भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.269

3.269.1

सरोषरागोपहतेन वल्गुना सरागनेत्रेण नतोन्नतभ्रुवा ।
मुखेन विस्फूर्य सुवीरराष्ट्रपं ततोऽब्रवीत्तं द्रुपदात्मजा पुनः ॥

3.269.2

यशस्विनस्तीक्ष्णविषान्महारथा- नभिब्रुवन्मूढ न लज्जसे कथम् ।
महेन्द्रकल्पान्निरतान्स्वकर्मसु स्तितान्समूहेष्वपि यक्षरक्षसाम् ॥

3.269.3

न किञ्चिदार्याः प्रवदन्ति पापं वनेचरंवा गृहमेधिनं वा ।
तपस्विनं सम्परिपूर्णविद्यं भजन्ति चैवं सुनराः सुवीर ॥

3.269.4

अहं तु मन्ये तव नास्ति कश्चि- देतादृशे क्षत्रियसन्निवेशे ।
यस्त्वद्य पातालमुखे पतन्तं पाणौ गृहीत्वा प्रतिसंहरेत ॥

3.269.5

नागं प्रमिन्नं गिरिकूटकल्प- मुपत्यकां हैमवतीं चरन्तम् ।
दण्डीव यूथादपसेधसि त्वं यो जेतुमाशंससि धर्मराजम् ॥

3.269.6

बाल्यात्प्रसुप्तस्य महाबलस्य सिंहस् पक्ष्माणि मुखाल्लुनासि ।
पदा समाहत्य पलायमानः क्रुद्धं यदा द्रक्ष्यसि भीमसेनम् ॥

3.269.7

महाबलं घोरतरं प्रवृद्धं जातं हरिं पर्वतकन्दरेषु ।
प्रसुप्तमुग्रं प्रपदेन हंसि यः क्रुद्धमायोत्स्यसि जिष्णुमुग्रम् ॥

3.269.8

कृष्णोरगौ तीक्ष्णमुखौ द्विजिह्वौ मत्तः पदा क्रामसि पुच्छदेशे ।
यः पाण्डवाभ्यां पुरुषोत्तमाभ्यां जघन्यजाभ्यां प्रयुयुत्ससे त्वम् ॥

3.269.9

यथा च वेणुः कदली नलो वा फलन्त्यभावाय न भूतयेऽत्मनः ।
तथैव मां तैः परिरक्ष्यमाणा- मादास्यसे कर्कटकीव गर्भम् ॥
जयद्रथ उवाच ।

3.269.10

जानामि कृष्णे विदितं ममैत- द्यथाविधास्ते नरदेवपुत्राः ।
न त्वेवमेतेन विभीषणेन शक्या वयं त्रासयितुं त्वयाऽद्य ॥

3.269.11

वयं पुनः सप्तदशेषु कृष्णे कुलेषु सर्वेऽनवमेषु जाताः ।
षड्भ्यो गुणेभ्योऽभ्यधिका विहीना न्मन्यामहे द्रौपदी पाण्डुपुत्रान् ॥

3.269.12

सा क्षिप्रमातिष्ठ गजं रथं वा न वाक्यमात्रेण वयं हि शक्याः ।
आशंस वा त्वं कृपणं वदन्ती सौवीरराजस्य पुनः प्रसादम् ॥
द्रौपद्युवाच ।

3.269.13

महाबला किन्त्विह दुर्बलेव सौवीरराजस्य मताऽहमस्मि ।
नाहं प्रमाथादिह सम्प्रतीता सौवीरराजं कृपणं वदेयम् ॥

3.269.14

यस्या हि कृष्णौ पदवीं चरेतां समास्थितावेकरथे समेतौ ।
इन्द्रोऽपितां नापहरेत्कथञ्चि- न्मनुष्यमात्रः कृपणः कुतोऽन्यः ॥

3.269.15

यथा विकीटी परवीरघाती निघ्नन्रथस्थो द्विषतां मनांसि ।
मदन्तरे त्वद्ध्वजिनीं प्रवेष्टा वक्षं दहन्नग्निरिवोष्णगेषु ॥

3.269.16

जनार्दनः सान्धकवृष्णिवीरो महेष्वासाः केकयाश्चापि सर्वे ।
एते हि सर्वे मम राजपुत्राः प्रहृष्टरूपाः पदवीं चरेयुः ॥

3.269.17

मौर्वीविसृष्टाः स्तनयित्नुघोषा गाण्डीवमुक्तास्त्वतिवेगवन्तः ।
हस्तं समाहत्य धनञ्जयस्य भीमाः शब्दं घोरतरं नदनति ॥

3.269.18

गाण्डीवमुक्तांश्च महाशरौघान् पतङ्गसङ्घानिव शीघ्रवेगान् ।
यदा द्रष्टास्यर्जुनं वीर्यशालिनं तदा स्वबुद्धिं प्रतिनिन्दितासि ॥

3.269.19

सशङ्खघोषः सतलत्रघोषो गाण्डीवधन्वा मुहुरुद्वहंश्च ।
यदा शरानर्पयिता तवोरसि तदा मनस्ते किमिवाभविष्यत् ॥

3.269.20

गदाहस्तं भीममभिद्रवन्तं माद्रीपुत्रौ सम्पतन्तौ दिशश्च ।
अमर्षजं क्रोधविषं वमन्तौ दृष्ट्वा चिरं तापमुपैष्यसेऽधम ॥

3.269.21

यथा वाऽहं नातिचरे कथञ्चि- त्पतीन्महार्हान्मनसाऽपिजातु ।
तेनाद्य सत्येन वशीकृतन्त्वां द्रष्टास्मि पार्थैः परिकृष्यमाणम् ॥

3.269.22

न सम्भ्रमं गन्तुमहं हि शक्ष्ये त्वया नृशंसेन विकृष्यमाणा ।
समागताऽहं हि कुरुप्रवीरैः पुनर्वनं काम्यकमागताऽस्मि ॥
वैशम्पायन उवाच ।

3.269.23

इत्येवमुक्तस्तु स सिन्धुनाथ- स्तां द्रौपदीमाहविशालनेत्राम् ।
आरुह्यतामाशु रथं मदीयं मा त्वां वलाद्दौपदिकर्षयेहम् ॥

3.269.24

सा ताननुप्रेक्ष्य विशालनेत्रा जिघृक्षमाणानवभर्त्सयन्ती ।
प्रोवाच मा मा स्पृशतेति भीता धौम्यं प्रचुक्रोश पुरोहितं सा ॥

3.269.25

जग्राह तामुत्तरवस्त्रदेशे जयद्रथस्तं समवाक्षिपत्सा ।
तया समाक्षिप्ततनुः स पापः पपात शाखीव निकृत्तमूलः ॥

3.269.26

प्रगृह्यमाणा तु महाजवेन मुहुर्विनिःश्वस्य च राजपुत्री ।
सा मृष्यमाणा रथमारुरोह धौम्यस्य पादावभिवाद्य कृष्णा ॥
धौम्य उवाच ।

3.269.27

नेयं शक्या त्वया नेतुमविजित्य महारथान् ।
धर्मं क्षत्रस् पौराणमवेक्षस्व जयद्रथ ॥

3.269.28

क्षुद्रं कृत्वाफलम्पापं त्वं प्राप्स्यसि न संशयः ।
आसाद्य पाण्डवान्वीरान्धर्मराजपुरोगमान् ॥
वैशम्पायन उवाच ।

3.269.29

इत्युक्तवाह्रियमाणां तां राजपुत्रीं यशस्विनीम् । अन्वगच्छत्तदा धौम्यः पदातिगणमध्यगः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc