भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.306

3.306.1

सा तु कन्या महाराज ब्राह्मणं संशितव्रतम् ।
तोषयामास शुद्धेन मनसा संशितव्रता ॥

3.306.2

प्रातरेष्याम्यथेत्युक्त्वा कदाचिद्द्विजसत्तमः ।
तत आयाति राजेन्द्र सायं रात्रावथो पुनः ॥

3.306.3

तं च सर्वासु वेलासु भक्ष्यभोज्यप्रतिश्रयैः ।
पूजयामास सा कन्या वर्धमानैस्तु सर्वदा ॥

3.306.4

अन्नादिसमुदाचारः शय्यासनकृतस्तथा ।
दिवसेदिवसे तस्य वर्धते न तु हीयते ॥

3.306.5

निर्भर्त्सनापवादैश्च तथैवाप्रियया गिरा ।
ब्राह्मणस्य पृथा राजन्न चकाराप्रियं तदा ॥

3.306.6

स्वप्नकाले पुनश्चैति न चैति बहुशो द्विजः ।
सुदुर्लभमपि ह्यन्नं दीयतामिति सोऽब्रवीत् ॥

3.306.7

कृतमेव च तत्सर्वं यथा तस्मै न्यवेदयत् ।
शिष्यवत्पुत्रवच्चैव स्वसृवच्च सुसंयता ॥

3.306.8

यथोपजोषं राजेन्द्र द्विजातिप्रवरस्य सा ।
प्रीतिमुत्पादयामास कन्यारत्नमनिन्दिता ॥

3.306.9

तस्यास्तु शीलवृत्तेन तुतोप द्विजसत्तमः ।
अवधानेन भूयोऽस्याः परं यत्नमथाकरोत् ॥

3.306.10

तां प्रभाते च सायं च पिता पप्रच्छ भारत ।
अपितुष्यतिते पुत्रि ब्राह्मणः परिचर्यया ॥

3.306.11

तं सा परममित्येवप्रत्युवाच यशस्विनी ।
ततः प्रीतिमवापाग्र्यां कुन्तिभोजो महामनाः ॥

3.306.12

ततः संवत्सरे पूर्णे यदाऽसौ जपतांवरः ।
नापश्यद्दुष्कृतन्किञ्चित्पृथायाः सौहृदे रतः ॥

3.306.13

ततः प्रीतमना भूत्वा स एनां ब्राह्मणोऽब्रवीत् ।
प्रीतोस्मि परमं भद्रे परिचारेण ते शुभे ॥

3.306.14

वरान्वृणीष्व क्रल्याणि दूरापान्मानुपैरिह ।
यैस्त्वं सीमन्तिनीः सर्वायशसाऽभिमविष्यसि ॥
कुन्त्युवाच ।

3.306.15

कृतानि मम सर्वाणि सस्या मे वेदवित्तम ।
त्वं प्रसन्नः पिता चैव कृतं विप्र वरैर्मम ॥
ब्राह्मण उवाच ।

3.306.16

यदि नेच्छसि मत्तस्त्वं वरं भद्रे शुचिस्मिते ।
इमं मन्त्रं गृहाण त्वमाह्रानाय दिवौकसाम् ॥

3.306.17

यंयं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि ।
तेनतेन वशे भद्रे स्थातव्यं ते भविष्यति ॥

3.306.18

अकामो वा सकामो वा स समेष्यति ते वशे ।
विबुधो मन्त्रसम्भ्रान्तो वाक्यैर्भृत्य इवानतः ॥
वैशम्पायन उवाच ।

3.306.19

न शशक द्वितीयं सा प्रत्याख्यातुमनिन्दिता ।
तं वै द्विजातिप्रवरं तदा शापभयान्नृप ॥

3.306.20

ततस्तामनवद्याङ्गीं ग्राहयामास स द्विजः ।
मन्त्रग्रामं तदा राजन्नथर्वशिरसि श्रुतम् ॥

3.306.21

तं प्रदाय तु राजेन्द्र कुन्तिभोजमुवाच ह ।
उपितोस्मि सुखं राजन्कन्यया परितोपितः ॥

3.306.22

तवगेहे सुविहितः सदा सुप्रतिपूजितः ।
साधयिष्यामहे तावदित्युक्त्वाऽन्तरधीयत ॥

3.306.23

स तु राजा द्विजं दृष्ट्वा तत्रैवान्तर्हितं तदा । बभूव विस्मयाविष्टः पृथां च समपूजयत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc