भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.309

3.309.1

ततो गर्भः समभवत्पृथायाः पृथिवीपते ।
शुक्ले दशोत्तरे पक्षे तारापतिरिवाम्बरे ॥

3.309.2

सा बान्धवभयाद्बाला गर्भं तं विनिगूहती ।
धारयामास सुश्रोणी न चैनां बुबुधे जनः ॥

3.309.3

न हि तां वेद नार्यन्या काचिद्धात्रेयिकामृते ।
कन्यापुरगतां बालां निपुणां परिरक्षणे ॥

3.309.4

ततः कालेन सा गर्भं सुषुवे वरवर्णिनी ।
कन्यैव तस्य देवस्य प्रसादादमरप्रभम् ॥

3.309.5

तथैवाबद्धकवचं कनकोज्ज्वलकुण्डलम् ।
हर्यक्षं वृषभस्कन्धं यथास्य पितरं तथा ॥

3.309.6

जातमात्रं च तं गर्भं धात्र्या सम्मन्त्र्य भामिनी । उत्स्रष्टुकामा तं गर्भं कारयामास भारत ।

3.309.7

मञ्जूषां शिल्पिभिस्तूर्णं सुनद्धां सुप्रतिष्ठिताम् ॥ प्लवैर्बहुविधैर्बद्धां प्लवनार्थं जले नृप ।
अजिनैर्मृदुभिश्चैवं संस्तीर्णशयनां तथा ॥

3.309.8

मञ्जूषायां समाधाय स्वास्तीर्णायां समन्ततः । मधूच्चिष्टस्थितायां तं सुखायां रुदती तथा ।
श्लक्ष्णायां सुपिधानायामश्वनद्यामवासृजत् ॥

3.309.9

जानती चाप्यकर्तव्यं कन्याया गर्भधारणम् ।
पुत्रस्नेहेन सा राजन्करुणं पर्यदेवयत् ॥

3.309.10

समुत्सृजन्ती मञ्जूपामश्वनद्यां तदा जले ।
उवाच रुदतीकुन्ती यानि वाक्यानि तच्छृणु ॥

3.309.11

स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च पुत्रक ।
दिव्येभ्यश्चैव भूतेभ्यस्तथा तोयचराश्च ये ॥

3.309.12

शिवास्ते सन्तु पन्थानो मा च ते परिपन्थिनः ।
आगताश्च तथा पुत्र भवन्त्यद्रोहचेतसः ॥

3.309.13

पातु त्वां वरुणो राजा सलिले सलिलेश्वरः ।
अन्तरिक्षेऽन्तरिक्षस्थः पवनः सर्वगस्तथा ॥

3.309.14

पिता त्वां पातु सर्वत्र तपनस्तपतांवरः ।
येन दत्तोसि मे पुत्र दिव्येन विधिना किल ॥

3.309.15

आदित्या वसवो रुद्राः साध्या विश्वे च देवताः ।
मरुतश्च सहेन्द्रेण दिशश्च सदिदीश्वराः ॥

3.309.16

रक्षन्तु त्वां सुराः सर्वे समेषु विषमेषु च ।
वेत्स्यामि त्वांविदेशेपि कवचेनाभिसूचितम् ॥

3.309.17

धन्यस्ते पुत्र जनरको देवो भानुर्विभावसुः ।
स्त्वां द्रक्ष्यति दिव्येन चक्षुषा वाहिनीगतम् ॥

3.309.18

धन्या सा प्रमदा या त्वां पुत्रत्वे कल्पयिष्यति ।
यस्यास्त्वं तृषितः पुत्र स्तनं पास्यसि देवज ॥

3.309.19

कोनु स्वप्नस्तया दृष्टो या त्वामादित्यवर्चसम् ।
दिव्यवर्मसमायुक्तं दिव्यकृण्डलभूषितम् ॥

3.309.20

पद्मायतविशालाक्षं पद्मताम्रदलोज्ज्वलम् ।
सुललाटं सुकेशान्तं पुत्रत्वे कल्पयिष्यति ॥

3.309.21

धन्या द्रक्ष्यन्ति पुत्र त्वां भूमौ संसर्पमाणकम् ।
अव्यक्तकलवाक्यानि वदन्तं रेणुगुण्ठितम् ॥

3.309.22

धन्या द्रक्ष्यन्ति पुत्र त्वां पुनर्यौवनगोचरम् ।
हिमवद्वनसम्भूतं सिंहं केसरिणं यथा ॥

3.309.23

एवं बहुविधं राजन्विलप्य करुणं पृथा ।
अवामृजतमज्जूषामश्वनद्यां तदा जले ॥

3.309.24

रुदती पुत्रशोकार्ता निशीथे कमलेक्षणा ।
धात्र्या सह पृथा राजन्पुत्रदर्शनलालसा ॥

3.309.25

विसर्जयित्वा मञ्जूषां सम्बोधनभयात्पितुः ।
विवेश राजभवनं पुनः शोकातुरा ततः ॥

3.309.26

मञ्जूषा त्वश्वनद्याः सा ययौ चर्मयण्वतीं नदीम् ।
चर्मण्वत्याश्चयमुनां ततो गङ्गां जगाम ह ॥

3.309.27

गङ्गायाः सूतविषयं चम्पामनुययौ पुरीम् ।
स मञ्जूषागतो गर्भस्तरङ्गैरुह्यमानकः ॥

3.309.28

अमृतादुत्थितं दिव्यं तनुवर्म सकुण्डलम् ।
धारयामास तं गर्भं दैवं च विधिनिर्मितम् ॥

3.309.29

एतद्गुह्यं महाराज सूर्यस्यासीन्महात्मनः । स सूर्यसम्भवो गर्भः कुन्त्या गर्भेण धारितः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc