भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.315

3.315.1

ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवः ।
क्षुत्पिपासे च सर्वेषां क्षणेन व्यपगच्छताम् ॥
युधिष्ठि उवाच ।

3.315.2

सरस्येकेन पादेन तिष्ठन्तमपराजितम् ।
पृच्छामि को भवान्देवो न मे यक्षो मतो भवान् ॥

3.315.3

बसूनां वा भवानेको रुद्राणामथवा भवान् ।
अथवा मरुतां श्रेष्ठो वज्री वा त्रिदशेश्वरः ॥

3.315.4

मम हि भ्रातर इमे सहस्रशतयोधिनः ।
तं योधं न प्रपश्यामि येन सर्वे निपातिताः ॥

3.315.5

सुखं प्रति प्रबुद्दानामिन्द्रियाण्युपलक्षये ।
स भवान्सुहृदोस्माकमथवा नः पिता भवान् ॥
यक्ष उवाच ।

3.315.6

अहन्ते जनकस्तात धर्मो मृदुपराक्रम ।
त्वां रदिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ ॥

3.315.7

यशः सत्यन्दमः शौचमार्जवं ह्रीरचापलम् ।
दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम ॥

3.315.8

अहिंसा समता शान्तिस्तपः शौचममत्सरः ।
द्वाराण्येतानि मे विद्धि प्रियो ह्यसि सुतो मम ॥

3.315.9

दिष्ट्या पञ्चसु रक्तोसि दिष्ट्या ते षट्रपदी जिता ।
द्वे पूर्वे मध्यमे द्वे च द्वे शान्ते साम्परायिके ॥

3.315.10

ध्रमोऽहमिति भद्रं ते जिज्ञासुस्त्वामिहागतः ।
आनृशंस्येन तुष्टोस्मि वरं दास्यामि तेऽनघ ॥

3.315.11

वरं वृणीष्व राजेन्द्रदाता ह्यस्मि तवानघ ।
ये हि मे पुरुषा भक्ता न तेषामस्ति दुर्गतिः ॥
युधिष्ठिर उवाच ।

3.315.12

अरणी तु हृतायस्य मृगेण वदतांवर ।
तस्याग्नयो न लुप्येरन्प्रथमोऽस्तु वरो मम ॥
धर्म उवाच ।

3.315.13

आरणेयमिदं तस्य ब्राह्मणस्य हृतं मया ।
मृगवेषेण कौन्तेय जिज्ञालार्थं तवानघ ॥
वैशम्पायन उवाच ।

3.315.14

ददानीत्येव भगवानुत्तरं प्रत्यपद्यत ।
अन्यं वरय भद्रं ते वरं त्वममरोपम ॥
युधिष्टिर उवाच ।

3.315.15

वर्षाणि द्वादशारण्ये त्रयोदशमुपस्थितम् ।
तत्रनो नाभिजानीयुर्वसतो मनुजाः क्वचित् ॥

3.315.16

ददानीत्येव भगवानुत्तरं प्रत्यपद्यत ।
भूयश्चाश्वासयामास कौन्तेयं सत्यविक्रमम् ॥

3.315.17

यद्यपि स्वेन रूपेण चरिष्यथ महीमिमाम् ।
न वो विज्ञास्यते कश्चित्रिषु लोकेषु भारत ॥

3.315.18

वर्षन्त्रयोदशमिदं मत्प्रसादात्कुरूद्वहाः ।
विराटनगरे गूढा अविज्ञाताश्चरिष्यथ ॥

3.315.19

यद्वः सन्कल्पितं रूपं मनसा यस् यादृशम् ।
तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ ॥

3.315.20

अरणीसहितं भाण्डं ब्राह्मणाय प्रयच्छत ।
जिज्ञासार्थं मया ह्येतदाहृतम्मृगरूपिणा ॥

3.315.21

प्रवृणीष्वापरं सौम्य वरमिष्टं ददानि ते ।
न तृप्यामि नरश्रेष्ठ प्रयच्छन्वै वरांस्तथा ॥

3.315.22

तृतीयं गृह्यतां पुत्र वरमप्रतिमं महत् ।
त्वं हि मत्प्रभवो राजन्विदुरश्चममांशजः ॥
जुधिष्ठिर उवाच ।

3.315.23

देवदेवो मया दृष्टो भवान्साक्षात्सनातनः ।
यं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः ॥

3.315.24

जयेयं लोभमोहौ च क्रोधं चाहं सदा विभो ।
दाने तपसि सत्ये च मनो मे सततं वेत् ॥
धर्म उवाच ।

3.315.25

रौपपन्नो गुणैरेतैः स्वभावेनासि पाण्डव ।
भवान्धर्मः पुनश्चैव यथोक्तं ते भविष्यति ॥
वैशंवायन उवाच ।

3.315.26

इत्युक्त्वान्तऽर्दधे धर्मो भगबाँल्लोकभावनः ।
समेताः पाण्डवाश्चैव सुखसुप्ता मनस्विनः ॥

3.315.27

उपेत्यचाश्रमं वीराः सर्व एव गतक्लमाः ।
आरणेयं ददुस्तस्मै ब्राह्मणाय तपस्विने ॥

3.315.28

इदं समुत्थानसमागतं मह- त्पितुश्चपुत्रस्य च कीर्तिवर्धनम् ।
पठन्नरः रस्याद्विजितेन्द्रियो वशी सपुत्रपौत्रः शतपर्षभाग्भवेत् ॥

3.315.29

न चाप्यधर्मे न सुहृद्विभेदने परस्वहारे परदारमर्शने ।
कदर्यभावे न रमेनेमनः सदा नृणां सदाख्यानमिदं विजानताम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc