भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.250

3.250.1

चित्रसेनं समागम्य प्रहसन्नर्जुनस्तदा ।
इदं वचनमक्लीवमब्रवीत्परवीरहा ॥

3.250.2

भ्रातृनर्हसि मे वीर मोक्तुं गन्धर्वसत्तम ।
अनर्हधर्षणा हीमे जीवमानेषु पाण्डुषु ॥

3.250.3

एवमुक्तस्तु गन्धर्वः पाण्डवेन महात्मना ।
उवाच यत्कर्ण वयं मन्त्रयन्तो विनिर्गताः ॥

3.250.4

स्थितोराज्येच्युतान्स्थानाच्छ्रियाहीनांश्रियावृतः द्रष्टास्मि निःसुखान्वीरान्सदारान्पाण्डवानिति ॥

3.250.5

तस्मिन्नुच्चार्यमाणे तु गन्धर्वेण वचस्तथा ।
भूमेर्विवरमन्वैच्छं प्रवेष्टुं व्रीडयाऽन्वितः ॥

3.250.6

युधिष्ठिरमथागम् गन्धर्वाः सह पाण्डवैः ।
अस्मद्दुर्मन्त्रितं तस्मै बद्धांश्चास्मान्न्यवेदयन् ॥

3.250.7

स्त्रीसमक्षमहं दीनो बद्धः शत्रुवशं गतः ।
युधिष्ठिरस्योपहृतः किन्नु दुःखमतः परम् ॥

3.250.8

ये मे निराकृता नित्यं रिपुर्येषामहं सदा ।
तैर्मोक्षितोऽहं दुर्बुद्धिर्दत्तं तैरेव जीवितम् ॥

3.250.9

प्राप्तः स्यां यद्यहं वीर वधं तस्मिन्महारणे ।
श्रेयस्तद्भविता मह्यं नैवम्भूतस्य जीवितम् ॥

3.250.10

भवेद्यशः पृथिव्यां मे ख्यातं गन्धर्वतो वधात् ।
प्राप्ताश्च पुण्यलोकाः स्युर्महेन्द्रसदनेऽक्षयाः ॥

3.250.11

यत्त्वद्य मे व्यवसितं तच्छृणुध्वं नरर्षभाः । इह प्रायमुपासिष्ये यूयं व्रजत वै गृहान् ।
भ्रातरश्चैव मे सर्वे यान्त्वद्य स्वपुरं प्रति ॥

3.250.12

कर्णप्रभृतयश्चैव सुहृदो बान्धवाश्च ये ।
दुःशासनं पुरस्कृत्य प्रयान्त्वद्य पुरं प्रति ॥

3.250.13

न ह्यहं सम्प्रयास्यामि पुरं शत्रुनिराकृतः ।
शत्रुमानापहो भूत्वा सुहृदां मानकृत्तथा ॥

3.250.14

कामं रणशिरस्यद्य शत्रुभिर्वै विमानितः । स सुहृच्छोकदो जातः शत्रूणां हर्वर्धनः ।
वारणाह्वयमासाद्य किं वक्ष्यामि जनाधिपम् ॥

3.250.15

भीष्मद्रोणौ कृपद्रौणी विदुरः सञ्जयस्तथा ।
बाह्लीकः सौमदत्तिश्च ये चान्ये वृद्धसम्मताः ॥

3.250.16

ब्राह्मणाः श्रेणिमुख्याश्च तथोदासीनवृत्तयः ।
किं मां वक्ष्यन्ति किं चापि प्रतिवक्ष्यामि तानहं ॥

3.250.17

रिपूणां शिरसि स्थित्वा तथा विक्रम्य चोरसि ।
आत्मदोषात्परिभ्रष्टः कथं वक्ष्यामि तानहम् ॥

3.250.18

दुर्विनीताः श्रियं प्राप्य विद्यामैश्वर्यमेव च ।
तिष्ठन्ति न चिरं भद्रे यथाऽहं मदगर्वितः ॥

3.250.19

अहो वत यथेदं मे कष्टं दुश्चरितं कृतम् ।
स्वयं दुर्बुद्धिना मोहाद्येन प्राप्तोस्मि संशयम् ॥

3.250.20

तस्मात्प्रायमुपासिष्ये न हिशक्ष्यामि जीवितुम् ।
चेतयानो हि को जीवेत्कृच्छ्राच्छत्रुभिरुद्धृतः ॥

3.250.21

शत्रुभिश्चावहसितो मानी पौरुषवर्जितः ।
पाण्डवैर्विक्रमाढ्यैशच् सावमानमवेक्षितः ॥
वैशम्पायन उवाच ।

3.250.22

एवं चिन्तापरिगतो दुःशासनमथाब्रवीत् ।
दुःशासन निबोधेदं वचनं मम भारत ॥

3.250.23

प्रतीच्छ त्वं मया दत्तमभिषेकं नृपो भव ।
प्रशाधि पृथिवीं स्फीतान्कर्णसौबलपालिताम् ॥

3.250.24

भ्रातॄन्पालय विस्रब्धं मरुतो वृत्रहा यथा ।
बान्धवाश्चोपजीवन्तु देवा इव शतक्रतुम् ॥

3.250.25

ब्राह्मणेषु सदा वृत्तिं कुर्वीथाश्चाप्रमादतः ।
बन्धूनां सुहृदां चैव भवेथास्त्वं गतिः सदा ॥

3.250.26

ज्ञातींश्चाप्यनुपश्येथा विष्णुर्देवगणान्यथा ।
गुरवः पालनीयास्ते गच्छ पालय मेदिनीम् ॥

3.250.27

नन्दयन्सुहृदः सर्वाञ्शात्रवांश्चावभर्त्सयन् ।
कण्ठे चैनं परिष्वज्यगम्यतामित्युवाच ह ॥

3.250.28

तस्य तद्वचनं श्रुत्वा दीनो दुशासनोऽब्रवीत् ।
अश्रुकण्ठः सुदुःखार्तः प्राञ्जलिः प्रणिपत्य च ॥

3.250.29

सगद्गदमिदं वाक्यं भ्रातरं ज्येष्ठमात्मनः ।
कप्रसीदेत्यपतद्भूमौ दूयमानेन चेतसा ॥

3.250.30

दुःखितः पादयोस्तस्य नेत्रजं जलमुत्सृजन् ।
उक्तवांश्च नरव्याघ्रो नैतदेवं भविष्यति ॥

3.250.31

विदीर्यत्सकला भूमिर्द्यौश्चापि शकलीभवेत् ।
रविरात्मप्रभां जह्यात्सोमः शीतांशुतां त्यजेत् ॥

3.250.32

वायुः शैघ्र्यमथो जह्याद्धिमवांश्च हिमं त्यजेत् ।
शुष्येत्तोयं समुद्रेषु वह्निरप्युष्णतां त्यजेत् ॥

3.250.33

न चाहं त्वदृते राजन्प्रशासेयं वसुन्धराम् ।
पुनःपुनः प्रसीदेति वाक्यं चेदमुवाच ह ॥

3.250.34

शत्रूणां शोककृद्राजन्सुहृदां शोकनाशनः त्वमेव नःकुलेराजा भविष्यसि शतं समाः ॥

3.250.35

एवमुक्त्वा स राजानं सुश्वरं प्ररुरोद ह ।
पादौ संस्पृश्य मानार्हौ भ्रातुर्ज्येष्ठस्य भारत ॥

3.250.36

तथा तौ दुःखितौ दृष्ट्वा दुःशासनसुयोधनौ ।
अभिगम्य व्यथाविष्टः कर्णस्तौ प्रत्यभाषत ॥

3.250.37

विषीदथः किं कौरव्यौ बालिश्यात्प्राकृताविव ।
न शोकः शोचमानस्य विनिवर्तेत कर्हिचित् ॥

3.250.38

यदा च शोचतः शोकोव्यसनं नापकर्षति ।
सामर्थ्यं किं ततः शोके शोचमानौ प्रपश्यथः ॥

3.250.39

धृतिं गृह्णीतं मा शत्रूञ्शोचन्तौ नन्दयिष्यथः ।
कर्तव्यं हि कृतं राजन्पाण्डवैस्तव मोक्षणम् ॥

3.250.40

नित्यमेव प्रियं कार्यं राज्ञो विपयवासिभिः ।
पाल्यमानास्त्वया ते हि निवसन्ति गतज्वराः ॥

3.250.41

नार्हस्येवन्गते मन्युं कर्तुं प्राकृतवत्स्वयम् ।
विषण्णास्तव सोदर्यास्त्वयि प्रायं समास्थिते ॥

3.250.42

तदलं दुःखितानेतान्कर्तुं सर्वान्नराधिप । उत्तिष्ठ व्रज भद्रं ते समाश्वासय सोदरान् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc