भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.289

3.289.1

ततः श्रुत्वाहतं सङ्ख्ये कुम्भकर्णं सहानुगम् ।
प्रहस्तं च महेष्वासं धूम्राक्षं चातितेजसम् ॥

3.289.2

पुत्रमिनद्रजितं वीरं रावणः प्रत्यभाषत ।
जहिरामममित्रघ्न सुग्रीवं च सलक्ष्मणम् ॥

3.289.3

त्वया हि मम सत्पुत्र यशो दीप्तमुपार्जितम् ।
जित्वावज्रधरं सङ्ख्ये सहस्राक्षं शचीपतिम् ॥

3.289.4

अन्तर्हितः प्रकाशो वा दिव्यैर्दत्तवरैः शरैः ।
जहि शत्रूनमित्रघ्न मम शस्त्रभृतांवर ॥

3.289.5

रामलक्ष्मणसुग्रीवाः शरस्पर्शं न तेऽनघ ।
समर्थाः प्रतिसोढुं च कुतस्तदनुयायिनः ॥

3.289.6

अगता या प्रहस्तेन कुम्भकर्णेन चानघ ।
खरस्यापचितिः सङ्ख्ये तां गच्छ त्वे महाभुज ॥

3.289.7

त्वमद्य निशितैर्बाणैर्हत्वा शत्रून्ससैनिकान् ।
प्रतिनन्दय मां पुत्र पुरा जित्वेव वासवम् ॥

3.289.8

इत्युक्तः स तथेत्युक्त्वा रथमास्थाय दंशिथः ।
प्रययाविन्द्रजिद्राजंस्तूर्णमायोधनं प्रति ॥

3.289.9

ततो विश्राव्य विस्पष्टं नाम राक्षसपुङ्गवः ।
आह्वयामास समरे लक्ष्मणं शुभलक्षणम् ॥

3.289.10

तं लक्ष्मणोऽभ्यधावच्च प्रगृह्य सशरं धनुः ।
त्रासयंस्तलघोषेण सिंहः क्षुद्रमृगं यथा ॥

3.289.11

तयोः समभवद्युद्धं सुमहज्जयगृद्धिनोः ।
दिव्यास्त्रविदुपोस्तीव्रमन्योन्यस्पर्धिनोस्तदा ॥

3.289.12

रावणिस्तु यदा नैनं विशेषयति सायकैः ।
ततो गुरुतरं यत्नमातिष्ठद्बलिनां वरः ॥

3.289.13

तत एवं महावेगैरर्दयामास तोमरैः ।
तानागतान्स चिच्छेद सौमित्रिर्निशितैः शरैः ॥

3.289.14

ते निकृत्ताः शरैस्तीक्ष्णैर्न्यपतन्धरणीतले ।
साधका रावणेराजौ शतशः शकलीकृताः ॥

3.289.15

तमङ्गदो वालिसुतः श्रीमानुद्यम्य पादपम् ।
अभिद्रुत्य महावेगस्ताडयामास मूर्धनि ॥

3.289.16

तस्येन्द्रजिदसम्भ्रान्तः प्रासेनोरसि वीर्यवान् ।
प्रहर्तुमैच्छत्तं चास्य प्रासं चिच्छेद लक्ष्मणः ॥

3.289.17

तमभ्याशगतं वीरमङ्गदं रावणात्मजः ।
गदयाऽताडयत्सव्ये पार्श्वेवानरपुङ्गवम् ॥

3.289.18

तमचिन्त्य प्रहारं स बलवान्वालिनः सुतः ।
ससर्जेन्द्रजितः क्रोधात्सालस्कन्धं तथाङ्गदः ॥

3.289.19

सोऽङ्गदेन रुपोत्सृष्टो वधायेन्द्रजितस्तरुः ।
जघानेन्द्रजितः पार्थ रथं साश्वं ससारथिम् ॥

3.289.20

ततो हताश्वात्प्रस्कन्द्य रथात्स हतसारथिः ।
तत्रैवान्तर्दधे राजन्मायया रावणात्मजः ॥

3.289.21

अन्तर्हितं विदित्वा तं बहुमायं च राक्षसम् ।
रामस्तं देशमागम्य तत्सैन्यं पर्यरक्षत ॥

3.289.22

स राममुद्दिश्य शरैस्ततो दत्तवरैस्तदा ।
विव्याध सर्वगात्रेषु लक्ष्मणं च महाबलम् ॥

3.289.23

तमदृश्यंशरैः शूरौ माययाऽन्तर्हितं तदा ।
योधयामासतुरुभौ रावणिं रामलक्ष्मणौ ॥

3.289.24

स रुषा सर्वगात्रेषु तयोः पुरुषसिंहयोः ।
व्यसृजत्सायकान्भूयः शतशोऽथ सहस्रशः ॥

3.289.25

तमदृश्यं विचिन्वन्तः सृजन्तमनिशं शरान् ।
हरयो विविशुर्व्योम प्रगृह्य महतीः शिलाः ॥

3.289.26

तांश्च तौ चाप्यदृश्यः सशरैर्विव्याध राक्षसः ।
स भृशं ताडयामास रावणिर्मायया वृतः ॥

3.289.27

तौ शरैरर्दितौ वीरौ भ्रारौ रामलक्ष्मणौ । पेततुर्गगनाद्भूमिं सूर्याचन्द्रमसाविव ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc