भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.224

3.224.1

आपस्य मुदिता भार्या सा चास्य परमाप्रिया ।
भूपतिं भूतकर्तारं जनयामास पावकम् ॥

3.224.2

भूतानां साऽपि सर्वेषां यं प्राहुः पावकं पतिम् ।
आत्मा भुवनकर्ता च सोऽध्वरेषु द्विजातिभिः ॥

3.224.3

महतां चैव भूतानां सर्वेषामिह यः पतिः ।
भगवान्स महातेजा नित्यं चरति पावकः ॥

3.224.4

अग्निर्गृहपतिर्नाम नित्यं यज्ञेषु पूज्यते ।
आज्यं वहतियो हव्यं सर्वलोकस् पावकः ॥

3.224.5

अपान्गर्भो महाभागः सत्वभुग्यो महाद्भुतः ।
भूपतिर्भूतकर्ता च महतः पतिरुच्यते ॥

3.224.6

मता वहन्तो हव्यानि तस्याग्नेरप्रजाऽभवन् ।
अग्निष्टोमस्तु नियतः क्रतुश्रेष्ठो भवत्युत ॥

3.224.7

[स वह्निः प्रथमो नित्यं देवैरन्विष्यते प्रभुः] ।
आयान्तं नियतं दृष्ट्वाप्रविवेशार्णवं भयात् ॥

3.224.8

देवास्तं नाधिगच्छन्ति मार्गमाणा यथातथम् ।
दृष्ट्वा त्वग्निरथर्वाणं ततो वचनमब्रवीत् ॥

3.224.9

देवानां वह हव्यं त्वमहं वीर सुदुर्बलः ।
अथ त्वं गच्छ मध्वक्षं प्रियमेतत्कुरुष्व मे ॥

3.224.10

प्रेष्य चाग्निरथर्वाणमन्यं देशं ततोऽगमत् । मत्स्यास्तस्य समाचख्युः क्रुद्धस्तानग्निरब्रवीत् ।
भक्ष्या वै विविधैर्भावैर्भविष्यथ शरीरिणाम् ॥

3.224.11

अथर्वाणं तथा चापि हव्यवाहोऽब्रवीद्वचः ॥

3.224.12

अनुनीयमानो हि भृशं देववाक्यान्वितेन सः ।
नैच्छद्वोढुं हवि सर्वं शरीरं चापि सोऽत्यजत् ॥

3.224.13

स तच्छरीरं सन्त्यज्य प्रविवेश धरां तदा ।
भूमिं स्पृष्ट्वाऽसृजद्भ्रातून्पृथक्पृथगतीव हि ॥

3.224.14

आस्यात्सुगन्धं तेजश्च अस्थिभ्यो देवदारु च ।
श्लेष्मणः स्फाटिकं तस् पित्तान्मारकतं तथा ॥

3.224.15

वातात्कृष्णायसं तस्य त्रिभिरेतैर्बहु प्रजाः ।
त्वचस्तस्याभ्रपटलं स्नायुजं चापि विद्रुमम् ॥

3.224.16

शरीरास्थिविधाश्चान्ये धातवोऽस्याभवन्नृप ।
एवं कृत्वा शरीरं च परमे तपसि स्थितः ॥

3.224.17

भृग्वङ्गिरादिभिर्भूयस्तपसोत्थापितस्तदा ।
भृशं जज्वाल तेजस्वी तपसाऽप्याधितः शिखी ॥

3.224.18

दृष्ट्वा ऋषीनभयाच्चापि प्रविवेश महार्णवम् । तस्मिन्नष्टे जगद्भीतमथर्वाणमथाश्रितम् ।
अर्चयामासुरेवैनमथर्वाणं सुरादयः ॥

3.224.19

अथर्वाणं श्रिताँल्लोकानात्मन्यालोच्य पावकः ।
मिषतां सर्वभूतानामुन्ममज्ज महार्णवात् ॥

3.224.20

एवमग्निर्भगवता नष्टः पूर्वमथर्वणा ।
आहूतः सर्वूतानां हव्यं वहति सर्वदा ॥

3.224.21

एवं त्वजनयद्धिष्ण्यान्वेदोक्तान्विबुधान्बहून् ।
विचरन्विविधान्देशान्भ्रममाणस्तु तत्र वै ॥

3.224.22

सिन्धुवर्ज्याः पञ्च नद्यो देविकाऽथ सरस्वती ।
गङ्गा च शतकुम्भा च सरयू गण्डसाह्वया ॥

3.224.23

चर्मण्वती मही चैव मेध्या मेधासृतिस्तदा ।
इरावती वेत्रवती नद्यतिस्रोऽथ कौशिकी ॥

3.224.24

तमसा नर्मदा चैव नदी गोदावरी तथा ।
वेण्णा प्रवेणी भीमा च मरुदा चैव भारत ॥

3.224.25

भारती सुप्रयोगा च कावेरी मज्जुरा तथा ।
तुङ्गवेणा कृष्णवेणा कपिला शोण एव च ॥

3.224.26

एता नद्यस्तु धिष्ण्यानां मातरो याः प्रकीर्तिताः ॥

3.224.27

अद्भुतस्य प्रिया भार्या तस्याः पुत्रो विडूरथः ।
यावन्तः पावकाः प्रोक्ताः सोमास्तावन्त एव तु ॥

3.224.28

अत्रेश्चाप्यन्वये जाता ब्रह्मणो मानसाः प्रजाः ।
अग्निः पुत्रान्स्रष्टुकामस्तानेवात्मन्यधारयत् ॥

3.224.29

तस्य तद्ब्रह्मणः कायान्निर्हरन्ति हुताशनाः ।
एवमेते महात्मानः कीर्तितास्तेऽग्नयो यथा ॥

3.224.30

अप्रमेया यथोत्पन्नाः श्रीमन्तस्तिमिरापहाः ।
अद्भुतस्त तु माहात्म्यं यथा वेदेषु कीर्तितम् ॥

3.224.31

तादृशं विद्धि सर्वेषामेको ह्येषु हुताशनः ।
एक एवैष भगवान्विज्ञेयः प्रथमोऽङ्गिराः ॥

3.224.32

बहुधा निःसृतः कायाज्ज्योतिष्टोमः क्रतुर्वथा । इत्येष वंशः सुमहानग्नीनां कीर्तितो मया ।
पावको विविधैर्मन्त्रैर्हव्यं वहति देहिनाम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc