भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.260

3.260.1

वने निवसतां तेषां पाण्डवानां महात्मनाम् ।
वर्षाण्येकादशातीयुः कृच्छ्रेण भरतर्षभ ॥

3.260.2

फलमूलाशनास्ते हि सुखार्हा दुःखमुत्तमम् ।
प्राप्तकालमनुध्यान्तः सेहिरे वरपूरुषाः ॥

3.260.3

युधिष्ठिरस्तु राजर्षिरात्मकर्मापराधजम् ।
चिन्तयन्स महाबाहुर्भ्रातॄणां दुःखमुत्तमम् ॥

3.260.4

न सुष्वाप सुखं राजा हृदि शल्यैरिवार्पितैः ।
दौरात्म्यमनुपश्यंस्तत्काले द्यूतोद्भवस्य हि ॥

3.260.5

संस्मरन्परुषा वाचः सूतपुत्रस्य पाण्डवः ।
निःश्वासपरमो दीनो दध्रे कोपविषं महत् ॥

3.260.6

अर्जुनोयमजौ चोभौ द्रौपदी च यशस्विनी ।
स च भीमो महातेजाः सर्वेषामुत्तमो बले ॥

3.260.7

चिरस्य जातं धर्मज्ञं सासूयमिव ते तदा ।
युधिष्ठिरमुदीक्षन्तः सेहुर्दुखमनुत्तमम् ॥

3.260.8

अवशिष्टं त्वल्पकालं मन्वानाः पुरुषर्षभाः ।
वपुरन्यदिवाकार्पुरुत्साहामर्षचेष्टितैः ॥

3.260.9

कस्यचित्त्वथ कालस्य व्यासः सत्यवतीसुतः ।
आजगाम महायोगी पाण्डवानवलोककः ॥

3.260.10

तमागतमभिप्रेक्ष्यकुन्तीपुत्रो युधिष्ठिरः ।
प्रत्युद्गम्य महात्मानं प्रत्यगृह्णाद्यथाविधि ॥

3.260.11

तमासीनमुपासीनः शुश्रूषुर्नियतेन्द्रियः ।
तोषयामास शौचेन व्यासं पाण्डवनन्दनः ॥

3.260.12

तानवेक्ष्यकृशान्पौत्रान्वने वन्येन जीवतः ।
महर्षिरनुकम्पार्थमब्रवीद्बाष्पगद्गदम् ॥

3.260.13

युधिष्ठिर महाबाहो शृणु धर्मभृतांवर । नातप्ततपसो लोके प्राप्नुवन्ति महत्सुखम् ।
सुखदुःखे हि पुरुषः पर्यायेणोपसेवते ॥

3.260.14

नात्यन्तमसुखं कश्चित्प्राप्नोति पुरुषर्षभ ।
प्रज्ञावांस्त्वेव पुरुषः संयुक्तः परया धिया ॥

3.260.15

उदयास्तमयज्ञो हि न हृष्यति न शोचति ।
सुखमापतितं विन्दन्दुःखमापतितं सहन् ॥

3.260.16

कालप्राप्तमुपासीत सस्यानामिव कर्षकः ।
तपसो हि परं नास्ति तपसा विन्दते महत् ॥

3.260.17

नासाध्यं तपसः किञ्चिदिति बुध्यस् भारत ।
सत्यमार्जवमक्रोधः संविभागो दमः शमः ॥

3.260.18

अनसूयाऽविहिंसा च शौचमिन्द्रियसंयमः ।
साधनानि महाराज नराणां पुण्यकर्मणाम् ॥

3.260.19

अधर्मरुचयो मूढास्तिर्यग्गतिपरायणाः ।
कृच्छ्रां योनिमनुप्राप्ता न सुखं विन्दते अनाः ॥

3.260.20

इह यत्क्रियते कर्म तत्परत्रोपभुज्यते । मूलसिक्तस्य वृक्षस्य फलं शाखासु दृश्यते ।
तस्माच्छरीरं युञ्जीत तपसा नियमेन च ॥

3.260.21

यथाशक्ति प्रयच्छेत सम्पूज्याभिप्रणम्य च ।
काले प्राप्ते च हृष्टात्मा राजन्विगतमत्सरः ॥

3.260.22

सत्यवादी लभेतायुरनायासमथार्जवम् ।
अक्रोधनोऽनसूयश्च निर्वृतिं लभते पराम् ॥

3.260.23

दान्तः शमपरः शश्वत्परिक्लेशं न विन्दति ।
न च तप्यति दान्तात्मा दृष्ट्वा परगतां श्रियम् ॥

3.260.24

संविभक्ता च दाता च भोगवान्सुखवान्नरः ।
भवत्यहिंसकश्चैव परमारोग्यमश्नुते ॥

3.260.25

मान्यं मानयिता जन्म कुले महति विन्दति । विन्दते सुखमत्यर्थमिह लोके परत्र च ।
व्यसनैर्न तुसंयोगं प्राप्नोति विजितेन्द्रियः ॥

3.260.26

शुभानुशयबुद्धिर्हि संयुक्तः कालधर्मणा ।
प्रादुर्भवति तद्योगात्कल्याणमतिरेव सः ॥
युधिष्ठिर उवाच ।

3.260.27

भगवन्दानधर्माणआं तपसो वा महामुने ।
किंस्विद्बहुगुणं प्रेत्य किं वा दुष्करमुच्यते ॥
व्यास उवाच ।

3.260.28

दानान्न दुष्करं तात पृथिव्यामस्ति किञ्चन ।
अर्थे च महती तृष्णा स च दुःखेन लभ्यते ॥

3.260.29

राजन्प्रत्यक्षमेवैतद्दृश्यते लोकसाक्षिकम् । परित्यज्य प्रियान्प्राणान्प्रविशन्ति रणाजिरम् ।
तथैव प्रतिपद्यन्ते समुद्रमटवीं तथा ॥

3.260.30

कृषिगोरक्ष्यमित्येके प्रतिपद्यन्ति मानवाः ।
पुरुषाः प्रेष्यतामेके निर्गच्छन्ति धनार्थिनः ॥

3.260.31

तस्माद्दुःखार्जितस्यैव परित्यागः सुदुष्करः ।
सुदुष्करतरं दानं तस्माद्दानं मतं मम ॥

3.260.32

विसेषस्त्वत्र विज्ञेयो न्यायेनोपार्जितं धनम् ।
पात्रे काले च देशे च प्रयतः प्रतिपादयेत् ॥

3.260.33

अन्यायात्समुपात्तेन दानधर्मौ धनन यः ।
कुरुते न स कर्तारं त्रायते महतो भयात् ॥

3.260.34

पात्रे दानं स्वल्पमपि काले दत्तं युधिष्ठिर ।
मनसा हि विशुद्धेन प्रेत्यानन्तफलं स्मृतम् ॥

3.260.35

श्रद्धा धर्मानुगा देवी पावनी विश्वधारिणी । सवित्री प्रसवित्री च संसारार्णवतारिणी ॥

3.260.36

श्रद्धया धार्यते धर्मो महद्भिर्नार्थदर्शिभिः ।
सधना अपिराजानो निःश्रद्धा नरकं गताः ॥

3.260.37

निष्किञ्चनाश्च मुनयः श्रद्धावन्तो दिवं गताः । देशे काले च पात्रे च मुद्गलः श्रद्धयाऽन्वितः ।
व्रीहिद्रोणं प्रदायाथ परं पदमवाप्तवान् ॥

3.260.38

अत्राप्युदाहरन्तीमतिहासं पुरातनम् । व्रीहिद्रोणपरित्यागाद्यत्फलं प्राप मुद्गलः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc