भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.258

3.258.1

प्रविशन्तं महाराज सूतास्तुष्टुवुरच्युतम् ।
जनाश्चापि महेष्वासं तुष्टुवू राजसत्तमम् ॥

3.258.2

लाजैश्चन्दनचूर्णैश्च विकीर्य च जनास्ततः ।
ऊटुर्दिष्ट्या नृपाविघ्नः समाप्तोयं क्रतुस्तव ॥

3.258.3

अपरे त्वब्रुवंस्तत्रवादिकास्तं महीपतिम् ।
यौधिष्ठिरस्य यज्ञस्य न समो ह्येष ते क्रतुः ॥

3.258.4

नैव तस्य क्रतोरेष कलामर्हति षोडशीम् ।
एवं तत्राब्रुवन्केचिद्वातिकास्तं जनेश्वरम् ॥

3.258.5

सुहृदस्त्वब्रुवंस्तत्र अति सर्वानयं क्रतुः ।
प्रवर्तितो ह्ययं राज्ञा धार्तराष्ट्रेण धीमता ॥

3.258.6

ययातिर्नहुषश्चापि मान्धाता भरतस्तथा ।
क्रतुमेनं समाहृत्य पूताः सर्वे दिवं गताः ॥

3.258.7

एता वाचः शुभाः शृण्वन्सुहृदां भरतर्षभ ।
प्रविवेश पुरं हृष्टः स्ववेश्म च नराधिपः ॥

3.258.8

अभिवाद्य ततः पादान्मतापित्रोर्विशाम्पते ।
भीष्मद्रोणकृपादीनां विदुरस्य च धीमतः ॥

3.258.9

अभिवादितः कनीयोभिर्भ्रातृभिर्भ्रातृनन्दनः ।
निषसादासने मुख्ये भ्रातृभिः परिवारितः ॥

3.258.10

तमुत्थाय महाराजं सूतपुत्रोऽब्रवीद्वचः ।
दिष्ट्या ते भरतश्रेष्ठ समाप्तोऽयं महाक्रतुः ॥

3.258.11

हतेषु युधि पार्थेषु राजसूये तथा त्वया ।
आहृतेऽहं नरश्रेष्ठ त्वां सभाजयिता पुनः ॥

3.258.12

तमब्रवीन्महाराजो धार्तराष्ट्रो महायशाः ।

3.258.13

सत्यमेतत्त्वयोक्तं हि पाण्डवेषु दुरात्मसु । निहतेषु नरश्रेष्ठ प्राप्ते चापि महाक्रतौ ।
राजसूये पुनर्वीर त्वमेवं वर्धयिष्यसि ॥

3.258.14

एवमुक्त्वा महाराज कर्णमाश्लिष्य भारत ।
राजसूयं क्रतुश्रेष्ठं चिन्तयामास कौरवः ॥

3.258.15

सोऽब्रवीत्कौरवांश्चापि पार्श्वस्थान्नृपसत्तमः ।
राधेयसौबलादीन्वै धार्तराष्ट्रो महीपतिः ॥

3.258.16

कदा तु तं क्रतुवरं राजसूयं महाधनम् ।
निहत्य पाण्डवान्सर्वानाहरिष्यामि कौरवाः ॥

3.258.17

तमब्रवीत्तदा कर्णः शृणु मे राजकुञ्जर ।
पादौ न धावये तावद्यावन्न निहतोऽर्जुनः ॥

3.258.18

कीलालजं न खादेयं करिष्ये चासुरव्रतम् ।
नास्तीति नैव वक्ष्यामि याचितो येन केचनित् ॥

3.258.19

अथोत्क्रुष्टं महेष्वासैर्धार्तराष्ट्रैर्महारथैः ।
प्रतिज्ञाते फल्गुनस्य वधे कर्णेन संयुगे ॥

3.258.20

विजितांश्चाप्यमन्यन्त पाण्डवान्धृतराष्ट्रजाः ।
तदा प्रतिज्ञामारुह्य सूतपुत्रेण भाषिते ॥

3.258.21

दूर्योधनोऽपि राजेन्द्र विसृज्यनरपुङ्गवान् ।
प्रविवेश गृहंश्रीमान्यथा चैत्ररथं प्रभुः ॥

3.258.22

तेऽपिसर्वे महेष्वासा जग्मुर्वेश्मानि भारत ।
स्वानिस्वनि महाराज भीष्मद्रोणादयो नृपा ॥

3.258.23

पाण्डवाश्च महेष्वासा दूतवाक्यप्रचोदिताः ।
चिन्तयन्तस्तमेवार्थं नालभन्त सुखं क्वचित् ॥

3.258.24

भूयश्च चारै राजेन्द्र प्रवृत्तिरुपपादिता ।
प्रतिज्ञा सूतपुतर्स्य विजयस्य वधं प्रति ॥

3.258.25

एतच्छ्रुत्वा धर्मसुतः समुद्विग्नो नराधिप ।
अधोमुखश्चिरं तस्थौ किं कार्यमिति चिन्तयन् ॥

3.258.26

अभेद्यकवचं मत्वा कर्णमद्भुतविक्रमम् ।
अनुस्मरंश् सन्क्लेशान्न शान्तिमुपजग्मिवान् ॥

3.258.27

तस्य चिन्तापरीतस्य बुद्धिर्जज्ञे महात्मनः ।
बहुव्यालमृगाकीर्णं त्यक्तुं द्वैतवनं वनम् ॥

3.258.28

धार्तराष्ट्रोऽपि नृपतिः प्रशशास वसुन्धराम् ।
भ्रातृभिः सहितो वीरैर्भीष्मद्रोणकृपैस्तथा ॥

3.258.29

सन्गम्य सूतपुत्रेण कर्णेनाहवशोभिना ।
सततं प्रीयमाणो वै देविना सौबलेन च ॥

3.258.30

दुर्योधनः प्रिये नित्यं वर्तमानो महीभृताम् ।
पूजयामास विप्रेन्द्रान्क्रतुभिर्भूरिदक्षिणैः ॥

3.258.31

भ्रातॄणां च प्रियं राजन्स चकार परन्तपः । निश्चित्य मनसा वीरो दत्तभुक्तफलं धनम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc