भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.283

3.283.1

राघवः सहसौमित्रिः सुग्रीवेणाभिपालितः ।
वसनमाल्यवतः पृष्ठे ददर्श विमलं नभः ॥

3.283.2

सदृष्ट्वाविमले व्योम्नि निर्मलं शसलक्षणम् ।
ग्रहनक्षत्रताराभिरनुयान्तममित्रहा ॥

3.283.3

कुमुदोत्पलपद्मानां गन्धमादाय वायुना ।
महीधरस्थः शीतेन सहसाप्रतिबोधितः ॥

3.283.4

प्रभाते लक्ष्मणं वीरमभ्यभाषत दुर्मनाः ।
सीतां संस्मृत् यधर्मात्मा रुद्धां राक्षसवेश्मनि ॥

3.283.5

गच्छ लक्ष्मण जानीहि किष्किन्दायां कपीश्वरम् ।
प्रमत्तं ग्राम्यधर्मेषु कृतघ्नं स्वार्थपण्डितम् ॥

3.283.6

योसौ कुलाधमो मूढो मया राज्येऽभिषेचितः ।
सर्ववानरगोपुच्छा यमृक्षाश्च भजन्ति वै ॥

3.283.7

यदर्थं निहतो बाली मया रघुकुलोद्वह ।
त्वया सहमहाबाहो किष्किन्धोपवने तदा ॥

3.283.8

कृतघ्नं तमहं मन्ये वानरापशदं भुवि ।
यो मामेवन्गतो मूढो न जानीतेऽद्य लक्ष्मण ॥

3.283.9

असौ मन्ये न जानीते समयप्रतिपालनम् ।
कृतोपकारं मां नूनमवमत्याल्पया धिया ॥

3.283.10

यदितावदनुद्युक्तः शेते कामसुखात्मकः ।
नेतव्यो वालिमार्गेण सर्वभूतगतिं त्वया ॥

3.283.11

अथापि घटतेऽस्माकमर्ते वानरपुङ्गवः ।
तमादायैव काकुत्स्थ त्वरावान्भव माचिरम् ॥

3.283.12

इत्युक्तो लक्ष्मणो भ्रात्रा गुरुवाक्यहिते रतः ।
प्रतस्थे रुचिरं गृह्य समार्गणगुणं धनुः ॥

3.283.13

किष्किन्धाद्वारमासाद्यप्रविवेशानिवारितः ।
सक्रोध इतितं मत्वाराजा प्रत्युद्ययौ हरिः ॥

3.283.14

तं सदारोविनीतात्मा सुग्रीवः प्लवगाधिपः ।
पूजया प्रतिजग्राह प्रीयमाणस्तदर्हया ॥

3.283.15

तमब्रवीद्रामवचः सौमित्रिरकुतोभयः ।
स तत्सर्वमशेषेण श्रुत्वा प्रह्वः कृताञ्जलिः ॥

3.283.16

सभृत्यदारो राजेन्द्रसुग्रीवो वानराधिपः ।
इदमाह वचः प्रीतो लक्ष्मणं नरकुञ्जरम् ॥

3.283.17

नास्मि लक्ष्मण दुर्मेधा नाकृतज्ञो न निर्घृणः ।
श्रूयतां यः प्रयत्नो मे सीतापर्येषणे कृतः ॥

3.283.18

दिशः प्रस्थापिताः सर्वेविनीता हरयो मया ।
सर्वेषां च कृतः कालो मासेऽभ्यागमने पुनः ॥

3.283.19

यैरियं सवना साद्रिः सपुरा सागराम्बरा ।
विचेतव्या मही वीर सग्रामनगराकरा ॥

3.283.20

स मासः पञ्चरात्रेण पूर्णो भवितुमर्हति ।
ततः श्रोष्यसि रामेण सहितः सुमहत्प्रियम् ॥

3.283.21

इत्युक्तो लक्ष्मणत्तेन कवानरेनद्रेण धीमता ।
त्यक्त्वारोषमदीनात्मा सुग्रीवं प्रत्यपूजयत् ॥

3.283.22

सरामं सहसुग्रीवो माल्यवत्पुष्ठमास्थितम् ।
भिगम्योदयं तस्य कार्यस्य प्रत्यवेदयत् ॥

3.283.23

इत्येवंवानरेनद्रास्ते समाजन्मुः सहस्रशः ।
दिशस्तिस्रो विचित्याथ न तु ये दक्षिणां गताः ॥

3.283.24

आचख्युस्तत्र रामाय महीं सागरमेखलाम् ।
विचितां न तु वैदेह्या दर्शनं रावणस् वा ॥

3.283.25

गतास्तु दक्षिणामाशां ये वै वानरपुङ्गवाः ।
आशावांस्तेषु काकुत्स्थः प्राणानार्तोऽभ्यधारयत् ॥

3.283.26

द्विमासोपरमे काले व्यतीते प्लवगास्ततः ।
सुग्रीवमभिगम्येदं त्वरिता वाक्यमब्रुवन् ॥

3.283.27

रक्षितंवालिना यत्तत्स्फीतं मधुवनं महत् ।
त्वया च प्लवगश्रेष्ठ तद्भुङ्क्ते पवनात्मजः ॥

3.283.28

वालिपुत्रोऽङ्गदश्चैव ये चान्ये प्लवगर्षभाः ।
विचेतुं दक्षिणामाशां राजन्प्रस्थापितास्त्वया ॥

3.283.29

तेषामपनयं श्रुत्वा मेने सकृतकृत्यताम् ।
कृतार्थानां हि भृत्यानामेतद्भवति चेष्टितम् ॥

3.283.30

स तद्रामाय मेधावी शशंस प्लवगर्षभः ।
रामश्चाप्यनुमानेन मेने दृष्टां तु मैथिलीम् ॥

3.283.31

हनुमत्प्रमुखाश्चापि विश्रान्तास्ते प्लवङ्गमाः ।
अभिजग्मुर्हरीन्द्रं तं रामलक्ष्मणसन्निधौ ॥

3.283.32

गतिं च मुखवर्णं च दृष्ट्वारामो हनूमतः ।
अगमत्प्रत्ययं भूयो दृष्टा सीतेति भारत ॥

3.283.33

हनूमत्प्रमुखास्ते तु वानराः पूर्णमानसाः ।
प्रणेमुर्विधिवद्रामं सुग्रीवं लक्ष्मणं तथा ॥

3.283.34

तानुवाचानतान्रामः प्रगृह्य सशरं धनुः ।
अपि मां जीवयिष्यध्वमपि वः कृतकृत्यता ॥

3.283.35

अपि राज्यमयोध्यायां कारयिष्याम्यहं पुनः ।
निहत्यसमरे शत्रूनाहृत्यजनकात्मजाम् ॥

3.283.36

अमोक्षयित्वावैदेहीमहत्वा च रणे रिपून् ।
हृतदारोऽवधूतश्चनाहं जीवितुमुत्सहे ॥

3.283.37

इत्युक्तवचनं रामं प्रत्युवाचानिलात्मजः ।
प्रियमाख्यामि ते राम दृष्टा सा जानकी मया ॥

3.283.38

विचित्य दक्षिणामाशां सपर्वतवनाकराम् ।
श्रान्ताः काले व्यतीते स्म दृष्टवन्तो महागुहां ॥

3.283.39

प्रविशामो वयं तां तु बहुयोजनमायताम् ।
अन्धकारां सुविपिनां गहनां कीटसेविताम् ॥

3.283.40

गत्वा सुमहदध्वानमादित्यस् प्रभां ततः ।
दृष्टवन्तः स्म तत्रैवभवनं दिव्यमन्तरा ॥

3.283.41

गयस् किल दैत्यस् तदा सद्वेश्म राघव ।
तत्रप्रभावती नाम तपोऽतप्यत तापसी ॥

3.283.42

तया दत्तानि भोज्यानिपानानिविविधानि च ।
भुकत््वा लब्धबलाः सन्तस्तयोक्तेन पथा ततः ॥

3.283.43

निर्याय तस्मादुद्देशात्पश्यामो लवणाम्भसः ।
समीपे सह्यमलयौ दर्दुरं च महागिरिम् ॥

3.283.44

ततो मलयमारुह्य पश्यन्तो वरुणालयम् ।
कविषण्णा व्यथिताः खिन्ना निराशा जीविते भृशम् ॥

3.283.45

अनेकशतविस्तीर्णं योजनानां महोदधिम् ।
तिमिनक्रझषावासं चिन्तयन्तः सुदुःखिताः ॥

3.283.46

तत्रानशनसन्कल्पं कृत्वाऽसीना वयं तदा ।
ततः कथान्ते गृध्रस्य जटायोरभवत्कथा ॥

3.283.47

ततः पर्वतशृङ्गाभं घोररूपं भयावहम् ।
पक्षिणं दृष्टवन्तः स्म वैनतियेमिवापरम् ॥

3.283.48

सोऽस्मानतर्कयद्भोक्तुमथाभ्येत्य वचोऽब्रवीत् ।
भोः क एष मम भ्रातुर्जटायोः कुरुते कथाम् ॥

3.283.49

सम्पातिर्नाम तस्याहं ज्येष्ठो भ्राता खगाधिपः ।
अन्योन्यस्पर्धया रूढावावामदित्यसत्पदम् ॥

3.283.50

ततो दग्धाविमौ पक्षौ न दग्धौ तु जटायुषः ।
तस्मान्मे चिरदृष्टः स भ्राता गृध्रपतः प्रियः ॥

3.283.51

निर्दग्धपक्षः पतितो ह्यहमस्मिन्महागिरौ ।
द्रष्टुं वीरं न शक्नोमि भ्रातरं वै जटायुषम् ॥

3.283.52

तस्यैवं वदतोऽस्माभिर्हतो भ्राता निवेदितः ।
व्यसनं भवतश्चेदं सन्क्षेपाद्वै निवेदितम् ॥

3.283.53

स सम्पातिस्तदा राजञ्श्रुत्वासुमहदप्रियम् ।
विषण्णचेताः पप्रच्छ पुनरस्मानरिन्दम ॥

3.283.54

कः सरामः कथं सीता जटायुश्च कथं हतः ।
इच्छामि सर्वमेवैतच्छ्रोतुं प्लवगसत्तमाः ॥

3.283.55

तस्याहं सर्वमेवैतद्भवतो व्यसनागमम् ।
प्रायोपवेशने चैवहेतुं विस्तरशोऽब्रुवम् ॥

3.283.56

सोऽस्मानाश्वासयामास वाक्येनानेन पक्षिराट् ।
रावणो विदितो मह्यं लङ्का चास्य महापुरी ॥

3.283.57

दृष्टापारे समुद्रस्य त्रिकूटगिरिकन्दरे ।
भवित्री तत्र वैदेही न रमेऽस्त्यत्रविचारणा ॥

3.283.58

इतितस्य वचः श्रुत्वा वयमुत्थाय सत्वराः ।
सागरक्रमणे मन्त्रं मन्त्रयामः परन्तप ॥

3.283.59

नाध्यवास्यद्यदा कश्चित्सागरस्य विलङ्घनम् । ततः पितरमाविश्य पुप्लुवेऽहम्महार्णवम् ।
शतयोजनविस्तीर्णं निहत्य जलराक्षसीम् ॥

3.283.60

उपवासतपःशीला भर्तृदर्शनलालसा ।
जटिला मलदिग्धाङ्गीकृश दीना तपस्विन ॥

3.283.61

निमित्तैस्तामहं सीतामुपलभ्य पृथग्विधैः ।
उपसृत्याब्रवं चार्यामभिगम्य रहोगताम् ॥

3.283.62

सीते रामस्य दूतोऽहंवानरोमारुतात्मजः ।
त्वद्दर्शनमभिप्रप्सुरिह प्राप्तो विहायसा ॥

3.283.63

राजपुत्रौ कुशलिनौ भ्रातरौ रामलक्ष्मणौ ।
सर्वशाखामृगेन्द्रेण सुग्रीवेणाभिपालितौ ॥

3.283.64

कुशलन्त्वाब्रवीद्रामःसीते सौमित्रिणा सह ।
सखिभावाच् सुग्रीवः कुशलं त्वाऽनुपृच्छति ॥

3.283.65

क्षिप्रमेष्यति ते भर्ता सर्वशाखामृगैः सह ।
प्रत्ययं कुरु मे देवि वानरोऽस्मि न राक्षसः ॥

3.283.66

मुहूर्तमिवच ध्यात्वा सीता मां प्रत्युवाच ह ।
अवैमि त्वांहनूमन्तमविन्ध्यवचनादहम् ॥

3.283.67

अविन्ध्यो हि महाबाहो राक्षसो वृद्धसम्मतः ।
कथितस्तेन सुग्रीवस्त्वद्विधैः सचिवैर्वृतः ॥

3.283.68

गम्यतामिति चोक्त्वा मां सीता पादादिमं मणिम् ।
घारिता येन वैदेही कालमेतमनिन्दिता ॥

3.283.69

प्रत्ययार्थं कथां चेमां कथयामास जानकी ।
क्षिप्तामिषीकां काकाय चित्रकूटे महागिरौ ॥

3.283.70

भवता पुरुषव्याघ्र प्रत्यभिज्ञानकारणात् ।
एकाक्षिविकलः काकः सुदुष्टात्मा कृतश्चवै ॥

3.283.71

ग्राहयित्वाऽहमात्मानं ततो दग्ध्वाच तां पुरीम् । सम्प्राप्त इतितं रामः प्रियवादिनमार्चयत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc