भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.311

3.311.1

देवराजमनुप्राप्तं ब्राह्मणच्छद्मनाऽवृतम् ।
दृष्ट्वास्वागतमित्याह न बुबोधास्य मानसम् ॥

3.311.2

हिरण्यकण्ठीः प्रमदा ग्रामान्वा बहुगोकुलान् ।
किं ददानीति तं विप्रमुवाचाधिरथिस्ततः ॥
ब्राह्मण उवाच ।

3.311.3

हिरण्यकण्ठ्यः प्रमदा यच्चान्यत्प्रीतिवर्धनम् ।
नाह दत्तमिहेच्छामि तदर्थिभ्यः प्रदीयताम् ॥

3.311.4

यदेतत्सहजं वर्म कुण्डले च तवानघ ।
एतदुत्कृत्य मे देहि यदि सत्यव्रतो भवान् ॥

3.311.5

एतदिच्छाम्यहं भिक्षां त्वया दत्तां परन्तप ।
एष मे सर्वलाभानां लाभः परमको मतः ॥
कर्ण उवाच ।

3.311.6

अवनिं प्रमदा गाश्च निर्वापं बहुवार्षिकम् ।
तत्ते विप्र प्रदास्यामि न तु वर्म सकुण्डलम् ॥
वैशम्पायन उवाच ।

3.311.7

एवं बहुविधैर्वाक्यैर्वार्यमाणः स तु द्विजः ।
रकर्णेन भरतश्रेष्ठ नान्यं वरमयाचत ॥

3.311.8

सान्त्वितश्च यथाशक्ति पूजितश्च यथाविधि ।
न चान्यं स द्विजश्रेष्ठः कामयामास वै वरम् ॥

3.311.9

यदा नान्य प्रवृणुते वरं वै द्विजसत्तमः । विनाऽस् सहजं वर्म कुण्डले च विशाम्पते ।
तदैनमब्रवीद्भूयो राधेयः प्रहसन्निव ॥

3.311.10

सहजं वर्म मे विप्र कुण्डले चामृतोद्भवे ।
तेनावध्योस्मि लोकेषु ततो नैतज्जहाम्यहम् ॥

3.311.11

विशालं पृथिवीराज्यं क्षेमं निहतकण्टकम् ।
प्रतिगृह्णीष्व मत्तस्त्वं साधु ब्राह्मणपुङ्गव ॥

3.311.12

कुण्डलाभ्यां विमुक्तोऽहंवर्मणा सहजेन च ।
दमनीयो भविष्यामि शत्रूणां द्विजसत्तम ॥
वैशम्पायन उवाच ।

3.311.13

यदन्यं न वरं वव्रे भगवान्पाकशासनः ।
ततः प्रहस् कर्णस्तं पुनरित्यब्रवीद्वचः ॥

3.311.14

विदितो देवदेवेश प्रागेवासि मम प्रभो ।
न तु न्याय्यं मया दातुं तव शक्र वृथा वरम् ॥

3.311.15

त्वं हि देवेश्वरः साक्षात्त्वया देयो वरो मम ।
अन्येषां चैव भूतानामीश्वरो ह्यसि भूतकृत् ॥

3.311.16

यदि दास्यामि ते देव कुण्डले कवचं तथा ।
वध्यतामुपयास्यामि त्वं च शक्रावहास्यताम् ॥

3.311.17

तस्माद्विनिमयं कृत्वा कुण्डलेवर्म चोत्तमम् ।
हरस्व शक्रकामं मे न दद्यामहमन्यथा ॥
शक्र उवाच ।

3.311.18

विदितोऽहं रवेः पूर्वमायानेव तवान्तिकम् ।
तेन ते सर्वमाख्यातमेवमेतन्न संशयः ॥

3.311.19

काममस्तु तथा तात तव कर्ण यथेच्छसि ।
वर्जयित्वा तु मे वज्रं प्रवृणीष्व यथेच्छसि ॥
वैशम्पायन उवाच ।

3.311.20

ततः कर्णः प्रहृष्टस्तु उपसन्गम्य वासवम् ।
अमोघां शक्तिमभ्येत्य वव्रे सम्पूर्णमानसः ॥
क्रण उवाच ।

3.311.21

वर्मणा कुण्डलाभ्यां च शक्तिं मे देहि वासव ।
अमोघां शत्रुसङ्घानां घातिनीं पृथनामुखे ॥

3.311.22

ततः सञ्चिन्त्य मनसा मुहूर्तमिव वासवः ।
शक्त्यर्थं पृथिवीपाल कर्णं वाक्यमथाब्रवीत् ॥

3.311.23

कुण्डले मे प्रयच्छस्व वर्म चैव शरीरजम् ।
गृहाण कर्ण शक्तिं त्वमनेन समयेन च ॥

3.311.24

अमोघा हन्ति शतशः शत्रून्मम करच्युता ।
पुनश्च पाणिमभ्येति मम दैत्यान्विनिघ्नतः ॥

3.311.25

सेयं तव करप्राप्ता हत्वैरकं रिपुमूर्जितम् ।
गर्जन्तं प्रतपन्तं च मामेवैष्यति सूतज ॥
कर्ण उवाच ।

3.311.26

एकमेवाहमिच्छामि रिपुं हन्तुं महाहवे ।
गर्जन्तम्प्रतपन्तं च यतो मम भयं भवेत् ॥
इन्द्र उवाच ।

3.311.27

एकं हनिष्यसि रिपुं गर्जन्तं बलिनं रणे ।
त्वं तु यं प्रार्थयस्येकं रक्ष्यते स महात्मना ॥

3.311.28

यमाहुर्वेदविद्वांसो वराहमपराजितम् ।
नारायणमचिन्त्यं च तेन कृष्णेन रक्ष्यते ॥
कर्ण उवाच ।

3.311.29

एवमेतद्यथाऽत्थ त्वं दानवानां निषूदन ।
वधिष्यामि रणे शत्रुं यो मे स्थाता पुरस्सरः ॥

3.311.30

एवमप्यस्तु भगवन्नेकवीरवधे मम ।
अमोघां देहि मे शक्तिं यथा हन्यां प्रतापिनम् ॥

3.311.31

उत्कृत्य तु प्रदास्यामि कुण्डले कवचं च ते ।
निकृत्तेषु तु गात्रेषु न मे बीभत्सता भवेत् ॥
इन्द्र उवाच ।

3.311.32

न ते बीभत्सता कर्ण भविष्यति कथञ्चन ।
ब्रणश्चैव न गात्रेषु यस्त्वं नानृतमिच्छसि ॥

3.311.33

यादृशस्ते पितुर्वर्णस्तेजश्च वदतांवर ।
तादृशेनैव वर्णेन त्वं कर्ण भविता पुनः ॥

3.311.34

विद्यमानेषु शस्त्रेषु यद्यमोघामसंशये ।
प्रमत्तो मोक्ष्यसे चापि त्वय्येवैषा पतिष्यति ॥
कर्ण उवाच ।

3.311.35

संशयं परमं प्राप्य विमोक्ष्ये वासवीमिमाम् ।
यथा मामौत्थ शक्र त्वं सत्यमेतद्ब्रवीमि ते ॥
वैशम्पायन उवाच ।

3.311.36

ततः शक्तिं प्रज्वलितां प्रतिगृह् विशाम्पते ।
शस्त्रं गृहीत्वा निशितं सर्वगात्राण्यकृन्तत ॥

3.311.37

ततो देवा मानवा दानवाश्च निकृन्तन्तं कर्णमात्मानमेव ।
दृष्ट्वा सर्वे सिंहनादान्प्रणेदु- र्न ह्यस्यासीन्मुखजो वै विकारः ॥

3.311.38

ततो दिव्या दुन्दुभयः प्रणेदुः पपातोच्चैः पुष्पवर्षं च दिव्यम् ।
दृष्ट्वा कर्णं शस्त्रसन्कृत्तगात्रं महुश्चापि स्मयमानं नृवीरम् ॥

3.311.39

ततश्छित्त्वा कवचं दिव्यमङ्गा- त्तथैवार्द्रं प्रददौ वासवाय ।
तथोत्कृत्य प्रददौ कुण्डले ते कर्णात्तस्मात्कर्मणा तेन कर्णः ॥

3.311.40

ततो देवो मुदितो वज्रपाणि- र्दृष्ट्वा कर्णं शस्त्रनिकृत्तगात्रम् ।
ततः शक्रः प्रहसन्वञ्चयित्वा कर्णं लोके यशसा योजयित्वा । कृतन्कार्यं पाण्डवनां हि भेने ततः पश्चाद्दिवमेवोत्पपात ॥

3.311.41

श्रुत्वा कर्णं मुषितं धार्तराष्ट्रा दीनाः सर्वे भग्नदर्पा इवासन् ।
तां रचावस्थां गमितं सूतपुत्रं श्रुत्वा पार्था जहृपुः काननस्थाः ॥
जनमेजय उवाच ।

3.311.42

क्वस्ता वीराः पाण्डवास्ते बभूवुः कुतश्चैते श्रुतवन्तः प्रियं तत् ।
किं वाऽकार्षुर्द्वादशेऽब्दे व्यतीते तन्मे सर्वं भगवान्व्याकरोतु ॥
वैशम्पायन उवाच ।

3.311.43

लब्ध्वा कृष्णां सैन्धवं द्रावयित्वा विप्रैः सार्धं काम्यकादाश्रमात्ते ।
मार्कण्डेयाच्छ्रुतवन्तः पुराणं कदेवर्षीणआं चरितं विस्तरेण ॥

3.311.44

प्रत्याजग्मुः सरथाः सानुयात्राः सर्वैः सार्धं सूतपौरोगवैस्ते ।
ततो ययुर्द्वैतवनं नृवीरा निस्तीर्यैवं वनवासं समग्रम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc