भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.261

3.261.1

व्रीहिद्रोणः परित्यक्तः कथं तेन महात्मना ।
कस्मै दत्तश्च भगवन्विधिना केन चात्थ मे ॥

3.261.2

प्रत्यक्षधर्मा भगवान्यस् तुष्टो हि कर्मभिः ।
सफलं तस्य जन्माहं मन्ये सद्धर्मचारिणः ॥
व्यास उवाच ।

3.261.3

शिलोञ्छवृत्तिर्धर्मात्मा मुद्गलः संयतेन्द्रियः ।
आसीद्राजन्कुरुक्षेत्रे सत्यवागनसूयकः ॥

3.261.4

अतिथिव्रती क्रियावांश्च कापोतीं वृत्तिमास्थितः ।
सत्रमिष्टीकृतन्नाम समुपास्ते महातपाः ॥

3.261.5

सपुत्रदारो हि मुनिः पक्षाहारो बभूव ह ।
कपोतवृत्त्या पक्षेण व्रीहिद्रोयणमुपार्जयत् ॥

3.261.6

दर्शं च पौर्णमासं च कुर्वन्विगतमन्सरः ।
देवतातिथिशेषेण कुरुते देहयापनम् ॥

3.261.7

तत्रेन्द्रः सहितो देवैः साक्षात्रिभुवनेश्वरः ।
प्रत्यृह्णान्महाराज भागं पर्वणिपर्वणि ॥

3.261.8

स पर्वकाल्यं कृत्वा तु मुनिवृत्त्या समन्वितः ।
अतिथिभ्यो ददावन्नं प्रहृष्टेनान्तरात्मना ॥

3.261.9

व्रीहिद्रोणस्य तत्प्रीत्या ददतोऽन्नं महात्मनः ।
ऋषेर्मात्सर्यहीनस् वर्धत्यतिथिदर्शनात् ॥

3.261.10

तच्छतान्यपि भुञ्जन्ति ब्राह्मणानां मनीषिणाम् ।
मुनेस्त्यागविशुद्ध्या तु तदन्नं वृद्धिमृच्छति ॥

3.261.11

तं तु रशुश्राव धर्मिष्ठं मुद्गलं संशितव्रतम् ।
दुर्वासा नृप दिग्वासास्तमथाभ्याजगाम ह ॥

3.261.12

विभ्रच्चानियतं वेषमुन्मत्त इव पाण्डव ।
विकचः परुषा वाचो व्याहरन्विविधा मुनिः ॥

3.261.13

अभिगम्याथ तं विप्रमुवाच मुनिसत्तमः ।
अन्नार्थिनमनुप्राप्तं विद्धि मां मुनिसत्तम ॥

3.261.14

स्वागतं तेऽस्त्विति मुनिं मुद्गलः प्रत्यभाषत ।
पाद्यमाचमनीयं च प्रतिवेद्यान्नमुत्तमम् ॥

3.261.15

प्रादात्स तपसोपात्तं क्षुधितायातिथिप्रियः ।
उन्मत्ताय परां श्रद्धामास्थाय स धृतव्रतः ॥

3.261.16

ततस्तदन्नं रसवत्स एव क्षुधयाऽन्वितः ।
बुभुजे कृत्स्नमुन्मत्तः प्रादात्तस्मै च मुद्गलः ॥

3.261.17

भुक्त्वा चान्नं ततः सर्वमुच्छिष्टेनात्मनस्ततः ।
अथाङ्गं लिलिपेऽन्नेन यथागतमगाच्च सः ॥

3.261.18

तेनैवात्मानमालिप्य हसन्गायन्प्रधावति ।
नृत्यते धावते चैव बुद्ध्या तत्क्रोशते तथा ॥

3.261.19

एवं द्वितीये सम्प्राप्ते पर्वकाले मनीषिणः ।
आगम्य बुभुजे सर्वमन्नपुञ्छोपजीविनः ॥

3.261.20

निराहारस्तु स मुनिरुञ्छमार्जये पुनः ।
न चैनं विक्रियां नेतुमशकन्मुद्गलं क्षुधा ॥

3.261.21

न क्रोधो न च मात्सर्यं नावमानो न सम्भ्रमः ।
सपुत्रदारमुञ्छन्तमाविवेश द्विजोत्तमम् ॥

3.261.22

तथा तमुञ्छधर्माणं दुर्वासा मुनिसत्तमम् ।
उपतस्थे यथाकालं षट्कृत्वः कृतनिश्चयः ॥

3.261.23

न चास् मनसः कश्चिद्विकारो दृश्यते मुनेः ।
शुद्धसत्वस्य शुद्धं स ददृशे निर्मलं मनः ॥

3.261.24

तमुवाच ततः प्रीतः स मुनिर्मुद्गलं तदा ।
त्वत्समो नास्ति लोकेऽस्मिन्दाता मात्सर्यवर्जितः ॥

3.261.25

क्षुद्धर्मसञ्ज्ञां प्रणुदत्यादत्ते धैर्यमेव च ।
विषयानुसारिणी जिह्वा कर्षत्येव रसान्प्रति ॥

3.261.26

आहारप्रभवाः प्राणा मनो दुर्निग्रहं चलम् ।
मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं निश्चितं तपः ॥

3.261.27

श्रमेणोपार्जितं त्यक्तं न च दुःखेन चेतसा ।
तत्सर्वं भवता साधो यथावदुपपादितम् ॥

3.261.28

प्रीताः स्मोऽनुगृहीताश्च समेत्य भवता सह । इन्द्रियाभिजयो धैर्यं संविभागो दमः शमः ।
दया सत्यं च धर्मश्च त्वयि सर्वं प्रतिष्ठितम् ॥

3.261.29

लोकाः समस्ता धर्मेण धार्यन्ते सचराचराः ।
धर्मोपि धार्यते येन धृतियुक्त त्वयाऽत्मना ॥

3.261.30

विशुद्धसत्वसम्पन्नो न त्वदन्योस्ति कश्चन ।
जितास्ते कर्मभिर्लोकाः प्राप्तोसि परमां गतिम् ॥

3.261.31

अहो दानं विघुष्टं ते सुमहत्स्वर्गवासिभिः ।
सशरीरो भवान्गन्ता स्वर्गं सुचरितव्रत ॥

3.261.32

इत्येवं वदतस्तस्य तदा दुर्वाससो मुनेः ।
देवदूतो विमानेन मुद्गलं प्रत्युपस्थितः ॥

3.261.33

हंससारसयुक्तेन किङ्किणीजालमालिना ।
कामगेन विचित्रेण दिव्यगन्धवता तथा ॥

3.261.34

उवाच चैनं विप्रर्षिं विमानं कर्मभिर्जितम् ।
समुपारोह संसिद्धिं प्राप्तोसि परमां मुने ॥

3.261.35

तमेवंवादिनमृषिर्देवदूतमुवाच ह ।
इच्छामि भवता प्रोक्तान्गुणान्स्वर्गनिवासिनां ॥

3.261.36

के गुणास्तत्रवसतां किं तपः कश्च निश्चयः ।
स्वर्गे तत्रसुखं किं च दोषो वा देवदूतक ॥

3.261.37

सतां साप्तपदं मित्रमाहुः सन्तः कुलोचिताः ।
मित्रतां च पुरस्कृत्य पृच्छामि त्वामहं विभो ॥

3.261.38

यदत्र तथ्यं पथ्यं च तद्ब्रवीह्यविचारयन् । श्रुत्वा तथा करिष्यामि व्यवसायं गिरा तव ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc