भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.262

3.262.1

महर्षेऽकार्यबुद्धिस्त्वं यः स्वर्गसुखमुत्तमम् ।
सम्प्राप्तं प्रतिपत्तव्यं विमृशस्यबुधो यथा ॥

3.262.2

उपरिष्टादयं लोको योऽयं स्वरिति सञ्ज्ञितः ।
ऊर्ध्वगः सत्पथः शश्वद्देवयानचरो मुने ॥

3.262.3

नातप्ततपसः पुंसो नामहायज्ञयाजिनः ।
नानृता नास्तिकाश्चैव तत्रगच्छन्ति मुद्गल ॥

3.262.4

धर्मात्मानो जितात्मानः शान्ता दान्ता विमत्सराः ।
दानधर्मरताः पुंसः शूराश्चाहितलक्षणाः ॥

3.262.5

तत्रगच्छन्ति धर्माग्र्यं कृत्वा शमदमात्मकम् ।
लोकान्पुण्यकृतां ब्रह्मन्सद्भिराचरितान्नृभिः ॥

3.262.6

देवाः साध्यास्तथा विश्वे तथैव च महर्षयः ।
यामा धामाश्च मौद्गल्य गन्धर्वाप्सरसस्तथा ॥

3.262.7

एषां देवनिकायानां पृथक््पृथगनेकशः ।
भास्वन्तः कामसम्पन्ना लोकास्तेजोमयाः शुभाः ॥

3.262.8

त्रयस्त्रिंशत्सहस्राणि योजनानि हिरण्मयः ।
मेरुः पर्वतराड्यत्रदेवोद्यानानि मुद्गल ॥

3.262.9

नन्दनान्यतिरम्याणि तत्रोद्यानानि मुद्गल ।
सर्वकामफलैर्वृक्षैः शोभितानि समन्ततः ॥

3.262.10

नन्दनादीनि पुण्यानि विहाराः पुण्यकर्मणाम् ।
न क्षुत्पिपासे न ग्लानिर्न शीतोष्णे भयं तथा ॥

3.262.11

बीभत्समशुभं वाऽपि रोगो वा तत्र कश्चन ।
मनोज्ञाः सर्वतो गन्धाः सुखस्पर्शाश्च सर्वशः ॥

3.262.12

शब्दाः श्रुतिमनोग्राह्याः सर्वतस्तत्रवै मुने ।
न शोको न जरा तत्र नायासपरिदेवने ॥

3.262.13

ईदृशः स मुने लोकः स्वकर्मफलहेतुकः ।
सुकृतैस्तत्रपुरुषाः सम्भवन्त्यात्मकर्मभिः ॥

3.262.14

तैजसानि शरीराणि भवन्त्य्रोपपद्यताम् ।
कर्मजान्येव मौद्गल्य न मातृपितृजान्युत ॥

3.262.15

रन संस्वेदो न दौर्गन्ध्यं पुरीषं मूत्रमेव च ।
तेषां न च रजोवस्त्रं बाधते तत्रवै मुने ॥

3.262.16

न म्लायन्ति स्रजस्तेषां दिव्यगन्धा मनोरमाः ।
समूह्यन्ते विमानैश्च ब्रह्मन्नेवंविधा हि ते ॥

3.262.17

ईर्ष्याशोकक्लमापेता मोहमात्सर्यवर्जिताः ।
सुखं संर्गजितस्तत्रवर्तयन्ते महामुने ॥

3.262.18

तेषां तथाविधानां तु लोकानां मुनिपुङ्गव ।
उपर्युपरि शक्रस् लोका दिव्या गुणान्विताः ॥

3.262.19

परतो ब्रह्मणस्तस्य लोकस्तेजोमयः शुभः ।
यत्र यान्त्यृषयो ब्रह्मन्पूताः स्वैः कर्मभिः शुभैः ॥

3.262.20

ऋभवो नाम तत्रान्ये देवानामपि देवताः ।
तेषां लोकाः परतरे यान्यजन्तीह देवताः ॥

3.262.21

स्वयम्प्रभास्ते भास्वन्तो लोकाः कामदुघाः परे ।
न तेषां स्त्रीकृतस्तापो न भोगैश्वर्यमत्सरः ॥

3.262.22

न वर्तयन्त्याहुतिभिस्ते नाप्यमृतभोजनाः ।
तथा दिव्यशरीरास्ते न च विग्रहमूर्तयः ॥

3.262.23

नासुखाः सुखकामास्ते देवदेवाः सनातनाः ।
न कल्पपरिवर्तेषु परिवर्तन्ति ते तथा ॥

3.262.24

रजरा मृत्युः कुतस्तेषां हर्षः प्रीतिः सुखं न च ।
न दुःखं न सुखं चापि रागद्वेषौ कुतो मुने ॥

3.262.25

देवानामपि मौद्गल्यकाङ्क्षिता सा गतिः परा ।
दुष्प्रापा परमा सिद्धिरगम्या कामगोचरैः ॥

3.262.26

त्रयस्त्रिंशदिमे लोकाः शेषा लोका मनीषिभिः ।
गम्यन्ते नियमैः श्रेष्ठैर्दानैर्वा विधिपूर्वकैः ॥

3.262.27

सेयं दानकृता व्युष्टिरनुप्राप्ता सुखं त्वया ।
तां रभुङ्क्ष्व सुकृतैर्लब्धां तपसा द्योतितप्रभः ॥

3.262.28

एतत्स्वर्गसुखं विप्र लोका नानाविधास्तथा ।
गुणाः स्वर्गस्य प्रोक्तास्ते दोषानपि निबोध मे ॥

3.262.29

कृस्य कर्मणस्तत्रभुज्यते यत्फलं दिवि ।
न चान्त्क्रियते कर्म मूलच्छेदेन भुज्यते ॥

3.262.30

सोऽत्रदोषो मम मतस्तस्यान्ते पतनं च यत् ।
सुखव्याप्तमनस्कानां पतनं यच्च मुद्गल ॥

3.262.31

असन्तोषः परीतापो दृष्ट्वा दीप्ततराः श्रियः ।
यद्भवत्यवरे स्थाने स्थितानां तत्सुदुष्करम् ॥

3.262.32

सञ्ज्ञामोहश्चपततां रजसा च प्रधर्षणम् ।
प्रम्लानेषु च माल्येषु ततः पिपतिषोर्भयम् ॥

3.262.33

आब्रह्मभवनादेते दोषा मौद्गल्य दारुणाः ।
नाकलोकेसुकृतिनां गुणास्त्वयुतशो नृणाम् ॥

3.262.34

अयं त्वन्यो गुणः श्रेष्ठश्च्युतानां स्वर्गतो मुने ।
शुभानुशययोगेन मनुष्येषूपजायते ॥

3.262.35

तत्रापि स महाभागः कुले महति जायते ।
न चेत्सम्बुध्यते तत्रगच्छत्यधमतां ततः ॥

3.262.36

इह यत्क्रियते कर्म तत्परत्रोपभुज्यते ।
कर्मभूमिरियं ब्रह्मन्फलभूमिरसौ मता ॥
[मुद्गल उवाच ।

3.262.37

महान्तस्तु अमी दोपास्त्वया स्वर्गस्य कीर्तिताः ।
निर्दोष एव यस्त्यन्यो लोकं तं प्रवदस्व मे ॥
देवदूत उवाच ।

3.262.38

ब्रह्मणः सदनादूर्ध्वं तद्विष्णोः परमं पदम् ।
शुद्धं सनातनं ज्योतिः परं ब्रह्मेति यद्विदुः ॥

3.262.39

न तत्रविप्र गच्छन्ति पुरुषा विषयात्मकाः ।
दम्भलोभमहाक्रोधमोहद्रोहैरभिद्रुताः ॥

3.262.40

निर्ममा निरहन्कारा निर्द्विन्द्वाः संयतेन्द्रियाः । ध्यानयोगपराश्चैव तत्रगच्छन्ति मानवाः ॥ ]

3.262.41

एतत्ते सर्वमाख्यतं यन्मां पृच्छसि मुद्गल ।
तवानुकम्पया साधो साधु गच्छाम माचिरम् ॥
व्यास उवाच ।

3.262.42

एतच्छ्रुत्वा तु मौद्गल्यो वाक्यं विममृशे धिया ।
विमृश्य च मुनिश्रेष्ठो देवदूतमुवाचह ॥

3.262.43

देवदूत नमस्तेऽम्तु गच्छ तात यथासुखम् ।
महादोषेण मे कार्यं न स्वर्गेण सुखेन चा ॥

3.262.44

पतनान्ते महादुःखं परितापः सुदारुणः ।
स्वर्गभाजः पतन्तीह तस्मात्स्वर्गं न कामये ॥

3.262.45

यत्रगत्वान शोचन्ति न व्यथन्तिचलन्ति वा ।
तदहं स्थानमत्यन्तं मार्गयिष्यामि केवलम् ॥

3.262.46

इत्युक्त्वा स मुनिर्वाक्यं देवदूतंविसृज्य तम् ।
शिलोञ्छवृत्तिमुत्सृज्य शममातिष्ठदुत्तमम् ॥

3.262.47

तुल्यनिन्दास्तुतिर्भूत्वासमलोष्टाश्मकाञ्चनः ।
ज्ञानयोगेन शुद्धेन ध्याननित्यो बभूव ह ॥

3.262.48

निगृहीतेन्द्रियग्रामः समयोजयदात्मनि ।
युक्तचित्तं यथाऽत्मानं युयोज परमेश्वरे ॥

3.262.49

ध्यानयोगाद्बलं लब्ध्वा प्राप्य बुद्धिमनुत्तमाम् ।
जगाम शाश्वतीं सिद्धिं परां निर्वाणलक्षणाम् ॥

3.262.50

तस्मात्त्वमपिकौन्तेय न शोकं कर्तुमर्हसि ।
राज्यात्स्फीतात्परिभ्रष्टस्तपसा तदवाप्स्यसि ॥

3.262.51

सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।
पर्यायेणोपसर्पन्ते नरं नेमिमरा इव ॥

3.262.52

पितृपैतामहं राज्यम्प्राप्स्यस्यमितविक्रम ।
वर्षात्रयोदशादूर्ध्वंव्येतु ते मानसो ज्वरः ॥
वैशम्पायन उवाच ।

3.262.53

स एवमुक्त्वाभगवान्व्यासः पाण्डवनन्दनम् । जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc