भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.248

3.248.1

शत्रुभिर्जितबद्धस् पाण्डवैश्च महात्मभिः ।
मोक्षितस्य युधा पश्चान्मानिनः सुदुरात्मनः ॥

3.248.2

कत्थनस्यावलिप्तस्य गर्वितस् च नित्यशः ।
सदा च पौरुषौदार्यैः पाण्डवानवमन्यतः ॥

3.248.3

दुर्योधनस् पापस्य नित्याहन्कारवादिनः ।
प्रवेशो हास्तिनपुरे दुष्करः प्रतिभाति मे ॥

3.248.4

तस्य लज्जानवितस्यैव शोकव्याकुलचेतसः ।
प्रवेशं विस्तरेण रत्वं वैशम्पायन कीर्तय ॥
वैशम्पायन उवाच ।

3.248.5

धर्मराजनिसृष्स्तु धार्तराष्ट्रः सुयोधनः ।
लज्जयाऽधोमुखः सीदन्नुपासर्पत्सुदुःखितः ॥

3.248.6

स्वपुरं प्रययौ राजा चतुरङ्गबलानुगः ।
शोकोदहतया बुद्ध्या चिन्तयानः पराभवम् ॥

3.248.7

विमुच्य पथि यानानि देशे सुयवसोदके । सन्निविष्टः शुभे रम्ये भूमिभागे यथेप्सितम् ।
हस्त्यश्वरथपादातं यथास्थानं न्यवेशयत् ॥

3.248.8

अथोपविष्टं राजानं पर्यङ्के ज्वलनप्रभे । उपप्लुतं यथा सोमं राहुणा रात्रिसन्क्षये ।
उपागम्याब्रवीत्कर्णो दुर्योधनमिदं तदा ॥

3.248.9

दिष्ट्या जीवसि गान्धारे दिष्ठ्या नः सन्गमः पुनः ।
दिष्ट्या त्वया जिताश्चैव गन्धर्वाः कामरूपिणः ॥

3.248.10

दिष्ट्या समग्रान्पश्यामि भ्रातॄस्ते कुरुनन्दन ।
विजिगीषून्रणे युक्तान्निर्जितारीन्महारथान् ॥

3.248.11

अहं त्वभिद्रुतः सर्वैर्गन्धर्वैः पश्यतस्व । नाशक्नुवं स्थापयितुं दीर्यमाणां च वाहिनीम् ।
शरक्षताङ्गश्च भृशं व्यपयातोऽभिपीडितः ॥

3.248.12

इदं त्वत्यद्भुतं मन्ये यद्युष्मानिह भारत । अरिष्टानक्षसांश्चापि सदारबलवाहनान् ।
विमुक्तान्सम्प्रपश्यामि युद्धात्तस्मादमानुषात् ॥

3.248.13

नैतस्य कर्ता लोकेऽस्मिन्पुमान्विद्यति भारत ।
यत्कृतं ते महाराज सह भ्रातृभिराहवे ॥

3.248.14

एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा ।
उवाचावाक्शिरा राजन्बाष्पगद्गदया गिरा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc