भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.280

3.280.1

सखा दशरथस्यासीज्जटायुररुणात्मजः ।
गृध्रराजो महावीरः सम्पातिर्यस् सोदरः ॥

3.280.2

स ददर्श तदा सीतां रावणाङ्कगतां स्नुषाम् ।
सक्रोधोऽभ्यद्रवत्पक्षी रावणं राक्षसेश्वरम् ॥

3.280.3

अथैनमब्रवीद्गृध्रो मुञ्चमुञ्चेति मैथिलीम् ।
ध्रियमाणे मयि कथं हरिष्यसि निशाचर ॥

3.280.4

न हिमे मोक्ष्यसे जीवन्यदि नोत्सृजसे वधूम् ।
उक्त्वैवं राक्षसेन्द्रं तं चकर्त नखरैर्भृशम् ॥

3.280.5

पक्षतुण्डप्रहारैश्च शतशो जर्जरीकृतम् ।
चक्षार रुधिरं भूरि गिरिः प्रस्रवणैरिव ॥

3.280.6

स वध्यमानो गृध्रेण रामप्रियहितैषिणा ।
खङ्गमादाय चिच्छेद भुजौ तस् पतत्रिणः ॥

3.280.7

निहत्य गृध्रराजं सभिन्नाभ्रशिखरोपमम् ।
ऊर्ध्वमाचक्रमे सीतां गृहीत्वाऽङ्केन राक्षसः ॥

3.280.8

यत्रयत्रतु वैदेही पश्यत्याश्रममण्डलम् ।
सरोवा सरितो वाऽपि तत्र मुञ्चति भूषणम् ॥

3.280.9

सा ददर्श गिरिप्रस्थे पञ्च वानरपुङ्गवान् ।
तत्र वासो महद्दिव्यमुत्ससर्ज मनस्विनी ॥

3.280.10

तत्तेषां वानरेन्द्राणां पपात पवनोद्धतम् ।
मध्ये सुपीतं पञ्चानां विद्युन्मेघान्तरे यथा ॥

3.280.11

अचिरेणातिचक्राम खेचरः खे चरन्निव ।
ददर्शाथ पुरीं रम्यां बहुद्वारां मनोरमाम् ॥

3.280.12

प्राकारवप्रसम्बाधां निर्मितां विश्वकर्मणा ।
प्रविवेशपुरीं लङ्कां ससीतो राक्षसेश्वरः ॥

3.280.13

एवं हृतायां वैदेह्यां रामो हत्वा महामृगम् ।
निवृत्तो ददृशे दूराद्भ्रातरं लक्ष्मणं तदा ॥

3.280.14

कथमुत्सृज्य वैदेहीं वने राक्षससेविते ।
इति तं भ्रातरं दृष्ट्वा प्राप्तोऽसीति व्यगर्हयत् ॥

3.280.15

मृगरूपधरेणाथ रक्षसासोपकर्षणम् ।
भ्रातुरागमनं चैवचिन्तयन्पर्यतप्यत ॥

3.280.16

गर्हयन्नेव रामस्तु त्वरितस्तं समासदत् ।
अपि जीवति वैदेहीमिति पश्यामि लक्ष्मण ॥

3.280.17

तस् तत्सर्वमाचख्यौ सीताया लक्ष्मणो वचः ।
यदुक्तवत्यसदृशं वैदेही पश्चिमं वचः ॥

3.280.18

दह्यमानेन तु हृदा रामोऽभ्यपतदाश्रमम् ।
स ददर्श रतदा गृध्रं निहतं पर्वतोपमम् ॥

3.280.19

राक्षसं शङ्कमानस्तं विकृष्य बलवद्धनुः ।
अभ्यधावत काकुत्स्थस्ततस्तं सहलक्ष्मणः ॥

3.280.20

स तावुवाच तेजस्वी सहितौ रामलक्ष्मणौ ।
गृध्रराजेस्मि भद्रंवां सखा दशरथस् वै ॥

3.280.21

तस्य तद्वचनं श्रुत्वा सन्गृह्य धनुषी शुभे ।
कोयं पितरमस्माकं नाम्नाऽहेत्यूचतुश्च तौ ॥

3.280.22

ततो ददृशतुस्तौ तं छिननपक्षद्वयं खगम् ।
तयोः शशंस गृध्रस्तु सीतार्थे रावणाद्वधम् ॥

3.280.23

अपृच्छद्राघवो गृध्रं रावणः कां दिशं गतः ।
तस् गृध्रः शिरःकम्पैराचचक्षे ममार च ॥

3.280.24

दक्षिणामिति काकुत्स्थो विदित्वाऽस्य तदिङ्गितम् ।
संस्कारं लम्भयामास सखायं पूजयन्पितुः ॥

3.280.25

ततो दृष्ट्वाऽश्रमपदं व्यपविद्धबृसीकटम् ।
विध्वस्तकलशं शून्यं गोमायुशतसन्कुलम् ॥

3.280.26

दुःखशोकसमाविष्टौ वैदेहीहरणार्दितौ ।
जग्मतुर्दण्डकारण्यं दक्षिणेन परन्तपौ ॥

3.280.27

वने महति तस्मिंस्तु रामः सौमित्रिणा सह ।
ददर्श मृगयूथनि द्रवमाणानि सर्वशः ॥

3.280.28

शब्दं च घोरं सत्वानां दावाग्नरिववर्धतः ।
अपश्येतां मुहूर्ताच्च कबन्धं घोरदर्शनम् ॥

3.280.29

मेघपर्वतसन्काशं सालस्कन्धं महाभूजम् ।
उरोगतविशालाक्षं महोदरमहामुखम् ॥

3.280.30

यदृच्छयाथ तद्रक्षः करे जग्राह लक्ष्मणम् ।
विषादमगमत्सद्यः सौमित्रिरथ भारत ॥

3.280.31

स राममभिसम्प्रेक्ष्य कृष्यते येन तन्मुखम् ।
विषण्णश्चाब्रवीद्रामं पश्यावस्थामिमां मम ॥

3.280.32

हरणं चैववैदेह्या मम चायमुपप्लवः ।
राज्यभ्रंशश्च भवतस्तातस्य मरणं तथा ॥

3.280.33

नाहं त्वां मह वैदेह्या समेतं कोसलागतम् ।
द्रक्ष्यामि प्रथिते राज्येपितृपैतामहे स्थितम् ॥

3.280.34

द्रक्ष्यन्त्यार्यस्य धन्या ये कुशलाजशमीदलैः ।
अभिषिक्तस् वदनं सोमं शान्तघनं यथा ॥

3.280.35

एवं बहुविधं धीमान्विललाप स लक्ष्मणः ।
तमुवाचाथकाकुत्स्थः सम्भ्रमेष्वप्यसम्भ्रमः ॥

3.280.36

मा विषीद नरव्याघ्र नैष कश्चिन्मयि स्थिते । शक्तो धर्षयितुं वीर सुमित्रानन्दवर्धन ।
छिन्ध्यस्य दक्षिणं बाहुं छिन्नः सव्यो मया भुजः ॥

3.280.37

इत्येवं वदता तस् भुजो रामेण पातितः ।
खङ्गेन भृशतीक्ष्णेन निकृत्तस्तिलकाण्डवत् ॥

3.280.38

ततोऽस्य दक्षिणं बाहुं स्वङ्गेनाजघ्निवान्बली ।
सौमित्रिरपि सम्प्रेक्ष्यभ्रातरं राघवं स्थितम् ॥

3.280.39

पुनर्जघान पार्श्वे वै तद्रक्षो लक्ष्मणो भृशम् ।
गतासुरपतद्भूमौ कबन्धः सुमहांस्ततः ॥

3.280.40

तस्य देहाद्विनिःसृत्य पुरुषो दिव्यदर्शनः ।
ददृशे दिवमास्थाय दिवि सूर्य इव ज्वलन् ॥

3.280.41

पप्रच्छ रामस्तं वाग्मी कस्त्वं प्रब्रूहि पृच्छतः ।
कामया किमिदं चित्रमाश्चर्यं प्रतिभाति मे ॥

3.280.42

तस्याचचक्षेगन्धर्वोविश्वावसुरहं नृप ।
प्राप्तो ब्राह्मणशपेन योनिं राक्षससेविताम् ॥

3.280.43

रावणेन हृतासीता लङ्कायां सन्निवेशिता ।
सुग्रीवमभिगच्छस्वस ते साह्यं करिष्यति ॥

3.280.44

एषा पम्पा शिवजला हंसकारण्डवायुता ।
ऋश्यमूकस्य शैलस्य सन्निकर्षे तटाकिनी ॥

3.280.45

वसते तत्रसुग्रीवश्चतुर्भिः सचिवैः सह ।
भ्राता बानरराजस् वालिनो हेममालिनः ॥

3.280.46

तेन त्वं सहसन्गम्य दुःखमूलं निवेदय ।
समानशीलो भवतः साहाय्यं स करिष्यति ॥

3.280.47

एतावच्छक्यमस्माभिर्वक्तुं द्रष्टासि जानकीम् ।
ध्रुवं वानरराजस् विदितो रावणालयः ॥

3.280.48

इत्युक्त्वाऽन्तर्हितो दिव्यः पुरुषः स महाप्रभः । विस्मयं जग्मतुश्चोभौ प्रवीरौ रामलक्ष्मणौ ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc