भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.308

3.308.1

सा तु कन्या बहुविधं ब्रुवन्ती मधुरं वचः ।
अनुनेतुं सहस्रांशुं न शशाक मनस्विनी ॥

3.308.2

न शशाक यदा बाला प्रत्याख्यातुं तमोनुदम् ।
भीता शापात्ततो राजन्दध्यौ दीर्घमथान्तरम् ॥

3.308.3

अनागसः पितुः शापो ब्राह्मणस्य तथैव च ।
मन्निमित्तः कथं न स्यात्क्रुद्धादस्माद्विभावसोः ॥

3.308.4

बालेनापि सता मोहाद्भृशं सापह्नवान्यपि ।
नाऽभ्यासादयितव्यानि तेजांसि च तपांसि च ॥

3.308.5

साहमद्य भृशं भीता गृहीत्वा च करे भृशम् ।
कथं त्वकार्यं कुर्यां वै प्रदानं ह्यात्मनः स्वयम् ॥

3.308.6

सा वै शापपरित्रस्ता बहु चिन्तयती हृदा ।
मोहेनाभिपरीताङ्गी स्मयमाना पुनःपुनः ॥

3.308.7

तं देवमब्रवीद्भीता बन्धूनां राजसत्तम ।
व्रीडाविह्वलया वाचा शापत्रस्ता विशाम्पते ॥

3.308.8

पिता मे ध्रियते देव माता चान्ये च बान्धवाः ।
न तेषु ध्रियमाणएषु विदिलोपो भवेदयम् ॥

3.308.9

त्वया तु सन्गमो देव यदि स्याद्विधिवर्जितः ।
मन्निमित्तं कुलस्यास्य लोकेऽकीर्तिर्न संशयः ॥

3.308.10

अथवा धर्ममेतं त्वं मन्यसे तपतांवर ।
ऋते प्रदानाद्बन्धुभ्यस्तव कामं करोम्यहम् ॥

3.308.11

आत्मप्रदानं दुर्धर्ष तव कृत्वासती त्वहम् ।
त्वयि धर्मो यशश्चैव कीर्तिरायुश्च देहिनाम् ॥
सूर्य उवाच ।

3.308.12

न ते पिता न ते माता गुरवो वा शुचिस्मिते ।
प्रभवन्ति प्रदाने ते भद्रं ते शृणु मे वचः ॥

3.308.13

सर्वान्कामयते यस्मात्कनेर्धातोश्च भामिनि ।
तस्मात्कन्येह सुश्रोणी स्वतन्त्रा वरवर्णिनि ॥

3.308.14

नाधर्मश्चरितः कश्चित्त्वया भवति भामिनि ।
अधर्मन्कुत एवाहं वरेयं लोककाम्यया ॥

3.308.15

अनावृताः स्त्रियः सर्वा नराश्च वरवर्णिनि ।
स्वभाव एष लोकानां विकारोऽन्य इति स्मृतः ॥

3.308.16

सा मया सहसन्गम्य पुनः कन्या भविष्यसि ।
पुत्रश्च ते महावाद्दुर्भविष्यति न संशयः ॥
कुन्त्युवाच ।

3.308.17

यदि पुत्रो मम भवेत्त्वत्तः सर्वतमोनुद । कुण्डली कवची शूरो महाबाहुर्महाबलः ।
अस्तु मे सङ्गमो देव अनेन समयेन ते ॥
सूर्य उवाच ।

3.308.18

भविष्यति महाबाहुः कुण्डली दिव्यवर्मभृत् ।
उभयं चामृतमयं तस् भद्रे भविष्यति ॥
कुन्त्युवाच ।

3.308.19

यद्यतदमृतादस्ति कुण्डले वर्म चोत्तमम् ।
मम पुत्रस्य यं वै त्वं मत्त उत्पादयिष्यसि ॥

3.308.20

अस्तु मे सङ्गमो देव यथोक्तं भगवंस्त्वया ।
त्वद्वीर्यरूपसत्वौजा धṟमयुक्तो भवेत्स च ॥
सूर्य उवाच ।

3.308.21

अदित्या कुण्डले राज्ञि दत्ते मे मत्तकाशिनि ।
तस्मै दास्यामि वामोरु वर्म चैवेदमुत्तमम् ॥
वैशम्पायन उवाच ।

3.308.22

परमं भगवन्नेवं सङ्गमिष्ये त्वया सह ।
यदि पुत्रो भवेदेवं यथा वदसि गोपते ॥
वैशम्पायन उवाच ।

3.308.23

तथेत्युक्त्वा तु तां कुन्तीमाविवेश विहन्गमः ।
स्वर्भानुशत्रुर्योगात्मा नाभ्यां पस्पर्श चैव ताम् ॥

3.308.24

तत सा विह्वलेवासीत्कन्या सूरय्स् तेजसा ।
पपात चाथ सा देवी शयने मूढचेतना ॥
सूर्य उवाच ।

3.308.25

साधयिष्यामि सुश्रोणि पुत्रं वै जनयिष्यसि ।
सर्वशस्त्रभृतांश्रेष्ठं कन्या चैव भविष्यसि ॥
वैशम्पायन उवाच ।

3.308.26

ततः सा व्रीडिता बाला तदा सूर्यमथाब्रवीत् ।
एवमस्त्विति राजेन्द्रप्रस्थितं भूरिवर्चसम् ॥

3.308.27

इतिस्मोक्ता कुन्तिराजात्मजा सा विवस्वन्तं याचमाना सलज्जा ।
तस्मिन्पुण्ये शयनीये पपात मोहाविष्टा वेपमाना लतेव ॥

3.308.28

तिग्मांशुस्तां तेजसा मोहयित्वा योगेनाविश्यात्मसंस्थां चकार ।
न चैवैनां दूषयामास भानुः सञ्ज्ञां लेभे भूय एवात बाला ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc