भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.310

3.310.1

एतस्मिन्नेव काले तु धृतराष्ट्रस्य वै सखा ।
सूतोऽधिरथ इत्येव सदारो जाह्नवीं ययौ ॥

3.310.2

तस्य भार्याऽभवद्राजन्रूपेणासदृशी भुवि । राधा नाम महाभागा न सा पुत्रमविन्दत ।
अपत्यार्थे परं यत्नमकरोच्च विशेषतः ॥

3.310.3

सा ददर्शाथ मञ्जूषामुह्यमानां यदृच्छया ।
दत्तरक्षाप्रतिसरामन्वालम्भनशोभनाम् ॥

3.310.4

ऊर्मीतरङ्गैर्जाह्नव्याः समानीतामुपह्वरम् ।
विवर्तमानां बहुशः पुनःपुनरितस्ततः ॥

3.310.5

ततः सा वायुना राजन्स्रोतसा च बलीयसा ।
उपानीतो यतः सूतः सभार्यो जलमाश्रितः ॥

3.310.6

सा तु कौतूहलात्प्राप्तां ग्राहयामास भामिनी ।
ततो निवेदयामास सूतस्याधिरथस्य वै ॥

3.310.7

स तामुद्धृत्य मञ्जूषामुत्सार्य जलमन्तिकात् ।
यन्त्रैरुद्घाटयामास सोऽपश्यत्तत्रबालकम् ॥

3.310.8

मृष्टकुण्डलयुक्तेन वदनेन विराजितम् ।
परिम्लानमुखं बालं रुदन्तं क्षुधितं भृशम् ॥

3.310.9

स तु तं परया लक्ष्म्या दृष्ट्वा युक्तं वरात्मजम् । स सूतो भार्यया सार्धं विस्मयोत्फुल्ललोचनः ।
अङ्कमारोप्य तं बालं भार्यां वचनमब्रवीत् ॥

3.310.10

इदमत्यद्भुतं भीरु यतो जातोस्मि भामिनि ।
दृष्टवान्देवगर्भोऽयं मन्येऽस्माकमुपागतः ॥

3.310.11

अनपत्यस्य पुत्रोऽयं देवैर्दत्तो ध्रुवं मम ।
इत्युक्त्वा तं ददौ पुत्रं राधायै स महीपते ॥

3.310.12

रप्रतिजग्राह तं राधा विधिवद्दिव्यरूपिणम् ।
पुत्रं कमलगर्भाभं देवगर्भं श्रिया वृतम् ॥

3.310.13

स्तन्यं समस्रवच्चास्य दैवादित्थ निश्चयः । पुपोष चैनं विधिवद्ववृधे स च वीर्यवान् ।
ततः प्रभृति चाप्यन्ये प्राभवन्नौरसाः सुताः ॥

3.310.14

नामकर्म च चक्रुस्ते कुण्डले तस् दृश्यते ।
कर्ण इत्येव तं बालं दृष्ट्वा कर्णं सकुण्डलम् ॥

3.310.15

वसुवर्मधरं दृष्ट्वा तं बालं हेमकुण्डलम् ।
नामास्य वसुषेणेति ततश्चक्रुर्द्विजातयः ॥

3.310.16

एवं स सूतपुत्रत्वं जगामामितविक्रमः ।
वसुषेण इतिख्यातो वृष इत्येव च प्रभुः ॥

3.310.17

सूतस्य ववृधेऽङ्गेषु ज्येष्ठः पुत्रः स वीर्यवान् ।
चारेण विदितश्चासीत्पृथया दिव्यवर्मभृत् ॥

3.310.18

सूतस्त्वधिरथः पुत्रं विवृद्धं समयेन तम् ।
दृष्ट्वा प्रस्थापयामास पुरं वारणसाह्वयम् ॥

3.310.19

तत्रोपसदनं चक्रे द्रोणस्येष्वस्त्रकर्मणि ।
सख्यं दुर्योधनेनैवमगमत्स च वीर्यवान् ॥

3.310.20

द्रोणात्कृपाच्च रामाच्च सोऽस्त्रग्रामं चतुर्विधम् ।
लब्ध्वा लोकेऽभवत्ख्यातः परमेष्वासतां गतः ॥

3.310.21

सन्धाय धार्तराष्ट्रेण पार्थानां विप्रिये रतः ।
योद्धुमाशंसते नित्यं फल्गुनेन महात्मना ॥

3.310.22

सदा हि तस् स्पर्धाऽसीदर्जुनन विशाम्पते ।
अर्जुनस्य च कर्णेन यतो द्वन्द्वं बभूव ह ॥

3.310.23

एतद्गुह्यं महाराज सूर्यस्यासीन्न संशयः ।
यः सूर्यसम्भवः कर्णः कुर्यात्प्रतिकुले रतः ॥

3.310.24

तं तु कुण्डलिनं दृष्ट्वा वर्मणा च समन्वितम् ।
अवध्यं समरे मत्वा पर्यतप्यद्युधिष्ठिरः ॥

3.310.25

यदा च कर्णो राजेन्द्र भानुमन्तं दिवाकरम् ।
स्तौति मध्यन्दिने प्राप्ते प्राञ्जलिः सलिलोत्थितः ॥

3.310.26

तत्रैनमुपतिष्ठन्ति ब्राह्मणा धनहेतुना ।
नादेयं तस्य तत्काले किञ्चिदस्ति द्विजातिषु ॥

3.310.27

तमिन्द्रो ब्राह्मणो भूत्वा भिक्षां देहीत्युपस्थितः । स्वागतं चेति राधेयस्तमथ प्रत्यभाषत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc