महाभारत · अध्याय 3.285
प्रभूतान्नोदकेतस्मिन्बहुमूलफले वने ।
सेनां निवेश्य काकुत्स्थो विधिवत्पर्यरक्षत ॥
रावणः संविधं चक्रे लङ्कायां शास्त्रनिर्मिताम् ।
प्रकृत्यैवदुराधर्षा दृढप्राकारतोरणा ॥
अगाधतोयाः परिखा मीननक्रसमाकुलाः ।
बभूवुः सप्त दुर्धर्षाः स्वादिरैः शङ्कुभिश्चिताः ॥
कर्णाटयन्त्रा दुर्धर्षा बभूवुः सहुडोपलाः ।
साशीविषघटायोधाः ससर्जरसपांसवः ॥
मुसलालातनाराचतोमरासिपरश्वथैः ।
अन्विताश्चशतघ्नीभिः समधूच्छिष्टमुद्गराः ॥
पुरद्वारेषु सर्वेषु गुल्माः स्थावरजङ्गमाः ।
बभूवुः पत्तिबहुलाः प्रभूतगजवाजिनः ॥
अङ्गदस्त्वथ लङ्कायां द्वारदेशमुपागतः ।
विदितो रराक्षसेन्द्रस्य प्रविवेशगतव्यथः ॥
मध्ये राक्षसकोटीनां बह्वीनां सुमहाबलः ।
शुशुभे मेघमालाभिरादित्य इव संवृतः ॥
ससमासाद्य पौलस्त्यममात्यैरभिसंवृतम् ।
रामसन्देशमामन्त्र्य वाग्मी वक्तुं प्रचक्रमे ॥
आह त्वां राघवो राजन्कोसलेन्द्रो महायशाः । प्राप्तकालमिदं वाक्यं तदादत्स्व सुदुर्मते ।
अकृतात्मानमासाद्य राजानमनये रतम् ।
विनश्यन्त्यनयाविष्टा देशाश्च नगराणि च ॥
त्वयैकेनापराद्धं मे सीतामाहरता बलात् ।
वधायानपराद्धानामन्येषां तद्भविष्यति ॥
ये त्वया बलदर्पाभ्यामाविष्टेन वनेचराः ।
ऋषयोहिंसिताः पूर्वन्देवाश्चाप्यवमानिताः ॥
राजर्षयश्च निहता रुदत्यश्चाहृताः स्त्रियः ।
तदिदं समनुप्राप्तं फलन्तस्यानयस्य ते ॥
हन्तास्मि त्वां सहामात्यैर्युध्यस्व पुरुषो भव ।
पश्य मे धनुषो वीर्यं मानुषस् निशाचर ॥
मुच्यतां जानकी सीता न मे मोक्ष्यमसि कर्हिचित् ।
अराक्षसमिमं लोकन्कर्ताऽस्मि निशितैः शरैः ॥
इतितस् ब्रुवाणस् दूतस् परुषं वचः ।
श्रुत्वा न ममृषे राजा रावणः क्रोधमूर्च्छितः ॥
हङ्गितज्ञास्ततो भर्तुश्चत्वारो रजनीचराः ।
चतुर्ष्वङ्गेषु जगृहुः शार्दूलमिव पक्षिणः ॥
तांस्तथाङ्गेषु संसक्तानङ्गदो रजनीचरान् ।
आदायैव खमुत्पत्य प्रासादतलमाविशत् ॥
वेगेनोत्पततस्तस्य पेतुस्ते रजनीचराः ।
भुवि सम्भिन्नहृदयाः प्रहारवरपीडिताः ॥
संसक्तोहर्म्यशिखरात्तस्मात्पुनरवापतत् ।
लङ्घयित्वा पुरं लङ्कां सुवेलस्य समीपतः ॥
कोसलेन्द्रमथागम्य सर्वमावेद्य वानरः ।
विशश्राम स तेजस्वी राघवेणाभिनन्दितः ॥
ततः सर्वाभिसारेण हरीणां वातरंहसाम् ।
भेदयामास लङ्कायाः ग्राकारं रघुनन्दनः ॥
विभीषणर्क्षाधिपती पुरस्कृत्याथ लक्ष्मणः ।
दक्षिणं नगरद्वारमवामृद्गाद्दुरासदम् ॥
करभारुणगात्राणां हरीणां युद्धशालिनाम् ।
कोटीशतसहस्रेण लङ्कामभ्यपतत्तदा ॥
प्रलम्बबाहूरुकरजङ्घान्तरविलम्बिनाम् ।
ऋक्षाणआं धूम्रवर्णानां तिस्रः कोठ्यो व्यवस्थिताः ॥
उत्पतद्भिः पतद्भिश्च निपतद्भिश्च वानरैः ।
नादृश्यत तदा सूर्यो रजसा नाशितप्रभः ॥
शालिप्रसूनसदृशैः शिरीपकुसुमप्रभैः ।
तरुणादित्यसदृशैः शणगौरैश्च वैनरैः ॥
प्राकारं ददृशुस्ते तु समन्तात्कपिलीकृतम् ।
राक्षसा विस्मिता राजन्सस्त्रीवृद्धाः समन्ततः ॥
बिभिदुस्ते मणिस्तम्भान्कर्णाट्टशिखराणि च ।
भग्नोन्मथितशृङ्गाणि यन्त्राणि च विचिक्षिपुः ॥
परिगृह्य शतघ्नीश्च सचक्राः सगुडोपलाः ।
चिक्षिपुर्भुजवेगेन लङ्कामध्येमहास्वनाः ॥
प्राकारस्थाश्चये केचिन्निशाचरगणास्तथा ।
प्रदुद्रुवुस्ते शतशः कपिभिः समभिद्रुताः ॥
ततस्तु राजवचनाद्राक्षसाः कामरूपिणः ।
निर्ययुर्विकृताकाराः सहस्रशतसङ्घशः ॥
शखवर्षाणि वर्षन्तो द्रावयित्वा वनौकसः ।
प्राकारं शोभयन्तस्ते परं विस्मयमास्थिताः ॥
स मापराशिसदृशैर्बभूव क्षणादाचरैः ।
कृतो निर्वानरो भूयः प्राकारो भीमदर्शनैः ॥
पेतुः शलविभिन्नाङ्गा बहवो वानरर्पभाः ।
स्तम्भतोरणभग्नाश्चपेतुस्तत्रनिशाचराः ॥
केशाकेश्यभवद्युद्धं रक्षसां वानरैः सह ।
नखैर्दन्तैश्च वीराणां खादतां वै परस्परम् ॥
निष्टनन्तो ह्युभयतस्तत्र वानरराक्षसाः ।
हतानिपतिता भूमौ न मुञ्चन्ति परस्परम् ॥
रामस्तु शरजालानिववर्ष जलदो यथा ।
तानिलङ्कां समासाद्य जघ्रुस्तान्रजनीचरान् ॥
सौमित्रिरपि नाराचैर्दृढधन्वा जितक्लमः ।
आदिश्यादिश्य दुर्गस्थान्पातयामास राक्षसान् ॥
ततः प्रत्यवहारोऽभूत्सैन्यानां राधवाज्ञया । कृते विमर्दे लङ्कायां लब्धलक्ष्योजयोत्तरः ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0