भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.281

3.281.1

ततोऽविदूरे नलिनीं रप्रभूतकमलोत्पलाम् ।
सीताहरणदुःखार्तः पम्पां रामः समासदत् ॥

3.281.2

मारुतेन सुशीतेन सुखेनामृतगन्धिना ।
सेव्यमानो वने तस्मिञ्जगाम मनसा प्रियाम् ॥

3.281.3

विललाप सराजेन्द्रस्तत्रकान्तानुस्मरन् ।
कामबाणाभिसन्तप्तं सौमित्रिस्तमथाब्रवीत् ॥

3.281.4

न त्वामेवंविधो भावः स्प्रष्टुमर्हति मानद ।
आत्मवन्तमिव व्याधिः पुरुषंवृद्धसेविनम् ॥

3.281.5

प्रवृत्तिरुपलब्धा ते वैदेह्या रावणस्य च ।
तां त्वं पुरुषकारेण बुद्ध्या चैवोपपादय ॥

3.281.6

अभिगच्छाव सुग्रीवं शैलस्थं हरिपुङ्गवम् ।
मयि शिष्ये च भृत्ये च सहाये च समाश्वस ॥

3.281.7

एवं बहुविधैर्वाक्यैर्लक्ष्मणेन स राघवः ।
उक्तः प्रकृतिमापेदे कार्ये चानन्तरोऽभवत् ॥

3.281.8

निषेव्य वारि पम्पायास्तर्पयित्वा पितृनपि ।
प्रतस्थतुरभौ वीरौ भ्रातरौ रामलक्ष्मणौ ॥

3.281.9

तावृश्यमूकमभ्येत्य बहुमूलफलद्रुमम् ।
गिर्यग्रे वानरान्पञ्वीरौ ददृशतुस्तदा ॥

3.281.10

सुग्रीवः प्रेषयामास सचिवं वानरं तयोः ।
बुद्धिमन्तं हनूमन्तं हिमवन्तमिव स्थितम् ॥

3.281.11

तेन सम्भाष्य पूर्वं तौ सुग्रीवमभिजग्मतुः ।
रसख्यं वानरराजेन चक्रे रामस्तदा नृप ॥

3.281.12

ततः सीतां हृतां श्रुत्वा सुग्रीवो वालिना कृतम् ।
दुःखमाख्यातवान्सर्वं रामायामिततेजसे ॥

3.281.13

तद्वासो दर्शयामास तस् कार्ये निवेदिते ।
वानराणां तु यत्सीता ह्रियमाणा व्यपासृजत् ॥

3.281.14

तत्प्रत्ययकरं लब्ध्वा सुग्रीवं प्लवगाधिपम् ।
पृथिव्यां वानरैश्वर्ये स्वयंरामोऽभ्यषेचयत् ॥

3.281.15

प्रतिजज्ञे चकाकुत्स्थः समरे वालिनो वधम् ।
सुग्रीवश्चापि वैदेह्याः पुनरानयनं नृप ॥

3.281.16

इत्येवं समयं कृत्वाविश्वास्य च परस्परम् ।
अभ्येत्य सर्वकिष्किन्धां तस्थुर्युद्धाभिकाङ्क्षिणः ॥

3.281.17

सुग्रीवः प्राप्यकिष्किन्धां ननादौघनिभस्वनः ।
नसाय् तन्ममृषे वाली तारा तं प्रत्यषेधयत् ॥

3.281.18

यथानदतिसुग्रीवो बलवानेष वानरः ।
मन्ये चाश्रयवान्प्राप्तो न त्वं निष्क्रान्तुमर्हसि ॥

3.281.19

हेममाली ततो वाली तारां ताराधिपाननाम् ।
प्रोवाच वचनं वाग्मी तां वानरपतिः पतिः ॥

3.281.20

सर्वभूतरुतज्ञा शृणु सर्वं कपीश्वर ॥
केन चाश्रयवान्प्राप्तो ममैप भ्रातृगन्धिकः ॥

3.281.21

चिन्तयित्वा मुहूर्तं तु तारा ताराधिपप्रभा ।
पतिमित्यब्रवीत्प्राज्ञा शृणु सर्वं कपीश्वर ॥

3.281.22

हृतदारो महासत्वोरामो दशरथात्मजः ।
रतुल्यारिमित्रतां प्राप्तः सुग्रीवेण धनुर्धरः ॥

3.281.23

भ्राता चास्य महाबाहुः सौमित्रिरपराजितः ।
लक्ष्मणो नाम मेधावी स्थितः कार्यार्थसिद्धये ॥

3.281.24

मैन्दश्च द्विविदश्चापि हनूमांश्चानिलात्मजः ।
जाम्बवानृक्षराजश्च सुग्रीवसचिवाः स्थिताः ॥

3.281.25

सर्व एते महात्मानो बुद्धिमन्तो महाबलाः ।
अलं तव विनाशाय रामवीर्यव्यपाश्रयाः ॥

3.281.26

तस्यास्तदाक्षिप्य वचो हितमुक्तं कपीश्वरः ।
पर्यशङ्कत तामीर्षुः सुग्रीवगतमानसाम् ॥

3.281.27

तारां परुषमुक्त्वा तु निर्जगाम गुहामुखात् ।
स्थितं माल्यवतोऽभ्याशे सुग्रीवं सोभ्यभाषत ॥

3.281.28

असकृत्त्वं मया क्लीव निर्जितो जीवितप्रियः ।
मुक्तो गच्छसि दुर्बुद्धे कथन्कारं रणे पुनः ॥

3.281.29

इत्युक्तः प्राहसुग्रीवो भ्रातरं हेतुमद्वचः ।
प्राप्तकालममित्रघ्नं रामं सम्बोधयन्निव ॥

3.281.30

हृतराज्यस्य मे राजन्हृतदारस्य च त्वया ।
किं मे जीवितसामर्थ्यमिति विद्धि समागतम् ॥

3.281.31

एवमुक्त्वाबहुविधं ततस्तौ सन्निपेततुः ।
समरे वालिसुग्रीवौ सालतालशिलायुधौ ॥

3.281.32

उभौ जघ्नतुरन्योन्यमुभौ भूमौ निपेततुः ।
उभौ ववल्गतुश्चित्रं मुष्टिभिश्च निजघ्नतुः ॥

3.281.33

उभौ रुधिरसंसिक्तौ नखदन्तपरिक्षतौ ।
शुशुभाते तदा वीरौ पुष्पिताविव किंशुकौ ॥

3.281.34

न विशेषस्तयोर्युद्धे यदा कश्चन दृश्यते ।
सुग्रीवस् तदा मालां हनुमान्कण्ठ आसजत् ॥

3.281.35

स मालया तदा वीरः शुशुभे कण्ठसक्तया ।
श्रीमानिव महाशैलो मलयो मेघमालया ॥

3.281.36

कृतचिह्नं तु सुग्रीवं रामो दृष्ट्वा महाधनुः ।
विचकर्ष धनुःश्रेष्ठं वालिमुद्दिश्य लक्षयन् ॥

3.281.37

विष्फारस्तस् धनुषो यन्त्रस्येव तदा बभौ ।
वितत्रास तदा वाली शरेणाभिहतो हृदि ॥

3.281.38

स भिन्नहृदयो वाली वक्राच्छोणितमुद्वमन् ।
ददर्शावस्थितं रामं ततः सौमित्रिणा सह ॥

3.281.39

गर्हयित्वास काकुत्स्थं पपात भुवि मूर्च्छितः ।
तारा ददर्श तं भूमौ तारापतिमिव च्युतम् ॥

3.281.40

हते वालिनि सुग्रीवः किष्किन्धां प्रत्यपद्यत ।
तां तारापतिमुखीं तारां निपतितेश्वराम् ॥

3.281.41

रामस्तु चतुरो मासान्पृष्ठे माल्यवतः शुभे ।
निवासमकरोद्धीमान्सुग्रीवेणाभ्युपस्थितः ॥

3.281.42

रावणोऽपिपुरीं गत्वालङ्कां कामबलात्कृतः ।
सीतां निवेशयामास भवने नन्दनोपमे ॥

3.281.43

अशोकवनिकाभ्यासे तापसास्रमसन्निभे ।
भर्तृस्मरणतन्वङ्गी तापसीवेषधारिणी ॥

3.281.44

उपवासतपःशीला ततः सा पृथुलेक्षणा ।
उवास दुःखवसतिं फलमूलकृताशना ॥

3.281.45

दिदेश राक्षसीस्तत्ररक्षणे राक्षसाधिपः ।
प्रासासिशूलपरशुमुद्गरालातधारिणीः ॥

3.281.46

द्व्यक्षीं त्र्यक्षीं ललाटक्षीं दीर्घजिह्वामजिह्विकाम् ।
त्रिस्तनीमेकपादां च त्रिजटामेकलोचनाम् ॥

3.281.47

एताश्चान्याश्च दीप्ताक्ष्यः करभोत्कटमूर्धजाः ।
परिवार्यासते सीतां दिवारात्रमतन्द्रिताः ॥

3.281.48

तास्तु तामायतापाङ्गीं पिशाच्यो दारुणस्वराः ।
तर्जयन्ति सदा रौद्राः परुषव्यञ्जनस्वराः ॥

3.281.49

खादाम पाटयामैनां तिलशः प्रविभज्यताम् ।
येयं भर्तारमस्माकमवमत्येह जीवति ॥

3.281.50

इत्येवं परिभर्त्सन्तीस्त्रासयानाः पुनः पुनः ।
भर्तृशोकसमाविष्टा निःश्वस्येदमुवाच ताः ॥

3.281.51

आर्याः खादत मां शीघ्रं न मे लोभोस्ति जीविते ।
विना तं पुण्डरीकाक्षं नीलकुञ्चितमूर्धजम् ॥

3.281.52

अद्यैवाहं निराहारा जीवितप्रियवर्जिता ।
शोषयिष्यामि गात्राणि बल्ली तलगता यथा ॥

3.281.53

न त्वन्यमभिगच्छेयं पुमांसं राघवादृते ।
इति जानीत सत्यं मेक्रियतां यदनन्तरम् ॥

3.281.54

तस्यास्तद्वचनं श्रुत्वा राक्षस्यस्ताः खरस्वनाः ।
आख्यातुं राक्षसेन्द्राय जन्मुस्तत्सर्वमादितः ॥

3.281.55

गतासु तासु सर्वासु त्रिजटा नाम राक्षसी ।
सान्त्वयामास वैदेहीं धर्मज्ञा प्रियवादिनी ॥

3.281.56

सीते वक्ष्यामि ते किञ्चिद्विश्वासं करु मे सखि ।
भयं त्वं त्यज वामोरु शृणु चेदं वचो मम ॥

3.281.57

अविन्ध्यो नाम मेधावी वृद्धो राक्षसपुङ्गवः ।
स रामस्य हितान्वेषी त्वदर्थे मामचूचुदत् ॥

3.281.58

सीता मद्वचनाद्वाच्या समाश्वास्य प्रसाद्य च ।
भर्ता तेकुशली रामोलक्ष्मणानुगतो बली ॥

3.281.59

सख्यं वानरराजेन शक्रप्रतिमतेजसा ।
कृतवान्राघवः श्रीमांस्त्वदर्थे च समुद्यतः ॥

3.281.60

मा च ते भूद्भयं भीरु रावणाल्लोकगर्हितात् ।
नलकूबरशापेन रक्षिता ह्यसि नन्दिनि ॥

3.281.61

शप्तो ह्येष पुरा पापो वधूं रम्भां परामृशन् ।
न शक्रोत्यवशां नारीमुपैतुमजितेन्द्रियः ॥

3.281.62

क्षिप्रमेष्यति ते भर्ता सुग्रीवेणाभिरक्षितः ।
सौमित्रिसहितो धीमांस्त्वां चेतो मोक्षयिष्यति ॥

3.281.63

स्वप्ना हि सुमहाघोरा दृष्टा मेऽनिष्टदर्शनाः ।
विनाशायास्य दुर्बुद्धेः पौलस्त्यस्य कुलस्य च ॥

3.281.64

दारुणो ह्येष दुष्टात्मा क्षुद्रकर्मा निशाचरः ।
स्वभावाच्छीलदोषेण सर्वेषां भयवर्धनः ॥

3.281.65

स्पर्धते सर्वदेवैर्यः कालोपहतचेतनः ।
मया विनासलिङ्गानि स्वप्ने दृष्टानि तस्य वै ॥

3.281.66

तैलाभिषिक्तो विकचो मज्जनप्के दशाननः ।
असकृत्स्वरयुक्ते तु रथे नृत्यन्निव स्थितः ॥

3.281.67

कुम्भकर्णादयश्चेमे नग्नाः पतितमूर्धजाः ।
गच्छन्ति दक्षिणामाशां रक्तमाल्यानुलेपनाः ॥

3.281.68

श्वेतातपत्रः सोष्णीषः शुक्लमाल्यानुलेपनः ।
श्वेतपर्वतमारूढ एक एव विभीषणः ॥

3.281.69

सचिवाश्चास्य चत्वारः शुक्लमाल्यानुलेपनाः ।
श्वेतपर्वतमारूढा मोक्ष्यन्तेऽस्मान्महाभयात् ॥

3.281.70

रामस्यास्त्रेण पृथिवी परिक्षिप्ता ससागरा ।
यशसा पृथिवीं कृत्स्नां पूरयिष्यति ते पतिः ॥

3.281.71

हस्तिसक्थिसमारूढो भुञ्जानो मधुपायसम् ।
लक्ष्मणश्च मया दृष्टो दिधक्षुः सर्वतो दिशम् ॥

3.281.72

रुदती रुधिरार्द्राङ्गी व्याघ्रेण परिरक्षिता ।
असकृत्त्वं मया दृष्टा गच्छन्ती दिशमुत्तराम् ॥

3.281.73

हर्षमेष्यसि वैदेहि क्षिप्रं भर्त्रा समन्विता ।
राघवेण सहभ्रात्रा सीते त्वमचिरादिव ॥

3.281.74

इत्येतन्मृगशावाक्षी तच्छ्रुत्वा त्रिजटावचः ।
बभूवाशावती बाला पुनर्भर्तृसमागमे ॥

3.281.75

तावदभ्यागता रौद्र्यः पिशाच्यस्ताःसुदारुणाः । ददृशुस्तां त्रिजटया सहासीनां यथापुरम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc