भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.226

3.226.1

अहं प्रजापतेः कन्या देवसेनेति वुश्रुता ।
भगिनी मे दैत्यसेना सा पूर्वं कोशिना हृता ॥

3.226.2

सहैवावां भगिन्यौ तु सखीभिः सह मानसम् ।
आगच्छावो विहारार्थमनुज्ञाप्य प्रजापतिम् ॥

3.226.3

नित्यं चावां प्रार्थयते हर्तुं केशी महासुरः ।
इच्छत्येनं दैत्यसेना न चाहं पाकशासन ॥

3.226.4

सा हृताऽनेन भगवान्मुक्ताऽहं त्वद्बलेन तु ।
त्वया देवेन्द्र निर्दिष्टं पतिमिच्छामि दुर्जयम् ॥
इन्द्र उवाच ।

3.226.5

मम मातृष्वसेयी त्वं माता दाक्षायणी मम ।
आख्यातुं त्वहमिच्छामि स्वयमात्मबलं त्वया ॥
कन्योवाच ।

3.226.6

अबलाऽहं महाबाहो पतिस्तु बलवान्मम ।
वरदानात्पितुर्भावी सुरासुरनमस्कृतः ॥
इन्द्र उवाच ।

3.226.7

कीदृशं तु बलन्देवि पत्युस्तव भविष्यति ।
एतदिच्छाम्यहं श्रोतुं तव वाक्यमनिन्दिते ॥
कन्योवाच ।

3.226.8

देवदानवयक्षाणां किन्नरोरगरक्षसाम् ।
जेता यो दुष्टदैत्यानां महावीर्यो महाबलः ॥

3.226.9

यस्तु सर्वाणि भूतानि त्वया सह विजेष्यति ।
स हि मे भविता भर्ता ब्रह्मण्यः कीर्तिवर्धनः ॥
मार्कण्डेय उवाच ।

3.226.10

इन्द्रस्तस्या वचः श्रुत्वा दुःखितोऽचिन्तयद्भृशम् ।
अस्या देव्याः पतिर्नास्ति यादृशं सम्प्रभाषते ॥

3.226.11

अथापश्यत्स उदये भास्करं भास्करद्युतिः ।
सोमं चैव महाभागं प्रविशन्तं दिवाकरम् ॥

3.226.12

अमावास्यां प्रवृत्तायां मुहूर्ते रौद्र एव तु ।
देवासुरं च सन्ग्रामं सोऽपश्यदुदये गिरौ ॥

3.226.13

लोहितैश्च घनैर्युक्तां पूर्वां सन्ध्यां शतक्रतुः ।
अपश्यल्लोहितोदं च मघवान्वरुणालयम् ॥

3.226.14

भृगुभिश्चाङ्गिरोभ्यश्च हुतं मन्त्रैः पृथग्विधैः ।
हव्यं गृहीत्वा वह्निं च प्रविशन्तं दिवाकरम् ॥

3.226.15

पर्व चैव चतुर्विंशं तदा सूर्यमुपस्थितम् ।
तथा सूर्यं वह्निगतं सोमं सूर्यगतं च तम् ॥

3.226.16

समालोक्यैकतामेव शशिनो भास्करस्य च ।
समवायं तु तं रौद्रं दृष्ट्वा शक्रोऽन्वचिन्तयत् ॥

3.226.17

सूर्याचन्द्रमसोर्घोरं दृश्यते परिवेषणम् ।
एतस्मिन्नेव रात्र्यन्ते महद्युद्धं तु शंसति ॥

3.226.18

सरित्सिन्धुरपीयं तु प्रत्यसृग्वाहिनी भृशम् ।
शृगालिनयग्निवक्रा च प्रत्यादित्यं विराविणी ॥

3.226.19

एष रौद्रश्चसन्घातो महान्युक्तश्च तेजसा ।
सोमस्य वह्निसूर्याभ्यामद्भुतोऽयं समागमः ॥

3.226.20

जनयेद्यं सुतं सोमः सोऽस्या देव्याः पतिर्भवेत् ।
अथानेकैर्गुणैश्चाग्निरग्निः सर्वाश्च देवताः ॥

3.226.21

एष चेञ्जनयेद्गर्भं सोऽस्या देव्याः पतिर्भवेत् ।
एवं सञ्चिन्त्य भगवान्ब्रह्मलोकं तदा गतः ॥

3.226.22

गृहीत्वा देवसेनां तां ववन्दे स पितामहम् ।
उवाच चास्या देव्यास्त्वं साधु शूरं पतिं दिशा ॥
ब्रह्मोवाच ।

3.226.23

यथैतच्चिन्तितन्कार्यं त्वया दानवसूदन ।
तथा स भविता गर्भो बलवानुरुविक्रमः ॥

3.226.24

स विष्यति सेनानीस्त्वया सह शतक्रतो ।
अस्या देव्याः पतिश्चैव स भविष्यति वीर्यवान् ॥

3.226.25

एतच्छ्रुत्वा नमस्तस्मै कृत्वाऽसौ मह कन्यया ।
तत्राभ्यगच्छद्देवेन्द्रो यत्र सप्तर्षयोऽभवन् ॥

3.226.26

वसिष्ठप्रमुखा मुख्या विप्रेन्द्राः सुमहाप्रभाः ।
भागार्थं तपसोपात्तं तेषां सोमं तथाऽध्वरे ॥

3.226.27

पिपासवो ययुर्देवाः शतक्रतुपुरोगमाः ।
इष्टिं कृत्वयतान्यायं सुसमिद्धे हुताशने ॥

3.226.28

जुहुवुस्ते महात्मानो हव्यं सर्वदिवौकसाम् ।
समाहूतो हुतवहःसोऽद्भुतः सूर्यमण्डलात् ॥

3.226.29

विनिःसृत्य ययौ वह्निः पार्श्वतो विधिवत्प्रभुः ।
आगम्याहवनीयं वै तैर्द्विजैर्मन्त्रतो हुतम् ॥

3.226.30

सतत्र विविधं हव्यं प्रतिगृह्यहुताशनः ।
ऋषिभ्यो भरतश्रेष्ठ प्रायच्छत दिवौकसाम् ॥

3.226.31

निष्क्रामंश्चाप्यपश्यत्स पत्नीस्तेषां महात्मनाम् ।
स्वेष्वासतेषूपविष्टाः स्नायन्तीश्च यथासुस्वम् ॥

3.226.32

रुक्मवेदिनिभास्तास्तु चन्द्रलेखा इवामलाः ।
हुताशनार्चिःप्रतिमाः सर्वास्तारा इवाद्भुताः ॥

3.226.33

स तत्रतेन मनसा बभूव क्षुभितेन्द्रियः ।
पत्नीर्दृष्ट्वा द्विजेन्द्राणां वह्निः कामवशं ययौ ॥

3.226.34

भूयः सञ्चिन्तयामास न न्याय्यं क्षुभितो ह्यहम् ।
साध्व्यः पत्न्यो द्विजेन्द्राणामकामा कामयाम्यहम् ॥

3.226.35

नैताः शक्या मया द्रष्टुं स्प्रष्टुं वाऽप्यनिमित्ततः ।
गार्हपत्यं समाविश्य तस्मात्पश्याम्यभीक्ष्णशः ॥
मार्कण्डेय उवाच ।

3.226.36

संस्पृशन्निव सर्वास्ताः शिखाभिः काञ्चनप्रभाः ।
पश्यमानश्च मुमुदे गार्हपत्यं समाश्रितः ॥

3.226.37

निरुध्य तत्रसुचिरमेवं वह्निर्वनं गतः ।
मनस्तासु विनिक्षिप्य कामयानो वराङ्गनाः ॥

3.226.38

कामसन्तप्तहृदयो देहत्यागे विनिश्चितः ।
अलाभे ब्राह्मणस्त्रीणामग्निर्वनमुपागमत् ॥

3.226.39

स्वाहा तं दक्षदुहिता प्रथमाऽकामयत्तदा । सा तस्य च्छिद्रमन्वैच्छच्चिरात्प्रभृतिभामिनी ।

3.226.40

सा तं ज्ञात्वा यथावत्तु वर्हिं वनमुपागतम् ।
तत्त्वतः कामसन्तप्तं चिन्तयामास भामिनी ॥

3.226.41

अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम् । कामयिष्यामि कामार्तं तासां रूपेण मोहितम् ।
एवं कृते प्रीतिरस् कामावाप्तिश्च मे भवेत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc