भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.263

3.263.1

वसत्स्वेवं वने तेषु पाण्डवेषु महात्मसु ।
रममाणएषु चित्राबिः कथाभिर्मुनिभिः सह ॥

3.263.2

सूर्यदत्ताक्षयान्नेन कृष्णाया भोजनावधि । ब्राह्मणांस्तर्पमाणेषु ये चान्नार्थमुपागताः ।
आरण्यानां मृगाणां च मांसैर्नानाविधैरपि ॥

3.263.3

धार्तराष्ट्रा दुरात्मानः सर्वे दुर्योधनादयः ।
कथं तेष्वन्ववर्तन्त पापाचारा महामुने ॥

3.263.4

दःशासनस्य कर्णस्य शकुनेश्च मते स्थिताः ।
एतदाचक्ष्व भगवन्वैशम्पायन पृच्छतः ॥
वैशम्पायन उवाच ।

3.263.5

श्रुत्वा तेषां तथा वृत्तिं नगरे वसतामिव ।
दुर्योधनो महाराज तेषु पापमरोचयत् ॥

3.263.6

तथा तैर्निकृतिप्रज्ञैः कर्णदुःशासनादिभिः ।
नानोपायैरधं तेषु चिन्तयत्सु दुरात्मसु ॥

3.263.7

अभ्यागच्छत्स धर्मात्मा तपस्वी कसुमहायशाः ।
शिष्यायुतसमोपेतो दुर्वासा नाम कामतः ॥

3.263.8

तमागतमभिप्रेक्ष्य मुनिं परमकोपनम् ।
सहितो भ्रातृभिः श्रीमानातिथ्येन न्यमन्त्रयत् ॥

3.263.9

विधिवत्पूजयामास स्वयं किन्करवत्स्थितः ।
अहानि कतिचित्तत्र तस्थौ स मुनिसत्तमः ॥

3.263.10

तं च पर्यचरद्राजा दिवारात्रमतन्द्रितः ।
दुर्योधनो महाराज शापात्तस्य विशङ्कितः ॥

3.263.11

क्षुधितोऽस्मि ददस्वान्नं शीघ्रं मम नराधिप ।
इत्युक्त्वा गच्छति स्नातुं प्र्यागच्चति वै चिरात् ॥

3.263.12

न भोक्ष्याम्यद्यमे नास्ति क्षुधेत्युक्त्वैत्यदर्शनम् ।
अकस्मादेत्य च ब्रूते भोजनयास्मांस्त्वरान्वितः ॥

3.263.13

कदाचिच्च निशीथे स उत्थाय निकृतौ स्थितः ।
पूर्ववत्कारयित्वाऽन्नं न भुङ्क्ते गर्हयन्स्म सः ॥

3.263.14

वर्तमाने तथा तस्मिन्यदा दुर्योधनो नृपः ।
विकृतिं नैति न क्रोधं तदा तुष्टोऽभवन्मुनिः ॥

3.263.15

आहचैनं दुराधर्षो वरदोऽस्मीति भारत ॥

3.263.16

वरं वरय भद्रं ते यत्ते मनसि वर्तते ।
मयि प्रीते तु यद्धर्म्यं नालभ्यं विद्यते तव ॥
वैशम्पायन उवाच ।

3.263.17

एतच्छ्रुत्वा वचस्तस्य महर्षेर्भावितात्मनः ।
अमन्यत पुनर्जातमात्मानं स सुयोधनः ॥

3.263.18

प्रागेव मन्त्रितं चासीत्कर्णदुःशासनादिभिः ।
याचनीयं मुनेस्तुष्टादिति निश्चित्य दुर्मतिः ॥

3.263.19

अतिहर्षान्वितो राजन्वरमेनमयाचत ।
शिष्यैः सह मम ब्रह्मन्यथा जातोऽतिथिर्भवान् ॥

3.263.20

अस्मत्कुले महाराजो ज्येष्ठः श्रेष्ठो युधिष्ठिरः । वने वसति धर्मात्मा भ्रातृभिः परिवारितः ।
गुणवाञ्शीलसम्पन्नस्तस्य त्वमतिथिर्भव ॥

3.263.21

यदा च राजपुत्री सा सुकुमारी यशस्विनी ।
भोजयित्वा द्विजान्सर्वान्पतींश्च वरवर्णिनी ॥

3.263.22

विश्रान्ता च स्वयं भुक्त्वा सुखासीना भवेद्यदा ।
तदा त्वं तत्रगच्छेथा यद्यनुग्राह्यता मयि ॥

3.263.23

तथा करिष्ये त्वत्प्रीत्येत्येवमुक्त्वा सुयोधनम् ।
दुर्वासा अपिविप्रेन्द्रो यथागतमगात्ततः ॥

3.263.24

कृतार्थमपि चात्मानं तदा मेने सुयोधनः ।
करेण च करं गृह्य कर्णस्य मुदितो भृशम् ॥

3.263.25

कर्णोपि भ्रातृसहितमित्युवाच नृपं मुदा । दुष्ट्या कामः सुसंवृत्तोदिष्ट्या कौरव वर्धसे ।
दिष्ट्या ते शत्रवो मग्ना दुस्तरे व्यसनार्णवे ॥

3.263.26

दुर्वासःक्रोधजे वह्नौ पतिताः पाण्डुनन्दनाः ।
स्वैरेव ते महापापैर्गता वै दुस्तरं तमः ॥
वैशम्पायु उवाच ।

3.263.27

इत्थं ते निकृतिप्रज्ञा राजन्दुर्योधनादयः । हसन्तः प्रीतमनसो जग्मुः स्वंस्वं निकेतनम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc