भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.284

3.284.1

ततस्तत्रैवरामस्य समासीनस्य तैः सह ।
समाजग्मुः कपिश्रेष्ठाः सुग्रीववचनात्तदा ॥

3.284.2

वृतः कोटिसहस्रेण वानराणां तरस्विनाम् ।
श्वशुरो वालिनः श्रीमान्सुषेणो राममभ्ययात् ॥

3.284.3

कोटीशतवृतोवाऽपिगजो गवय एव च ।
वानरेन््रौ महावीर्यौ पृथक्पृथगदृश्यताम् ॥

3.284.4

षष्टिकोटिसहस्राणि प्रकर्षन्प्रत्यदृश्यत ।
गोलाङ्गूलो महाराज गवाक्षो भीमदर्शनः ॥

3.284.5

गन्धमादनवासी तु प्रथितो गन्धमादनः ।
कोटीशतसहस्राणि हरीणां समकर्षत ॥

3.284.6

पनसो नाम मेधावी वानरःसुमहाबलः ।
कोटीर्दश द्वादश च त्रिंशत्पञ्च प्रकर्षति ॥

3.284.7

श्रीमान्दधिमुखो नाम हरिवृद्धोऽतिवीर्यवान् ।
प्रचकर्ष महासैनयं हरीणां भीमतेजसाम् ॥

3.284.8

कृषणानां मुखपुण्ड्राणामृक्षाणां भीमकर्मणाम् ।
कोटीर्दश द्वादश च त्रिंशत्पञ्च प्रकर्षति ॥

3.284.9

एते चान्ये च बहवो हरियूथपयूथपाः ।
असङ्ख्येया महाराज समीयू रामकारणात् ॥

3.284.10

गिरिकूटनिभाङ्गानां सिंहानामिव गर्जताम् ।
श्रूयते तुमुलः शब्दस्तत्रतत्रप्रधावताम् ॥

3.284.11

गिरिकूटनिभाः क्नचित्केचिन्महिषसन्निभाः ।
शरदभ्रप्रतीकाशाः केचिद्धिङ्गुलकाननाः ॥

3.284.12

उत्पतन्तः पतन्तश्च प्लवमानाश्च वानराः ।
उद्धुन्वन्तोऽपरे रेणून्समाजग्मुः समन्ततः ॥

3.284.13

सवानरमहासैन्यः पूर्णसागरसन्निभः ।
निवेशमकरोत्तत्रसुग्रीवानुमते तदा ॥

3.284.14

ततस्तेषु हरीन्द्रेषु समावृत्तेषु सर्वशः ।
तिथौ प्रशस्ते नक्षत्रे मुहूर्ते चाभिपूजिते ॥

3.284.15

तेन व्यूढेन सैन्येन लोकानुद्वर्तयन्निव ।
प्रययौ राघवः श्रीमान्सुग्रीवसहितस्तदा ॥

3.284.16

मुखमासीत्तु सैन्यस्य हनूमान्मारुतात्मजः ।
जघनं पालयामास सौमित्रिरकुतोभयः ॥

3.284.17

बद्धगोधाङ्गुलित्रणौ राघवौ तत्रजग्मतुः ।
वृतौ हरिमहामात्रैश्चन्द्रसूर्यौ ग्रहैरिव ॥

3.284.18

प्रबभौ हरिसैन्यं तत्सालतालशिलायुधम् ।
सुमहच्छालिभवनं यथा सूर्योदयं प्रति ॥

3.284.19

नलनीलाङ्गदक्राथमैन्दद्विविदपालिता ।
ययौ सुमहती सेना राघवस्यार्थसिद्धये ॥

3.284.20

विविधेषु प्रशस्तेषु बहुमूलफलेषु च ।
प्रभूतमधुमांसेषु वारिमत्सु विवेषु च ॥

3.284.21

निवसन्ती निराबाधा तथैवगिरिसानुषु ।
उपायाद्धिरिसेना सा क्षारोदमथ मागरम् ॥

3.284.22

द्वितीयसागरनिमं तद्बलम्बहुलध्वजम् ।
वेलावनं समासाद् निवासमकरोत्तदा ॥

3.284.23

ततो दाशरथिः श्रीमान्सुग्रीवं प्रत्यभाषत ।
मध्ये वानरमुख्यानां प्राप्तकालमिदं वचः ॥

3.284.24

उपायः कोनु भवतां मतः सागरलङ्घने ।
इयं हि महती सेना सागरश्चातिदुस्तरः ॥

3.284.25

तत्रान्ये व्याहरन्ति स्म वानराः पटुमानिनः ।
समर्था लङ्घने सिन्दोर्न तत्कृत्स्नस्य वानराः ॥

3.284.26

केचिन्नौभिर्व्यवस्यन्ति केचिच्च विविधैः प्लवैः ।
नेति रामस्तु तानसर्वान्सान्त्वयन्प्रत्यभाषत ॥

3.284.27

शतयोजनविस्तारं न शक्ताः सर्ववानराः ।
क्रान्तुं तोयनिधिं वीरानैषा वो नैष्ठिकी मतिः ॥

3.284.28

नावो न सन्ति सेनाया बह्व्यस्तारयितुं तथा ।
वणिजामुपघातं च कथमस्मद्विधश्चरेत् ॥

3.284.29

विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेण वै परः ।
प्लवोडुपप्रतारश्चनैवात्रमम रोचते ॥

3.284.30

अहं त्विमं जलनिधिं समारप्स्याम्युपायतः ।
प्रतिशेष्याम्युपवसन्दर्शयिष्ति मां ततः ॥

3.284.31

न चेद्दर्शयिता मार्गं धक्ष्याम्यनमहं ततः ।
महास्त्रैरप्रतिहतैरत्यग्निपवनोज्ज्वलैः ॥

3.284.32

इत्युक्त्वा सहसौमित्रिरुपस्पृश्याथ राघवः ।
प्रतिशिस्ये जलनिधं विधिवत्कुशसंस्तरे ॥

3.284.33

सागरस्तु ततः स्वप्ने दर्शयामास राघवम् ।
देवो नदनदीमर्ता श्रीमान्यादोगणैर्वृतः ॥

3.284.34

कौसल्यामातरित्येवमाभाष्य मधुरं वचः ।
इदमित्याह रत्नानामाकरैः शतशो वृतः ॥

3.284.35

ब्रूहि किं तेकरोम्यत्रसाहाय्यं पुरुषर्षभ । ऐक्ष्वाको ह्यस्मि ते ज्ञाती राम सत्यपराक्रमः ।
एवमुक्तः समुद्रेण रामो वाक्यमथाब्रवीत् ॥

3.284.36

मार्गमिच्छामि सैन्यस्य दत्तं नदनदीपते । येन गत्वादशग्रीवं हन्याम कुलपांसनम् ।
राक्षसंसानुबन्धं तं मम भार्यापहारिणम् ॥

3.284.37

यद्येवं याचतो मार्गं न प्रदास्यति मे भवान् ।
शरैस्त्वां शोषयिष्यामि दिव्यास्त्रयतिमन्त्रितैः ॥

3.284.38

इत्येवम्ब्रुवतः श्रुत्वारामस्य वरुणालयः ।
उवाचव्यथितोवाक्यमितिबद्धाञ्जलिःस्थितः ॥

3.284.39

नेच्छामि प्रतिघातं ते नास्मि विघ्नकरस्तव ।
शृणु चेदं वचोराम श्रुत्वा कर्तव्यमाचर ॥

3.284.40

यदि दास्यामि ते मार्गं सैन्यस् व्रजतोऽज्ञया ।
अन्येऽप्याज्ञापयिष्यन्ति मामेवं धनुषोबलात् ॥

3.284.41

अस्तित्वत्रनलो नाम वानरः शिल्पिसम्मतः ।
त्वष्टुः काकुत्स्थ तनयो बलवान्विश्वकर्मणः ॥

3.284.42

स यत्काष्ठं तृणं वाऽपिशिलां वा क्षेप्स्यते मयि ।
सर्वं तद्धारयिष्यामि स ते सेतुर्भविष्यति ॥

3.284.43

इत्युक्त्वाऽन्तर्हिते तस्मिन्रामो नलमुवाच ह ।
कुरु सेतुं समुद्रे त्वंशक्तो ह्यसि मतो मम ॥

3.284.44

तेनोपायेन काकुत्स्थः सतुबन्धमकारयत् ।
दशयोजनविस्तारमायतं शतयोजनम् ॥

3.284.45

नलसेतुरिति ख्यातो योऽद्यापि प्रथितो भुवि ।
रामस्याज्ञां पुरस्कृत्य धार्यते गिरिसन्निभः ॥

3.284.46

तत्रस्थं स तु धर्मात्मा समागच्चद्विभीषणः ।
भ्राता वै राक्षसेन्द्रस्य चतुर्भिः सचिवैः सह ॥

3.284.47

प्रतिजग्राह रामस्तं स्वागतेन महामनाः ।
सुग्रीवस्य तु शङ्काऽभूत्प्रणिधिः स्यादिति स्मह ॥

3.284.48

राघवः सत्यचेष्टाभिः सम्यक्व चरितेङ्गितैः ।
यदा तत्त्वेन तुष्टोऽभूत्तत एनमपूजयत् ॥

3.284.49

सर्वराक्षसराज्येचाप्यभ्यपिञ्चद्विभीषणम् ।
चक्रे च मन्त्रसचिवं सहृदंलक्ष्मणस् च ॥

3.284.50

विभीषणमते चैव सोऽत्यक्रामन्महार्णवम् ।
ससैन्यः सेतुना तेन मार्गेणैव नराधिपः ॥

3.284.51

ततो गत्वासमासाद्य लङ्कोद्यानान्यनेकशः ।
भेदयामास कपिभिर्महान्ति च बहूनि च ॥

3.284.52

तत्रास्तां रावणामात्यौ राक्षसौ शुकसारणौ ।
चरौ वानररूपेण तौ जग्राह विभीषणः ॥

3.284.53

प्रतिपन्नौ यदा रूपं राक्षसं तौ निशाचरौ ।
दर्शयित्वा ततः सैन्यं रामः पश्चादवासृजत् ॥

3.284.54

निवेश्योपवने सैन्यं स शूरः प्राज्यवानरम् । प्रेषयामास दुत्येन रावणस्य ततोऽङ्गदम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc