भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.270

3.270.1

ततो दिशः सम्परिवृत्य पार्था मृगान्वराहान्महिपांस्च हन्वा ।
धनुर्धराः श्रेष्ठतमाः पृथिव्यां पृथक्चरन्तः सहिता बभूवुः ॥

3.270.2

ततो मृगव्यालजनानुकीर्णं महावनं तद्विहगोपघुष्टम् ।
भ्रातॄंश्च तानभ्यवदद्युधिष्ठिरः श्रुत्वा गिरो व्याहरतां मृगाणाम् ॥

3.270.3

आदित्यदीप्तां दिशमभ्युपेत्य मृगा द्विजाः क्रूरमिमे वदन्ति ।
आयासमुग्रं प्रतिवेदयन्तो महाभयं शत्रुभिर्वाऽवमानम् ॥

3.270.4

क्षिप्रं निवर्तध्वमलं मृगैर्नो मनो हि मे दूयति दह्यते च ।
बुद्धिं समाच्छाद्य च मे समन्यु- रुद्धूयते प्राणपतिः शरीरे ॥

3.270.5

सरः सुपर्णन हृतोरगेन्द्र- मराजकं राष्ट्रमिवेह शान्तम् ।
एवंविधं मे प्रतिभाति काम्यकं शौण्डैर्यथा पीतसुरश्च कुम्भः ॥

3.270.6

ते सैन्धवैरग्न्यनिलोग्रवेगै- र्महाजवैर्वाजिभिरुह्यमानाः ।
युक्तैर्बृहद्भिः सुरथैर्नृवीरा- स्तदाश्रमायाभिमुखा बभूवुः ॥

3.270.7

तेषां तु गोमायुरनल्पघोषो निवर्ततां वाममुपेत्य पार्श्वम् ।
प्रव्याहरत्तत्प्रविमृश्य राजा प्रोवाच भीमं च धनञ्जयं च ॥

3.270.8

यथा वदत्येप विहीनयोनिः सालावृकोवाममुपेत्य पार्स्वम् ।
सुव्यक्तमस्मानवमत्य पापैः कृतोऽभिमर्दः कुरुभिः प्रसह्य ॥

3.270.9

एत्याथ ते तद्वनमाविशन्तो महत्यरण्ये मृगयां चरित्वा ।
बालामपश्यन्त तदा रुदन्तीं धात्रेयिकां प्रेष्यवधूं प्रियायाः ॥

3.270.10

तामिन्द्रसेनस्त्वरितोऽभिसृत्य रथादवप्लुत्य ततोऽभ्यधावत् ।
प्रोवाच चैनां वचनं नरेन्द्र धात्रेयिकामार्ततरस्तदानीम् ॥

3.270.11

किं रोदिषि त्वं पतिता धरण्यां किं त मुखं शुष्यति दीनवर्णम् ।
कच्चिन्न पापैः सुनृशंसकृद्भिः प्रमाथिता द्रौपदी राजपुत्री । गतेष्वरण्यं हि सुतेषु पाण्डोः कच्चित्परैर्नापकृतं वनेऽस्मिन् ॥

3.270.12

पर्याकुला साधु समीक्ष्यसूत- मभ्यापतन्तं द्रुतमिन्द्रसेनम् ।
उरो घ्नती कष्टतरं तदानी- मुच्चैः प्रचुक्रोश हृतेति देवी ॥
इन्द्रसेन उवाच ।

3.270.13

अनिन्द्यरूपा तु विशालनेत्रा शरीरतुल्या कुरुपुङ्गवानाम् ।
केनात्मनाशाय यदापनीता छिद्रं समासाद्य नरेन्द्रपत्नी ॥

3.270.14

यद्येव देवीं पृथिवीं प्रविष्टा दिवं प्रपन्नाऽप्यथवा समुद्रम् ।
तस्या गमिष्यन्ति पदे हि पार्था- स्तथा हि सन्तप्यति धर्मराजः ॥

3.270.15

को हीदृशानामरिमर्दनानां क्लेशक्षमाणामपराजितानाम् ।
प्राणैः समामिष्टतमां जिहीर्षे- दनुत्तमं रत्नमिव प्रमूढः ॥

3.270.16

न बुध्यते नाथवतीमिहाद्य बहिश्चरं हृदयं पाण्डवानाम् ।
कस्याद्य कायं प्रतिभिद्य घोरा महीं प्रवेक्ष्यन्ति शिताः शराग्र्याः ॥

3.270.17

मा त्वं शुचस्तां प्रति भीरु विद्धि यथाऽद्य कृष्णा पुनरेष्यतीति ।
निहत्य सर्वान्द्विषतः समग्रा- न्पार्थाः समेष्यनत्यथ याज्ञसेन्या ॥

3.270.18

अथाब्रवीच्चारुमुखं प्रसृज्य धात्रेयिका सारथिमिन्द्रसेनम् ।
जयद्रथेनापहृताप्रमथ्य पञ्चेन्द्रकल्पान्परिभूय कृष्णा ॥

3.270.19

तिष्ठन्ति वर्त्मानि नवान्यमूनि वृक्षाश्च न म्लान्ति तथैव भग्नाः ।
आवर्तयध्वं ह्यनुयात शीघ्रं न दूरयातैव हि राजपुत्री ॥

3.270.20

सन्नह्यध्वं सर्व एवेन्द्रकल्पा महान्ति चारूणि च दंशनानि ।
गृह्णीत चापानि महाधनानि शरांश्च शीघ्रं पदवीं व्रजध्वम् ॥

3.270.21

पुरा हि निर्भर्त्सनदण्डमोहिता प्रमूढचित्ता वदनेन शुष्यता ।
ददाति कस्मैचिदनर्हते तनुं वराज्यपूर्णामिव भस्मनि स्रुचम् ॥

3.270.22

पुरा तुषाग्नाविव हूयते हविः पुरा श्मशाने स्रगिवापविद्ध्यते ।
पुरा च सोमोऽध्वरगोऽवलिह्यते शुना यथा विप्रजने प्रमोहिते ॥

3.270.23

पुरा हि पार्थाश्च दृतौ च कापिली प्रसिच्छते क्षीरधारा यतध्वम् ।
महत्यरण्ये मृगयां चरित्वा पुरा सृगालो नलिनीं विगाहते ॥

3.270.24

पुरा हि मन्त्राहुतिपूजितायां हुताग्निवेद्यां बलिभुङ्गिलीयते ।
श्रुतिं च सम्यक्प्रसृतां महाध्वरे ग्राम्यो जनो यद्वदसौ न नाशयेत् ॥

3.270.25

मा वः प्रियायाः सुनसं सुलोचनं चन्द्रप्रभाच्छं वदनं प्रसन्नम् ।
स्पृश्याच्छुभं कश्चिदकृत्यकारी श्वा वै पुरोडाशमिवाध्वरस्थम् ॥

3.270.26

एतानि वर्त्मान्यनुयात शीघ्रं मा वः कालः क्षिप्रमिहात्यगाद्वै ॥

3.270.27

शीघ्रं प्रधावध्वमितो नरेन्द्रा यावन्न दूरं व्रजतीति पापः ।
प्रत्याहरध्वं द्विषतां सकाशा- ल्लक्ष्मीमिव स्वां दयितां नृसिंहाः ॥
युधिष्ठिर उवाच ।

3.270.28

भद्रे प्रतिक्राम नियच्छ वाचं माऽस्मत्सकाशे परुषाण्यवोचः ।
राजानो वा यदि वा राजपुत्रा बलेन मत्ताः पञ्चतां प्राप्नुवन्ति ॥
वैशम्पायन उवाच ।

3.270.29

एतावदुक्त्वा प्रययुर्हि शीघ्रं तान्येव वर्त्मान्यनुवर्तमानाः ।
मुहुर्मुहुर्व्यालवदुच्छ्वसन्तो ज्यां विक्षिपन्तश्च महाधनुर्भ्यः ॥

3.270.30

ततोऽपश्यंस्तस्य सैन्यस्य रेणु- मुद्धूतं वै वाजिस्वुरप्रणुन्नम् ।
पदातीनां मध्यगतं च धौम्यं विक्रोशन्तं भीम पार्थेत्यभीक्ष्णम् ॥

3.270.31

ते सान्त्व्य धौम्यं परिदीनसत्वाः सुखं भवानेत्विति राजपुत्राः ।
श्येना यथैवामिषसम्प्रयुक्ता जवेन तत्सैन्यमथाभ्यधावन् ॥

3.270.32

तेषां महेन्द्रोपमविक्रमाणां संरब्धानां धर्षणाद्याज्ञसेन्याः ।
क्रोधः प्रजज्वाल जयद्रथं च दृष्ट्वा प्रियां तस्य रथे स्थितां च ॥

3.270.33

प्रचुक्रुशुश्चाप्यथ सिन्धुराजं वृकोदरश्चैव धनञ्जयश्च ।
यमौ च राजा च महाधनुर्धरा- स्ततो दिशः सम्मुमुहुः परेषाम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc