भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.307

3.307.1

गते तस्मिन्द्विजश्रेष्ठे कस्मिंश्चित्कालपर्यये ।
चिन्तयामास सा कन्या मन्त्रग्रामबलाबलम् ॥

3.307.2

अयं वै कीदृशस्तेन मम दत्तो हमात्मना ।
मन्त्रग्रामो बलं तस्य ज्ञास्ये नातिचिरादिति ॥

3.307.3

एवं सञ्चिन्तयन्ती सा ददर्शर्तुं यदृच्छया ।
व्रीडिता साऽभवद्बाला कन्याभावे रजस्वला ॥

3.307.4

ततो हर्म्यतलस्था सा महार्हशयनोचिता ।
प्राच्यां दिशि समुद्यन्तं ददर्शादित्यमण्डलम् ॥

3.307.5

तत्र बद्धमनोदृष्टिरभवत्सा सुमध्यमा ।
न चातप्यत रूपेण भानोः सन्ध्यागतस्य सा ॥

3.307.6

तस्या दृष्टिरभूद्दिव्या साऽपश्यद्दिव्यदर्शनम् ।
आमुक्तकवचं देवं कुण्डलाभ्यां विभूषितम् ॥

3.307.7

तस्याः कौतूहरलं त्वासीन्मन्त्रं प्रति नराधिप ।
आह्वानमकरोत्साऽथ तस्य देवस्य भामिनी ॥

3.307.8

प्राणानुपस्पृश्य तदा ह्याजुहाव दिवाकरम् ।
आजगाम ततो राजंस्त्वरमाणो दिवाकरः ॥

3.307.9

मधुपिङ्गो महाबाहुः कम्बुग्रीवो हसन्निव ।
अङ्गदी बद्धमुकुटो दिशः प्रज्वालयन्निव ॥

3.307.10

योगात्कृत्वा द्विधाऽत्मानमाजगाम तताप च ।
आबभाषे ततः कुन्तीं साम्ना परमबल्गुना ॥

3.307.11

आगतोस्मि वशं भद्रे तव मन्त्रबलात्कृतः ।
किं करोमि वशो राज्ञि ब्रूहि कर्ता तदस्मि ते ॥
कुन्त्युवाच ।

3.307.12

गम्यतां भगवंस्तत्र यत एवागतो ह्यसि ।
कौतूहलात्समाहूतः प्रसीद भगवन्निति ॥
सूर्य उवाच ।

3.307.13

गमिष्येऽहं यथा मा त्वं ब्रवीषि तनुमध्यमे ।
न तु देवं समाहूय न्याय्यं प्रेषयितुं वृथा ॥

3.307.14

तवाभिसन्धि सुभगे रसूर्यात्पुत्रो भवेदिति ।
वीर्येणाप्रतिमो लोके कवची कुण्डलीति च ॥

3.307.15

सा त्वमात्मप्रदानं वै कुरुष्व गजगामिनि । उत्पत्स्यति हि पुत्रस्ते यथासन्कल्पमङ्गने ।
अथ गच्छाम्यहं भद्रे त्वया सन्गम्य सुस्मिते ॥

3.307.16

यदि त्वंवचनं नाद्य करिष्यसि मम प्रियम् ।
शप्स्ये कन्येऽन्यथा क्रुद्धो ब्राह्मणं पितरं च ते ॥

3.307.17

त्वत्कृते तान्प्रधक्ष्यामि सर्वानपि न संशयः ।
पितरं चैव ते मूढं यो न वेत्ति तवानयम् ॥

3.307.18

तस् च ब्राह्मणस्याद्य योसौ मन्त्रमदात्तव ।
शीलवृत्तमविज्ञाय धास्यामि विनयं परम् ॥

3.307.19

एते हि विबुधाः सर्वेपुरन्दरमुखा दिवि ।
त्वया प्रलब्धं पश्यन्ति स्मयन्त इव मां शुभे ॥

3.307.20

पश्य चैनान्सुरगणान्दिव्यं चक्षुरिदं हि ते ।
पूर्वमेव मया दत्तं दृष्टवत्यसि येन माम् ॥
वैशम्पायन उवाच ।

3.307.21

ततोऽपश्यत्रिदशान्राजपुत्री सर्वानव स्वेषु धिष्ण्येषु खस्थान् ।
प्रभावन्तं भानुमन्तं महान्तं यथाऽदित्यं रोचमानांस्तथैव ॥

3.307.22

सा तान्दृष्ट्वा त्रिदशानेव बाला सूर्यं देवी वचनं प्राह भीता ।
गच्छ त्वं वै गोपते स्वं विमानं कन्याभावाद्दुःख एवापचारः ॥

3.307.23

पिता माता गुरवश्चैवयेऽन्ये देहस्यास्य प्रभवन्ति प्रदाने ।
नाहं धर्मं लोपयिष्यामि लोके स्त्रीणां वृत्तं पूज्यते देहरक्षा ॥

3.307.24

मया मन्त्रबलं ज्ञातुमाहूतस्त्वं विभावसो ।
बाल्याद्बालेति तत्कृत्वा क्षन्तुमर्हसि मे विभो ॥
सूर्य उवाच ।

3.307.25

बालेति कृत्वाऽनुनयं तवाहं ददानि नान्यानुनयं लभेत ।
आत्मप्रदानं कुरु कुन्तिकन्ये शान्तिस्तवैवं हि भवेच्च भीरु ॥

3.307.26

न चापि गन्तुं युक्तं हि मया मिथ्याकृतेन वै ।
असमेत्य त्वया भीरु मन्त्राहूतेन भामिनि ॥

3.307.27

गमिष्याम्यनवद्याङ्गि लोके समवहास्यताम् । गच्छेयमेव सुश्रोणि गतोऽहं वै निराकृतः ।
सर्वेषां विबुधानां च वक्तव्यः स्यां तथा शुभे ॥

3.307.28

सा त्वं मया समागच्छ पुत्रं लप्स्यसि माध्शम् ।
विशिष्टा सर्वलोकेषु भविष्यसि न संशय ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc