भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.249

3.249.1

अजानतस्ते राधेय नाभ्यसूयाम्यहं वचः ।
जानासि त्वं जिताञ्शत्रून्गन्धर्वां स्तेजसा मया ॥

3.249.2

आयोधितास्तु गन्धर्वाः सुचिरं सोदरैर्मम ।
मया सह महाबाहो कृतश्चोभयतः क्षयः ॥

3.249.3

मायाधिकास्त्वयुध्यन्त यदा शूरा वियद्गताः ।
तदा नो न समं युद्धमभवत्खेचरैः सह ॥

3.249.4

पराजयं च प्राप्ताः स्मो रणे बन्धनमेव च । सभृत्यामात्यपुत्राश्च सदारबलवाहनाः ।
उच्चैराकाशमार्गेण ह्रियमाणाः सुदुःखिताः ॥

3.249.5

अथ नः सैनिकाः केचिदमात्याश्च महारथाः ।
उपगम्याब्रुवन्दीनाः पाण्डवाञ्शरणप्रदान् ॥

3.249.6

एष दुर्योधनो राजा धार्तराष्ट्रः सहानुजः ।
सामात्यदारो ह्रियते गन्धर्वैर्दिवमाश्रितैः ॥

3.249.7

तं मोक्षयत भद्रं वः सहदारं नराधिपम् । परामर्शो मा भविष्यत्कुरुदारेषु सर्वशः ।
इत्यब्रुवन्रणआन्मुक्ता धर्मराजमुपागताः ॥

3.249.8

एवमुक्ते तु धर्मात्मा ज्येष्ठः पाण्डुसुतस्तदा ।
प्रसाद्य सोदरान्सर्वानाज्ञापयत मोक्षणे ॥

3.249.9

अथागम्य तमुद्देशं पाण्डवाः पुरुषर्षभाः ।
सान्त्वपूर्वमयाचन्त शक्ताः सन्तो महारथाः ॥

3.249.10

यदा चास्मान्न मुमुचुर्गन्धर्वाः सान्त्विता अपि ।
आकाशचारिणो वीरा नदन्तो जलदा इव ॥

3.249.11

ततोऽर्जुनश्च भीमश्च यमजौ च बलोत्कटौ ।
मुमुचुः शरवर्षाणि गन्धर्वान्प्रत्यनेकशः ॥

3.249.12

अथ सर्वे रणं मुक्त्वा प्रयाताः खेचरा दिवम् ।
अस्मानेवाभिकर्षन्तो दीनान्मुदितमानसाः ॥

3.249.13

ततः समन्तात्पश्यामः शरजालेन वेष्टितम् ।
अमानुषाणि चास्त्राणि प्रयुञ्जानं घनञ्जयम् ॥

3.249.14

समावृता दिशो दृष्ट्वा पाण्डवेन शितैः शरैः ।
धनञ्जयसखाऽत्मानं दर्शयामास वै तदा ॥

3.249.15

चित्रसेनः पाण्डवेन समाश्लिष्य परस्परम् ।
कुशलं परिपप्रच्छ तैः पृष्टश्चाप्यनामयम् ॥

3.249.16

ते समेत्य तथाऽन्योन्यं सन्नाहान्विप्रमुच्य च ।
एकीभूतास्ततो वीरा गन्धर्वाः सह पाण्डवैः ॥

3.249.17

परस्परं समागम्य प्रीत्या परमया युतौ । अपूजयेतामन्योन्यं चित्रसेनधनञ्जयौ ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc