भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.288

3.288.1

ततो निर्याय स्वपुरात्कुम्भकर्णः सहानुगः ।
अपश्यत्कपिसैन्यं रतज्जितकाश्यग्रतः स्थितम् ॥

3.288.2

स वीक्षमाणस्तत्सैन्यं रामदर्शनकाङ्क्षया ।
अपश्यच्चापि सौमित्रिं धनुष्पाणिं व्यवस्थितम् ॥

3.288.3

तमभ्येत्याशु हरयः परिवब्रुः समन्ततः ।
शैलवृक्षायुधा नादानमुञ्चन्भीषणास्ततः ॥

3.288.4

अभ्यघ्नंश्च महाकायैर्बहुभिर्जगतीरुहैः ।
करजैरतुदंश्चान्ये विहाय भयमुत्तमम् ॥

3.288.5

बहुधा युध्यमानास्ते युद्धमार्गैः प्लवन्गमाः ।
नानाप्रहरणैर्भीमै राक्षसेन्द्रमताडयन् ॥

3.288.6

स ताड्यमानः प्रहसन्भक्षयामास वानरान् ।
बलं चण्डबलाख्यं च वज्रबाहुं च वानरम् ॥

3.288.7

तद्दृष्ट्वा व्यथनं कर्म कुम्भकर्णस्य रक्षसः ।
उदक्रोशन्परित्रस्तास्तारप्रभृतयस्तदा ॥

3.288.8

तानुच्चैः क्रोशतः सैन्याञ्श्रुत्वा स हरियूथपान् ।
अभिदुद्राव सुग्रीवः कुम्भकर्णमपेतभीः ॥

3.288.9

ततो निपत्य वेगेन कुम्भकर्णं महामना ।
सालेन जघ्निवान्मूर्ध्निं बलेन कपिकुञ्जरः ॥

3.288.10

स महात्मा महावेगः कुम्भकर्णस् मूर्धनि ।
बिभेद सालं सुग्रीवो न चैवाव्यथयत्कपिः ॥

3.288.11

ततो विनद्यसहसा सालस्पर्शविबोधितः ।
दोर्भ्यामादाय सुग्रीवं कुम्भकर्णोऽहरद्बलात् ॥

3.288.12

ह्रियमाणं तु सुग्रीवं कुम्भकर्णेन रक्षसा ।
अवेक्ष्याभ्यद्रवद्वीरः सौमित्रिर्मित्रनन्दनः ॥

3.288.13

सोऽभिपत्य महर्वेगं रुक्मपुङ्खं महाशरम् ।
प्राहिणोत्कुम्भकर्णाय लक्ष्मणः परवीरहा ॥

3.288.14

स तस्य देहावरणं भित्त्वा देहं च सायकः ।
जगाम दारयन्भूमिं रुधिरेण समुक्षितः ॥

3.288.15

तथा स भिन्नहृदयः समुत्सृज्य कपीश्वरम् ।
वेगेन महताऽविष्टस्तिष्ठतिष्ठेति चाब्रवीत् ॥

3.288.16

कुम्भकर्णो महेष्वासः प्रगृहीतशिलायुधः ।
अभिदुद्राव सौमित्रिमुद्यम्य महतीं शिलाम् ॥

3.288.17

तस्याभिपततस्तूर्णं क्षुराभ्यामुच्छितौ करौ ।
चिच्छेद निशिताग्राभ्यां स बभूव चतुर्भुजः ॥

3.288.18

तानप्यस् भुजान्सर्वान्प्रगृहीतशिलायुधान् ।
क्षुरैश्चिच्छेदलघ्वस्त्रं सौमित्रिः प्रतिदर्शयन् ॥

3.288.19

स बभूवातिकायश्च बहुपादशिरोभुजः ।
तं ब्रह्मास्त्रेण सौमित्रिर्ददाराद्रिचयोपमम् ॥

3.288.20

स पपात महावीर्यो दिव्यास्त्राभिहतो रणे ।
महाशनिविनिर्दग्धः पादपोऽङ्कुरवानिव ॥

3.288.21

तं दृष्ट्वा वृत्रसन्काशं कुम्भकर्णं तरस्विनम् ।
गतासुं पतितं भूमौ राक्षसाः प्राद्रवन्भयात् ॥

3.288.22

तथातान्द्रवतो योधान्दृष्ट्वा तौ दूषणानुजौ ।
अवस्थाप्याथ सौमित्रिं सन्क्रुद्धावभ्यधावताम् ॥

3.288.23

तावाद्रवन्तौ सन्क्रुद्धौ वज्रवेगप्रमाथिनौ ।
अभिजग्राह सौमित्रिर्विनद्योभौ पतत्रिभिः ॥

3.288.24

ततः सुतुमुलं युद्धमभवद्रोमहर्षणम् ।
दूषणानुजयोः पार्थ लक्ष्मणस् च धीमतः ॥

3.288.25

महता शरवर्षेण राक्षसौ सोऽभ्यवर्पत ।
तं चापिवीरौ सन्क्रुद्धावुभौ तौ समवर्षताम् ॥

3.288.26

मुहूर्तमेवमभवद्वज्रवेगप्रमाथिनोः ।
सौमित्रेश्च महाबाहोः सम्प्रहारः सुदारुणः ॥

3.288.27

अथाद्रिशृङ्गमादाय हनुमान्मारुतात्मजः ।
अभिद्रुत्याददे प्राणान्वज्रवेगस्य रक्षसः ॥

3.288.28

नीलश्च महता ग्राव्णा दूपणावरजं हरिः ।
प्रमाथिनमभिद्रुत्य प्रममाथ महाबलः ॥

3.288.29

ततः प्रावर्तत पुनः सन्ग्रामः कटुकोदयः ।
रामरावणसैन्यानामन्योन्यमभिधावताम् ॥

3.288.30

शतसो नैरृतान्वन्या जघ्नुर्वन्यांश्च नैरृताः । नैरृतास्तत्रवध्यन्ते प्रायेण न तु वानराः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc