भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.282

3.282.1

ततस्तां भर्तृशोकार्तां दीनां मलिनवाससम् ।
मणिशेषाभ्यलन्कारां रुदतीं च पतिव्रताम् ॥

3.282.2

राक्षसीभिरुपास्यन्तीं समासीनां शिलातले ।
रावणःकामबाणार्तो ददर्शोपससर्प च ॥

3.282.3

देवदानवगन्धर्वयक्षकिम्पुरुषैर्युधि ।
अजितोशोकवनिकां ययौ कन्दर्पपीडितः ॥

3.282.4

दिव्याम्बरधरः श्रीमन्सुमृष्टमणिकुण्डलः ।
विचित्रमाल्यमुकुटो वसन्त इव मूर्तिमान् ॥

3.282.5

न कल्पवृक्षसदृशोयत्नादपि विभूषितः ।
श्मशानचैत्यद्रुमवद्भूषितोऽपि भयन्करः ॥

3.282.6

स तस्यास्तनुमध्यायाः समीपे रजनीचरः ।
ददृशे रोहिणीमेत्य शनैश्चर इव ग्रैहः ॥

3.282.7

स तामामन्त्र्य सुश्रोणीं पुष्पकेतुशराहतः ।
इदमित्यब्रवीद्वाक्यं त्रस्तां रौहीमिवाबलाम् ॥

3.282.8

सीते पर्याप्तमेतावत्कृतोभर्तुरनुग्रहः ।
प्रसादं कुरु तन्वङ्गि क्रियतां परिकर्म ते ॥

3.282.9

भजस्वमां वरारोहे महार्हाभरणाम्बरा ।
भवमे सर्वनारीणामुत्तमा वरवर्णिनी ॥

3.282.10

सन्ति मे देवक्न्याश्च गन्धर्वाणआं च योषितः । सन्ति दानवन्याश् दैत्यानां चापि योषितः ।
तासामद्यविशालाक्षि सर्वासां मे भवोत्तमा ॥

3.282.11

चतुर्दश पिशाचीनां कोट्यो मे वचने स्थिताः ।
द्विस्तावत्पुरुषादानां रक्षसां भीमकर्मणाम् ॥

3.282.12

ततो मे त्रिगुणा यक्षा ये मद्वचनकारिणः ।
केचिदेव धनाध्यक्षं भ्रातरं मे समाश्रिताः ॥

3.282.13

गन्दर्वाप्सरसो भद्रे मामापानगतं सदा ।
उपतिष्ठन्ति वामोरु यथैव भ्रातरं मम ॥

3.282.14

पुत्रोऽहमपि विप्रर्षेः साक्षाद्विश्रवसो मुनेः ।
पञ्चमो लोकपालानामिति मे प्रथितं यशः ॥

3.282.15

दिव्यानि भक्ष्यभोज्यानि पानानि विविधानि च ।
यथैव त्रिदशेशस्यतथैव मम भामिनि ॥

3.282.16

क्षीयतां दुष्कृतं कर्म वनवासकृतं तव ।
भार्या मे भवसुश्रोणि यथा मण्डोदरीतथा ॥

3.282.17

इत्युक्ता तेन वैदेही परिवृत्य सुभानना ।
तृणमनतरतः कृत्वातमुवाच निशाचरम् ॥

3.282.18

अशिवेनातिवामोरूरजस्रं नेत्रवारिणा ।
स्तनावपतितौ बाला संहतावभिवर्षती ॥

3.282.19

व्यवस्थाप्यकथञ्चित्सा विषादादतिमोहिता ।
उवाच वाक्यं तं क्षुद्रं वैदेही पतिदेवता ॥

3.282.20

असकृद्वदतो वाक्यमीदृशं राक्षसेश्वर । विषादयुक्तमेतत्ते मया श्रुतमभाग्यया ।
तद्भद्रमुख भद्रं ते मानसं विनिवर्त्यताम् ॥

3.282.21

परदाराऽस्म्यलभ्या च सततं च पतिव्रता ।
न चैवौपयिकी भार्य मानुषी तव राक्षस ॥

3.282.22

विवशां धर्षयित्वच कां त्वं प्रीतिमवाप्स्यसि ।
न च पालयसे धर्मं लोकपालसमः कथम् ॥

3.282.23

भ्रातरं राजराजं तं महेश्वरसस्वं प्रभुम् ।
धनेश्वरं व्यपदिशन्कथं त्विह न लज्जसे ॥

3.282.24

इत्युक्त्वा प्रारुदत्सीता कम्पयन्ती पयोधरौ ।
शिरोधरां च तन्वङ्गी मुस्वं प्रच्छाद्यवाससा ॥

3.282.25

तस्य रुदत्या भामित्या दीर्घा वेणी सुसयता ।
ददृशे स्वसिता स्निग्धा काली व्यालीव मूर्धनि ॥

3.282.26

श्रुत्वा तद्रावणो वाक्यं सीतयोक्तं सुनिषुरम् ।
प्रत्याख्यातोऽपिदुर्मेधाः पुनरेवाब्रवीद्वचः ॥

3.282.27

काममङ्गनि मे सीते दुनोतु मकरध्वजः ।
नत्वामकामां सुश्रोणीं समेप्ये चारुहासिनीं ॥

3.282.28

किन्नु शक्यं मया कर्तुं यत्त्वमद्यापिमानुषम् ।
आहारभूतमस्माकं राममेवानुरुध्यसे ॥

3.282.29

इत्युक्त्वा तामनिन्द्याङ्गीं स राक्षसमहेश्वरः ।
तत्रैवान्तर्हितो भूत्वा जगामाभिमतां दिशम् ॥

3.282.30

राक्षसीभिः परिवृतावैदेही शोककशिन्ता । सेव्यमाना त्रिजटया तत्रैव न्यवसत्तदा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc