भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.268

3.268.1

तथाऽसीनेषु सर्वेषु तेषु राजसु भारत ।
कोटिकाश्यो जगामाशु सिन्धुराजनिवेशनम् ॥

3.268.2

यदुक्तं कृष्णया सार्धं तत्सर्वं प्रत्यवेदयत् ।
कोटिकाश्यवचः श्रुत्वा शैब्यं सौवीरकोऽब्रवीत् ॥

3.268.3

यदा वाचं व्याहरन्त्यामस्यां मे रमते मनः ।
सीमन्तिनीनां सुख्यायां विनिवृत्तः कथं भवान् ॥

3.268.4

एतां दृष्ट्वा स्त्रियो मेऽन्या यथा शाखामृगस्त्रियः ।
प्रतिभान्ति महाबाहो सत्यमेतद्ब्रवीमि ते ॥

3.268.5

दर्शनादेव हि मनस्तया मेऽपहृतं भृशम् ।
तां समाचक्ष्व कल्याणीं यदि स्याच्छैब्य मानुषी ॥
कोटिक उवाच ।

3.268.6

एषा वै द्रौपदी कृष्णा राजपुत्री यशस्विनी ।
पञ्चानां पाण्डुपुत्राणां महिषी सम्मता भृशम् ॥

3.268.7

सर्वेषां चैव पार्थानां प्रिया बहुमता सती ।
तया समेत्य सौवीर सौवीराभिमुखो व्रज ॥
वैशम्पायन उवाच ।

3.268.8

एवमुक्तः प्रत्युवाच पश्यामि द्रौपदीमिति ।
पतिः सौवीरसिन्धूनां दुष्टभावो जयद्रथः ॥

3.268.9

स प्रविश्याश्रमं पुण्यं सिंहगोष्ठं वृको यथा ।
आत्मना सप्तमः कृष्णामिदं वचनमब्रवीत् ॥

3.268.10

कुशलं ते वरारोहे भर्तारस्तेऽप्यनामयाः ।
येषां कुशलकामासि तेऽपिकच्चिदनामयाः ॥
द्रौपद्युवाच ।

3.268.11

अपि ते कुशलं राजन्राष्ट्रे कोशे बले तथा । कच्चिदेकः शिबीनाढ्यान्सौवीरान्सह सिन्धुभिः ।
अनुतिष्ठसि धर्मेण ये चान्ये विदितास्त्वया ॥

3.268.12

कौरव्यः कुशली राजा कुन्तीपुत्रो युधिष्ठिरः ।
अहं च भ्रातरश्चास्य यांश्चान्यान्परिपृच्छसि ॥

3.268.13

पाद्यं प्रतिगृहाणेदमासनं च नृपात्मज ।
मृगान्विता मृगीश्चैव प्रातराशं ददानि ते ॥

3.268.14

ऐणेयान्पृषतान्न्यङ्कून्हरिणाञ्शरभाञ्शशान् ।
ऋक्षाव्रुरूञ्शम्बरांश्च गवयांश्च मृगान्बहून् ॥

3.268.15

वराहामहिषांश्चैव याश्चान्या मृगजातयः ।
प्रदास्यति स्वयं तुभ्यं कुन्तीपुत्रो युधिष्टिरः ॥
जयद्रथ उवाच ।

3.268.16

कुशलं प्रातराशस्य सर्वं मे दित्सितं त्वया ।
एहि मे रथमारोह सुखमाप्नुहि केवलम् ॥

3.268.17

गतश्रीकान्हृतराज्यान्कृपणान्गतचेतसः ।
अरण्यवासिनः पार्थान्नानुरोद्धुं त्वमर्हसि ॥

3.268.18

नैव प्राज्ञा गतश्रीकं भर्तारमुपयुञ्जते ।
युञ्जानमनुयुञ्जीत न शरियः सन्क्षये वसेत् ॥

3.268.19

श्रिया विहीना राष्ट्राच्च विनष्टाः शाश्वतीः समाः ।
अलं ते पाण्डुपुत्राणां भक्त्या क्लेशमुपासितुम् ॥

3.268.20

भार्या मे भव सुश्रोणि त्यजैनान्मुखमाप्नुहि ।
अखिलान्सिन्धुसौवीरानाप्नुहि त्वं मया सह ॥
वैशम्पायन उवाच ।

3.268.21

इत्युक्ता सिन्धुराजेन वाक्यं हृदयकम्पनम् ।
कृष्णा तस्मादपाक्रामद्देशात्सभ्रुकुटीमुखी ॥

3.268.22

अवमत्यास्य तद्वान्क्यमाक्षिप्य च सुमध्यमा ।
मैवमित्यब्रवीत्कृष्णा लज्जस्वेति च सैन्धवम् ॥

3.268.23

सा काङ्क्षमाणा भर्तृणामुपयातमनिन्दिता ।
विलम्बयामास परं वाक्यैर्वाक्यानि युञ्जती ॥
द्रैपद्युवाच ।

3.268.24

नैवं वद महाबाहो न्याय्यं त्वं न च मन्यसे ।
पाण्डूनां धार्तराष्ट्राणां स्वसा चैव कनीयसी ॥

3.268.25

दुश्शला नाम तस्यास्त्वं भर्ता राजकुलोद्वह ।
मम भ्राता च न्याय्येन त्वया रक्ष्या महारथ ॥

3.268.26

धर्मिष्ठानां कुले जातो न धर्मं त्वमवेक्षसे ।
इत्युक्तः सिन्धुराजोथ वाक्यमुत्तरमब्रवीत् ॥

3.268.27

राज्ञां धर्मं न जानीषे स्त्रियो रत्नानि चैव हि ।
साधारणानि लोकेऽस्मिन्प्रवदन्ति मनीषिणः ॥

3.268.28

स्वसा च स्वस्रिया चैव भ्रातृभार्या तथैव च । सुखं गृह्णन्ति राजानस्ताश्च तत्र नृपोद्भवाः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc