भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.227

3.227.1

शिवा भार्या त्वङ्गिरसः शीलरूपगुणान्विता ।
तस्याः सा प्रथमं रूपं कृत्वादेवी जनाधिप ॥

3.227.2

जगाम पावकाभ्याशं तं चोवाच वराङ्गना ।
मामग्ने कामसन्तप्तां त्वं कामयितुमर्हसि ॥

3.227.3

करिष्यसि न चेदेवं मृतां मामुपधारय ।
तवाप्यधर्मः सुमहान्भविता वै हुताशन ॥

3.227.4

अहमङ्गिरसो भार्या शिवा नाम हुताशन ।
सखीभिः सहिता प्राप्ता मन्त्रयित्वा विनिश्चयम् ॥
अग्निरुवाच ।

3.227.5

कथं मां त्वं विजानीषे कामार्तमितराः कथम् ।
यास्त्वया कीर्तिताः सर्वाः सप्तर्षीणां प्रियाः स्त्रियः ॥
शिवोवाच ।

3.227.6

अस्माकं त्वं प्रियो नित्यं बिभीमस्तु वयं तव ।
त्वच्चित्तमिङ्गितैर्ज्ञात्वा प्रेषिताऽस्मि तवान्तिकम् ॥

3.227.7

मैथुनायेह सम्प्राप्ता कामाच्चैव द्रुतं च माम् । उपयन्तुं महावीर्य पूर्वमेव त्वमर्हसि ।
[जामयो मां प्रतीक्षन्ते गमिष्यामि हुताशन] ॥
मार्कण्डेय उवाच ।

3.227.8

ततोऽग्निरुपयेमे तां शिवां प्रीतिमुदायुतः ।
प्रीत्या देवी समायुक्ता शुक्रं जग्राह पाणिना ॥

3.227.9

साऽचन्तयन्ममेदं ये रूपं द्रक्ष्यन्ति कानने ।
ते ब्राह्मणीनामनृतं दोषं वक्ष्यन्ति पावके ॥

3.227.10

तस्मादेतद्रक्षमाणआ गरुडी सम्भवाम्यहम् ।
वनान्निर्गमनं चैव सुखं मम भविष्यति ॥
मार्कण्डेय उवाच ।

3.227.11

सुपर्णी सा तदा भूत्वा निर्जगाम महावनात् ।
उपश्यत्पर्वतं श्वेतं शरस्तम्बैः सुसंवृतम् ॥

3.227.12

दृष्टीविषैः सप्तशीर्षैर्गुप्तं भोगिभिरद्भुतैः ।
रक्षोभिश्च पिशाचैश्च रौद्रैर्भूतगणैस्तथा ॥

3.227.13

राक्षसीभिश्च सम्पूर्णमनेकैश्च मृगद्विजैः ।
नदीप्रस्रवणोपेतं नानातरुलताचितम् ॥

3.227.14

सा तत्र सहसा गत्वा शैलपृष्ठं सुदुर्गमम् ।
प्राक्षिपत्काञ्चने कुण्डे शुक्रं सा त्वरिता शुभा ॥

3.227.15

शिष्टानामपि सा देवी सप्तर्षीणां महात्मनाम् ।
पत्नीसरूपतां कृत्वा रमयामास पावकम् ॥

3.227.16

दिव्यरूपमरुन्धत्याः कर्तुं न शकितं तया ।
तस्यास्तपःप्रभावेण भर्तृशुश्रूषणेन च ॥

3.227.17

षट्कृत्वस्तत्तु निक्षिप्तमग्ने रेतः कुरुत्तम ।
तस्मन्कुण्डे प्रतिपदि कामिन्या स्वाहया तदा ॥

3.227.18

तत्स्कन्नं तेजसा तत्रसंवृतञ्जनयत्सुतम् ।
ऋषिभिः पूजितं स्कन्नमनयन्स्कन्दतां ततः ॥

3.227.19

षट््शिरा द्विगुणश्रोत्रो द्वादशाक्षिभूजक्रमः ।
एकग्रीवस्त्वेककायः कुमारः समपद्यत ॥

3.227.20

द्वितीयायामभिव्यक्तस्तृतीयायां शिशुर्बभौ ।
अङ्गप्रत्यङ्गसम्भूतश्चतुर्थ्यामभवद्गुहः ॥

3.227.21

लोहिताभ्रेण महता संवृतः सह विद्युता ।
लोहिताभ्रे सुमहति भाति सूर्य इवोदितः ॥

3.227.22

गृहीतं तु धनुस्तेन विपुलं रोमहर्षणम् ।
न्यस्तं यत्रिपुरघ्नेन सुरारिविनिकृन्तनम् ॥

3.227.23

तद्गृहीत्वा धनुःश्रेष्ठं ननाद बलवांस्तदा ।
सम्मोहयन्निमाँल्लोकान्गुहस्त्रीन्सचराचरान् ॥

3.227.24

तस् तं निनदं श्रुत्वा महामेघौघनिःस्वनम् ।
उत्पेततुर्महानागौ चित्रश्चैरावतश्च ह ॥

3.227.25

तावापतन्तौ सम्प्रेक्ष्यस बालोऽर्कसमद्युतिः ।
द्वाभ्यां गृहीत्वा पाणिभ्यां शक्तिं चान्येन पाणिना ॥

3.227.26

अपरेणाग्निदायादस्ताम्रचूडं भुजेन सः । महाकायमुपश्लिष्टं कुक्कुटं बलिनां वरम् ।
गृहीत्वा व्यनदद्भीमं चिक्रीड च महाभुजः ॥

3.227.27

द्वाभ्यां भुजाभ्यां बलवान्गृहीत्वा शङ्खमुत्तमम् । प्राध्मापयत् भूतानां त्रासनं बलिनामपि ।
द्वाभ्यां भुजाभ्यामाकाशं बहुशो निजघान ॥ 3-227-28अक्रीडन्भाति महासेनस्त्रींल्लोकान्वदनैः पिवन् । पर्वताग्रेऽप्रमेयात्मा रश्मिमानुदये यथा ॥

3.227.29

स तस् पर्वतस्याग्रे निषण्णोऽद्भुतविक्रमः ।
व्यलोकयदमेयात्मा मुखैर्नानाविधैर्दिशः ॥

3.227.30

स पश्यन्विविधान्भावांश्चकार निनदं पुनः । तस्य तं निनदं श्रुत्वा न्यपतन्बहुधा जनाः ।
भीताश्चोद्विग्रमनसस्तमेव शरणं ययुः ॥

3.227.31

ये तुं संश्रिता देवं नानावर्णास्तदा जनाः ।
तानप्याहुः पारिषदान्ब्राह्मणाः सुमहाबलान् ॥

3.227.32

स तूत्थाय महाबाहुरुपसान्त्व्य च ताञ्जनान् ।
धनुर्विकृष्य व्यसृजद्बाणाञ्श्वेते महागिरौ ॥

3.227.33

विभेद स शरैः शैलं क्रौञ्चं हिमवतः सुतम् ।
तेन हंसाश्च गृध्राश्च मेरुं गच्छन्ति पर्वतम् ॥

3.227.34

स विशीर्णोऽपतच्छैलो भृशमार्तस्वराव्रुवन् ॥

3.227.35

तस्मिन्निपतिते त्वन्ये नेदुः शैला भृशं भयात् ।
घोरमार्तस्वरं चक्रुर्दृष्ट्वा क्रौञ्चं विदारितम् ॥

3.227.36

सतं नादं भृशार्तानां श्रुत्वाऽपि बलिनांवरः ।
न प्राव्यधदमेयात्मा शक्तिमुद्यम्य चानदत् ॥

3.227.37

सा तदा विमला शक्तिः क्षिप्ता तेन महात्मना ।
बिभेद शिखरं घोरं श्वेतस् तरसा गिरेः ॥

3.227.38

स तेनाभिहतो दीर्णो गिरिः श्वेतोऽचलैः सह ।
पलायत महीं त्यक्त्वा भीतस्तस्मान्महात्मनः ॥

3.227.39

ततः प्रव्यथिता भूमिर्व्यशीर्यत समन्ततः ।
आर्ता स्कन्दं समासाद्य पुनर्बलवती बभौ ॥

3.227.40

पर्वताश्च नमस्कृत्यतमेव पृथिवीं गताः । अथैनमभजल्लोकः स्कन्दं शुक्लस्य पञ्चमीम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc