब्रूयात्सोक्षयं नरकं व्रजेत् ॥
यक्ष उवाच ।

3.314.109

राजन्कुलेन वृत्तेन स्वाध्यायेन श्रुतेन वा ।
ब्राह्मण्यं केन भवति प्रब्रूह्येतत्सुनिश्चितम् ॥
युधिष्ठिर उवाच ।

3.314.110

शृणु यक्ष कुलं तात न स्वाध्यायो न च श्रुतम् ।
कारणं हि द्विजत्वेच वृत्तमेव न संशयः ॥

3.314.111

वृत्तं यत्नेन संरक्ष्यं ब्राह्मणेन विशेषतः ।
अक्षीणवृत्तो न क्षीणो वृत्ततस्तु हतो हतः ॥

3.314.112

पठकाः पाठकाश्चैव ये चान्ये शास्त्रचिन्तकाः ।
सर्वे व्यसनिनो मूर्खा यः क्रियावान्स पण्डितः ॥

3.314.113

चतुर्वेदोऽपि दुर्वृत्तः स शूद्रादतिरिच्यते ।
योऽग्निहोत्रपोर दान्तः स ब्राह्मण इति स्मृतः ॥
यक्ष उवाच ।

3.314.114

प्रियवचनवादी किं लभते विमृशितकार्यकरः किं लभते ।
बहुमित्रकरः किं लभते धर्मे रतः किं लभते कथय ॥
युधिष्ठिर उवाच ।

3.314.115

प्रियवचनवादी प्रीयो भवति विमृशितकार्यकरोऽधिकं जयति ।
बहुमित्रकरः सुखं वसत यश्च धर्मरतः स गतिं लभते ॥
यक्ष उवाच ।

3.314.116

कोमोदतेकिमाश्चर्यं कः पन्थाः का च वार्तिका ।
वद मे चतुरः प्रश्नान्मृता जीवन्तु बान्धवाः ॥
युधिष्ठिर उवाच

3.314.117

पञ्चमेऽहनि षष्ठे वा शाकं पचति स्वे गृहे ।
अनृणी रचाप्रवासी चस वारिचर मोदते ॥

3.314.118

अहन्यहनि भूतानि गच्छन्तीह यमालयम् ।
शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतः परम् ॥

3.314.119

तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना नैको मुनिर्यस्य मतं प्रमाणम् ।
धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतःस पन्था ॥

3.314.120

पृथ्वी विभाण्डं गगनं पिघानं सूर्याग्निना रात्रिदिवेन्धनेन ।
मासर्तुदर्वीपरिघट्टनेन भूतानि कालः पचतीति वार्ता ॥
यक्ष उवाच ।

3.314.121

व्याख्याता मे त्वया प्रश्ना यथातत्वं परन्तप ।
पुरुषं त्विदानींव्याख्याहि यश्च सर्वधनी नरः ॥
युधिष्टिर उवाच ।

3.314.122

दिवं स्पृशति भूमिं च शब्दः पुण्येन कर्मणा ।
यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥

3.314.123

तुल्ये प्रियाप्रिये यस् सुखदुःखे तथैव च ।
अतीतानागते चोभे सवै पुरुष उच्येत ॥

3.314.124

समत्वं यस्य सर्वेषु निस्पृहः शान्तमानसः ।
सुप्रसन्नः सदा योगी स वै सर्वधनी नरः ॥
यक्ष उवाच ।

3.314.125

व्याख्यातः पुरुषो राजन्यश्च सर्वधनी नरः ।
तस्मात्त्वमेकं भ्रातृणां यमिच्छसि स जीवतु ॥
युधिष्ठिर उवाच ।

3.314.126

श्यामो य एष रक्ताक्षो बृहत्साल इवोत्थितः ।
व्यूढोरस्को महाबाहुर्नकुलो यक्ष जीवतु ॥
यक्ष उवाच ।

3.314.127

प्रियस्ते भीमसेनोऽयमर्जुनो वः परायणम् ।
त्वं कस्मान्नकुलं राजन्सापत्नं जीवमिच्छसि ॥

3.314.128

यस् नागसहस्रेण दशसङ्ख्येन वै बलम् ।
तुल्यन्तं भीममुत्सृज्य नकुलं जीवमिच्छसि ॥

3.314.129

तथैनं मनुजाः प्राहुर्भीमसेनं प्रियं तव ।
अथ कनानुभावेन सापत्नं जीवमिच्छसि ॥

3.314.130

यस्य बाहुबलंसर्वेपाण्डवाः समुपासते ।
अर्जुनं तमपाहाय नकुलं जीवमिच्छसि ॥
युधिष्ठिर उवाच ।

3.314.131

धर्म एव हतो हन्ति ध्रमो रक्षति रक्षितः ।
तस्माद्धṟमं न त्यजामि मा नो धर्मो हतोऽवधीत् ॥

3.314.132

आनृशंस्यं परो धर्मः परमार्थाच्चमे मतम् ।
आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु ॥

3.314.133

धर्मशीलः सदा राजाइतिमां मानवा विदुः ।
स्वधर्मान्न चलिष्यामि नकुलो यक्ष जीवतु ॥

3.314.134

कुन्ती चैव तु माद्री च द्वे भार्ये तु पितुर्मम ।
उभे सपुत्रे स्यातां वै इतिमे धीयते मतिः ॥

3.314.135

यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः ।
मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु ॥
यक्ष उवाच ।

3.314.136

यस् तेऽर्थाच्च कामच्च आनृशंस्यं परं मतम् ।
तस्मात्ते भ्रातरः सर्वे जीवन्तु भरतर्षभ ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc