भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.259

3.259.1

दुर्योधनं मोक्षयित्वा पाण्डुपुत्रा महाबलाः ।
किमकार्षुर्वने तस्मिंस्तन्ममाख्यातुमर्हसि ॥
वैशम्पायन उवाच ।

3.259.2

ततः शयानं कौन्तेयं रात्रौ द्वैतवन मृगाः ।
स्वप्नान्ते दर्शयामासुर्बाष्पकण्ठा युधिष्ठिरम् ॥

3.259.3

तानब्रवीत्स राजेन्द्रो वेपमानान्कृताञ्जलीन् ।
ब्रूत यद्वक्तुकामाः स्थ के भवन्तः किमिष्यते ॥

3.259.4

एवमुक्ताः पाण्डवेन कौन्तेयेन यशस्विना ।
प्रत्यब्रुवन्मृगास्तत्रहतशेषा युधिष्ठिरम् ॥

3.259.5

वयं मृगा द्वैतवने हतशिष्टास्तु भारत ।
नोत्सीदेम महाराज क्रियतां वासपर्ययः ॥

3.259.6

भवन्तो भ्रातरः शूराः सर्व एवास्त्रकोविदाः ।
कुलान्यल्पावशिष्टानि कृतवन्तो वनौकसाम् ॥

3.259.7

बीजभूता वयं केचिदवशिष्टा महामते ।
विवर्धेमहि राजेन्द्र प्रसादात्ते युधिष्ठिर ॥

3.259.8

तान्वेपमानान्वित्रस्तान्बीजमात्रावशेषितान् ।
मृगान्दृष्ट्वा सुदुःखार्तो धर्मराजो युधिष्ठिरः ॥

3.259.9

तांस्तथेत्यब्रवीद्राजा सर्वभूतहिते रतः ।
यथा भवन्तो ब्रुवते करिष्यामि च तत्तथा ॥

3.259.10

इत्येवं प्रतिबुद्धः स रात्र्यन्ते राजसत्तमः ।
अब्रवीत्सहितान्भ्रातॄन्दयापन्नो मृगान्प्रति ॥

3.259.11

उक्तो रात्रौ मृगैरस्मि स्वप्नान्ते हतशेषितैः ।
तनुभूताः स्म भद्रं ते दया नः क्रियतामिति ॥

3.259.12

ते सत्यमाहुः कर्तव्या दयाऽस्माभिर्वनौकसाम् ।
साष्टमासं हि नो वर्षं यदेनानुपयुन्क्ष्महे ॥

3.259.13

पुनर्वहुमृगं रम्यं काम्यकं काननोत्तमम् ।
तत्रेमां वसतिं शिष्टां विहरन्तो रमेमहि ॥
वैशम्पायन उवाच ।

3.259.14

ततस्ते पाण्डवाः शीघ्रं प्रययुर्धर्मकोविदाः ॥

3.259.15

ब्राह्मणैः सहिता राजन्ये च तत्रसहोषिताः ।
इन्द्रसेनादिभिश्चैव प्रेष्यैरनुगतास्तदा ॥

3.259.16

ते यात्वा सुसुखैर्मार्गैः स्वन्नैः शुचिजलान्वितैः ।
ददृशुः काम्यकं पुण्यमाश्रमं तापसान्वितम् ॥

3.259.17

विविशुस्ते स्म कौरव्या वृता विप्रर्षभैस्तदा । तद्वनं भरतश्रेष्ठाः स्वर्गं सुकृतिनो यथा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc