भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.225

3.225.1

अग्नीनां विविधा वंशाः कीर्तितास्ते मयाऽनघ ।
शुणु जन्म तु कौरव्य कार्तिकेयस् धीमतः ॥

3.225.2

अद्भुतस्याद्भुतं पुत्रं प्रवक्ष्याम्यमितौजसम् ।
जातं सप्तर्षिभार्याभिर्ब्रह्मण्यं कीर्तिवर्धनम् ॥

3.225.3

देवासुराः पुरा यत्ता विनिघ्नन्तः परस्परम् ।
तत्राजयन्सदा देवान्दानवा घोररूपिणः ॥

3.225.4

वध्यमानं बलं दृष्ट्वा बहुशस्तैः पुरन्दरः ।
स सैन्यनायकार्थाय चिन्तयामास वासवः ॥

3.225.5

देवसेनां दानवैर्हि भग्नां दृष्ट्वा महाबलः ।
पालयेद्वीर्यमाश्रित्य स ज्ञेयः पुरुषो मया ॥

3.225.6

स शैलं मानसं गत्वा ध्यायन्नर्थमिमं भृशम् ।
शुश्रावार्तस्वरं घोरमथ मुक्तं स्त्रिया तदा ॥

3.225.7

अभिधावतु मां कश्चित्पुरुषस्त्रातु चैव ह ।
पतिं च मे प्रदिशतु स्वयं वा पतिरस्तु मे ॥

3.225.8

पुरन्दरस्तु तामाह मा भैर्नास्ति भयं तव ।
एवमुक्त्वा ततोऽपश्यत्केशिनं स्थितमग्रतः ॥

3.225.9

किरीटिनं गदापाणिं धातुमन्तमिवाचलम् ।
हस्ते गृहीत्वा कन्यां तामथैनं वासवोऽब्रवीत् ॥

3.225.10

अनार्यकर्मन्कस्मात्त्वमिमां कन्यां जिहीर्षसि ।
वज्रिणं मांविजानीहि विरमास्याः प्रबाधनात् ॥
केश्युवाच ।

3.225.11

विसृजस्व त्वमेवैनां शक्रैषा प्रार्थिता मया ।
क्षमं तेजीवतो गनतुं स्वपुरं पाकशासन ॥

3.225.12

एवमुक्त्वा गदां केशी चिक्षेपेन्द्रवधाय वै ।
तामापतन्तीं चिच्छेद मध्ये वज्रेण वासवः ॥

3.225.13

अथास्य शैलशिखरं केशी क्रुद्धो व्यवासृजत् ।
महामेघप्रतीकाशं चलत्पावकसन्कुलम् ॥

3.225.14

तदापन्ततं सम्प्रेक्ष्य शैलशृङ्गं शतक्रतुः ।
बिभेद राजन्वज्रेण भुवि तन्निपपात ह ॥

3.225.15

पतता तु तदा केशी तेन शृङ्गेण ताडितः ।
हित्वा कन्यां महाभागां प्राद्रवद्भृशपीडितः ॥

3.225.16

अपयातेऽसुरे तस्मिंस्तां कन्यां वासवोऽब्रवीत् । कासि कस्यसि किञ्चेह कुरुषे त्वं शुभानने ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc