भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.287

3.287.1

ततः प्रहस्तः सहसा समभ्येत्य विभीषणम् ।
गदया ताडयामास विनद्य रणकर्कशम् ॥

3.287.2

स तयाऽभिहतो धीमान्गदया भीमवेगया ।
नाकम्पत महाबाहुर्हिमवानिव सुस्थिरः ॥

3.287.3

ततः प्रगृह्यविपुलां शतघण्टां विभीषणः ।
अनुमन्त्र्य महाशक्तिं चिक्षेपास् शिरः प्रति ॥

3.287.4

पतन्त्या स तया वेगाद्राक्षसोऽशनिवेगया ।
हृतोत्तामङ्गो ददृशे वातरुग्ण इव द्रुमः ॥

3.287.5

तं दृष्ट्वा निहतं सङ्ख्ये प्रहस्तं क्षणदाचरम् ।
अभिदुद्राव धूम्राक्षो वेगेन महता कपीन् ॥

3.287.6

तस् मेघोपमं सैन्यमापतद्भीमदर्शनम् ।
दृष्ट्वैव सहसा दीर्णा रणे वानरपुङ्गवाः ॥

3.287.7

ततस्तान्सहसा दीर्णान्दृष्ट्वा वानरपुङ्गवान् ।
निर्ययौ कपिशार्दूलो हनूमान्मारुतात्मजः ॥

3.287.8

तं दृष्ट्वाऽवस्थितं सङ्ख्ये हरयः पवनात्मजम् ।
महत्या त्वरया राजत्सन्न्यवर्तन्त सर्वशः ॥

3.287.9

ततः शब्दो महानासीत्तुमुलो रोमहर्षणः ।
रामरावणसैन्यानामन्योन्यमभिधावताम् ॥

3.287.10

तस्मिन्प्रवृत्ते सन्ग्रामे घोरे रुधिरकर्दमे ।
क्षूम्राक्षः कपिसैन्यं तद्द्रावयामास पत्रिभिः ॥

3.287.11

तं स रक्षोमहामात्रमापतन्तं सपत्नजित् ।
प्रतिजग्राह हनुमांस्तरसा पवनात्मजः ॥

3.287.12

तयोर्युद्धमभूदधोरं हरिराक्षसवीरयोः ।
जीगीषतोर्युधाऽन्योन्यमिन्द्रप्रह्लादयोरिवं ॥

3.287.13

कगदाभिः परिघैश्चैव राक्षसो जघ्निवान्कपिम् ।
कपिश्च जघ्निवान्रः सस्कन्धविटपैर्द्रुमैः ॥

3.287.14

ततस्तमतिकोपेन साश्वं सरथसारथिम् ।
धूम्राक्षमवधीत्क्रुद्धो हनूमान्मारुतात्मजः ॥

3.287.15

ततस्तं निहतं दृष्ट्वा धूम्राक्षं राक्षसोत्तमम् ।
हरयो जातविश्रम्भा जघ्नुरन्ये च सैनिकान् ॥

3.287.16

ते वध्यमाना हरिभिर्बलिभिर्जितकाशिभिः ।
राक्षसा भग्नसन्कल्पा लङ्कामभ्यपतन्भयात् ॥

3.287.17

तेऽभिपत्य पुरं भग्ना हतशेषा निशाचराः ।
सर्वं राज्ञे यथावृत्तं रावणाय न्यवेदयन् ॥

3.287.18

श्रुत्वा तु रावणस्तेभ्यः प्रहस्तं निहतं युधि ।
धूम्राक्षं च महेष्वासं ससैन्यं सहराक्षसैः ॥

3.287.19

सुदीर्घमिव निःश्वस्य समुत्पत्य वरासनात् ।
उवाच कुम्भकर्णस्य कर्मकालोऽयमागतः ॥

3.287.20

इत्येवमुक्त्वा विविधैर्वादित्रैः सुमहास्वनैः ।
शयानमतिनिद्रालुं कुम्भकर्णमबोधयत् ॥

3.287.21

प्रबोध्य महता चैनं यत्नेनाऽगतसाध्वसः । स्वस्थमासीनमव्यग्रं विनिद्रं राक्षसाधिपः ।
ततोऽब्रवीद्दशग्रीवः कुम्भकर्णं महाबलम् ॥

3.287.22

धन्योसि यस्य ते निद्रा कुम्भकर्णेयमीदृशी ।
य इदं दारुणं कालं न जानीषे महाभयम् ॥

3.287.23

एष तीर्त्वाऽर्णवं रामः सेतुना हरिभिः सह ।
अवमत्येह नः सर्वान्करोति कदनं महत् ॥

3.287.24

मया त्वपहृता भार्या सीता नामास्य जानकी ।
तां नेतुं स इहायातो बद्ध्वा सेतुं महार्णवे ॥

3.287.25

तेन चैव प्रहस्तादिर्महान्नः स्वजनो हतः ।
तस्य नान्यो निहन्ताऽस्ति त्वामृतेशत्रुकर्शन ॥

3.287.26

सदंशितोऽभिनिर्याहि त्वमद्य बलिनांवर ।
रामादीन्समरे सर्वाञ्जहि शत्रूनरिन्दम ॥

3.287.27

दूषणावरजौ चैव वज्रवेगप्रमाथिनौ ।
तौ त्वां बलेन महता सहितावनुयास्यतः ॥

3.287.28

इत्युक्त्वा राक्षुसपतिः कुम्भकर्णं तरस्विनम् ।
सन्दिदेशेतिकर्तव्ये वज्रवेगप्रमाथिनौ ॥

3.287.29

तथ्त्युक्त्वा युतौ वीरौ रावणं दूषाणानुजौ । कुम्भकर्णं पुरस्कृत्य तूर्णं निर्ययतुः पुरात् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc