भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.313

3.313.1

नापदामस्ति मर्यादा न निमित्तं न कारणम् ।
धर्मस्तु विभजत्यर्थमुभयोः पुण्यपापयोः ॥
भीम उवाच ।

3.313.2

प्रातिकाम्यनयत्कृष्णां सभायां प्रेष्यवत्तदा ।
न मया निहतस्तत्रतेन प्राप्ताः स्म संशयम् ॥
अर्जुन उवाच ।

3.313.3

वाचस्तीक्ष्णास्थिभेदिन्यः सूतपुत्रेण भाषिताः ।
अतितीव्रा मया क्षान्तास्तेन प्राप्ताः स्म संशयं ॥
सहदेव उवाच ।

3.313.4

शकुनिस्त्वां यदाऽजैषीदक्षद्यूतेन भारत ।
स मया न हतस्तत्रतेन प्राप्ताः स्म संशयम् ॥
वैशम्पायन उवाच ।

3.313.5

ततो युधिष्ठिरो राजा नकुलं वाक्यमब्रवीत् ।
आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश ॥

3.313.6

पानीयमन्तिके पश्य वृक्षान्वाप्युदकाश्रयान् ।
एते हि भ्रातरः श्रान्तास्तव तात पिपासिताः ॥

3.313.7

नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येऽष्ठस्य शासनात् । तत उत्थाय मतिमाञ्शीघ्रमारुह्य पादपम् ।
अब्रवीद्धान्तरं ज्येष्मभिवीक्ष्य समन्ततः ॥

3.313.8

पश्यामि बहुलान्राजन्वृक्षानुदकसंश्रयान् ।
सारसानां च निर्ह्रादस्तत्रोदकमसंशयम् ॥

3.313.9

ततोऽब्रवीत्सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः ।
गच्छ सौम्य ततः शीघ्रं तूणैः रपानीयमानय ॥

3.313.10

नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येष्ठस्य शासनात् ।
प्राद्रवद्यत्र पानीयं शीघ्रं चैवान्वपद्यत ॥

3.313.11

स दृष्ट्वा विमलं तोयं सारसैः परिवारितम् ।
पातुकामस्ततो वाचमन्तरिक्षात्स शुश्रुवे ॥
यक्ष उवाच ।

3.313.12

मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा तु माद्रेय ततः पिब हरस्व च ॥

3.313.13

अनादृत्य तु तद्वाक्यं नकुलः सुपिपासितः ।
अपिबच्छीतलं तोयं पीत्वा च निपपात ह ॥

3.313.14

चिरायमाणे नकुले कुन्तीपुत्रो युधिष्ठिरः ।
अब्रवीद्ध्रातरं वीरं सहदेवमरिन्दमम् ॥

3.313.15

भ्राता चिरायते तात सहदेव तवाग्रजः ।
तं चैवानय सोदर्यं पानीयं च त्वमानय ॥

3.313.16

सहदेवस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत ।
ददर्श च हतं भूमौ भ्रातरं नकुलं तदा ॥

3.313.17

भ्रातृशोकाभिसन्तप्तस्तृषया च प्रपीडितः ।
अभिदुद्राव रपानीयं ततो वागभ्यभाषत ॥

3.313.18

मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा यथाकामं पिबस्व च हरस्व च ॥

3.313.19

अनादृत्य तु तद्वाक्यं सहदेवः पिपासितः ।
अपिबच्छीतलं तोयं पीत्वा च निपपात ह ॥

3.313.20

अथाब्रवीत्स विजयं कुन्तीपुत्रो युधिष्ठिरः ।
भ्रातरौ ते चिरगतौ बीभत्सो शत्रुकर्शन ॥

3.313.21

तौ चैवानय भद्रं ते पानीयं च त्वमानय ।
त्वं हि नस्तात सर्वेषां दुःखितानामपाश्रयः ॥

3.313.22

एवमुक्तो गुडाकेशः प्रगृह्य सशरं धनुः ।
आमुक्तखङ्गो मेधावी तत्सरः प्रत्यपद्यत ॥

3.313.23

यतः पुरुषशार्दूलौ पानीयहरणे गतौ ।
तौ ददर्श हतौ तत्रभ्रातरौ श्वेतवाहनः ॥

3.313.24

विगतासू नरव्याघ्रौ शयानौ वसुधातले । प्रसुप्ताविव तौ दृष्ट्वा नरसिंहः सुदुःखितः ।
धनुरुद्यम्य कौन्तेयो व्यलोकयत तद्वनम् ॥

3.313.25

नापश्यत्तत्रकिञ्चित्स भूतमस्मिन्महावने ।
सव्यसाची पिपासार्तः पानीयं सोभ्यधावत ॥

3.313.26

अभिधावंस्ततो वाचमन्तरिक्षात्स शुश्रुवे ।
यत्त्वमिच्छसि पानीयं नैतच्छक्यं बलात्त्वया ॥

3.313.27

कौन्तेय यदि वै प्रश्नान्मयोक्तान्प्रतिवक्ष्यसि ।
ततः पास्यसि पानीयं हरिष्यसि च भारत ॥

3.313.28

वारितस्त्वब्रवीत्पार्थो दृश्यमानो निवारय ।
यावद्बाणैर्विनिर्भिन्नः पुनर्नैवं वदिष्यसि ॥

3.313.29

एवमुक्त्वा ततः पार्थः शरैरस्त्रानुमन्त्रितैः । प्रववर्ष रदिशः कृत्स्नाः शब्दवेधं च दर्शयन् ।
कर्णिनालीकनाराचानुत्सृजन्भरतर्षभः ।

3.313.30

स त्वमोघानिषून्मुक्त्वा तृष्णयाऽभिप्रपीडितः ।
अनेकैरिषुसन्घातैरन्तरिक्षे ववर्ष ह ॥
यक्ष उवाच ।

3.313.31

किं विधानेन ते पार्थ प्रश्नानुक्त्वा पयः पिब ।
अनुक्त्वा च पिबन्प्रश्नान्पीत्वैव नभविष्यसि ॥

3.313.32

स च मोघानिषून्दृष्ट्वातृष्णया च प्रपीडितः ।
अवज्ञायैव तां वाचं पीत्वैव निपपात् ह ॥

3.313.33

अथाब्रवीद्भीमसेनं कुनतीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च बीभत्सुश्च परन्तप ॥

3.313.34

चिरन्गतास्तोयहेतोर्न चागच्छन्ति भारत ।
तांश्चैवानय भद्रं ते पानीयं च त्वमानय ॥

3.313.35

भीमसेनस्तथेत्युक्त्वा तं देशं प्रत्यपद्यत ।
रयत्रते पुरुषव्याघ्रा भ्रातरोस्य निपातिताः ॥

3.313.36

तान्दृष्ट्वा दुःखितो भीमस्तृषया च प्रपीडितः ।
अमन्यत महाबाहुः कर्म तद्यक्षरक्षसाम् ॥

3.313.37

सचिन्तयामास तदा योद्धव्यं ध्रुवमद्य मे ।
पास्यामि तावत्पानीयमिति पार्थो वृकोदरः ॥

3.313.38

ततोऽभ्यधावत्पानीयं पिपासुः पुरुषर्षभः ॥
यक्ष उवाच ।

3.313.39

मा तात साहसन्कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥

3.313.40

एवमुक्तस्तदा भीमो यक्षेणामिततेजसा ।
अनुक्त्वैव तु तान्प्रश्नान्पीत्वैव निपपात ह ॥

3.313.41

ततः कुन्तीसुतो राजा प्रचिन्त्य पुरुषर्षभः ।
आत्मनाऽत्मानमन्विष्य विचारमकरोत्प्रभुः ॥

3.313.42

ततश्चिरगतान्भ्रातृनथाऽज्ञाय युधिष्ठिरः ।
चिरायमाणान्बहुशः पुनः पुनरुवाचह ॥

3.313.43

किंस्विद्वनमिदं दग्धं किंखिद्दृष्टो मृतो भवेत् ।
प्रहरन्तो महाभूतं शप्तास्तेनाथ तेऽपतन् ॥

3.313.44

न पश्यन्त्यथवा वीराः पानीयं यत्रते गताः ।
अन्विच्छद्भिर्वने तोयं कालोऽयमतिपातितः ॥

3.313.45

किन्नु तत्कारणं येन नायान्ति पुरुषर्षभाः ।
गच्छाम्येषां पदं द्रष्टुमिति कृत्वा युधिष्ठिरः ॥

3.313.46

समुत्थाय महाबुद्धिर्दह्यमानेन चेतसा ।
व्यपेतजननिर्घोषं प्रविवेश महावनम् ॥

3.313.47

रुरुभिश्च वराहैश्च पक्षिभिश्च निषेवितम् ।
नीलभास्वरवर्णैश्च पादपैरुशोभितम् ॥

3.313.48

भ्रमरैरुपगीतं च पक्षिभिश् समन्ततः ।
मृदुशाड्वलसन्कीर्णभूमिभागं मनोहरम् ॥

3.313.49

स गच्छन्कानने तस्मिन्हेमजालपरिष्कृतम् ।
ददर्श तत्सरः श्रीमान्विश्वकर्मकृतं यथा ॥

3.313.50

उपेतं नलिनीजालैः सिन्धुवारैः सचेतसैः ।
केतकैः करवीरैश्च पिप्पलैश्चैव संवृतम् ॥

3.313.51

ततो धर्मसुतः श्रीमान्भ्रातृदर्शनलालसः । श्रमार्तस्तदुपागम्य सरो दृष्ट्वाऽथ विस्मितः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc