भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.223

3.223.1

गुरुभिर्नियमैर्युक्तो भरतो नाम पार्थिव ।
अग्निः पुष्टिमग्निमि तुष्टः पुष्टिं प्रयच्छति ॥

3.223.2

सततं भरतश्रेष्ठ पावकोयं महाप्रभः । अग्निर्यश्च शिवो नाम शक्तिपूजायनिश्च सः ।
दुःखार्तानां स सर्वेषां शिवकृत्सततं शिवः ॥

3.223.3

तपसस्तु फलं दृष्ट्वासम्प्रवृत्तं तपोमयम् ।
उद्धर्तुकामो मतिमान्पुत्रो जज्ञे पुरन्दरः ॥

3.223.4

उष्मा चैवोष्मणो जज्ञे सोऽग्निर्भूतेषु लक्ष्यते ।
अग्निश्चापि मनुर्नाम प्राजापत्यं सकारणम् ॥

3.223.5

शम्भुमग्निमथ प्राहुर्ब्राह्मणा वेदपारगाः ।
आवसथ्यं देविजाः प्राहुर्दीप्तमग्निं महाप्रभम् ॥

3.223.6

ऊर्जस्करान्हव्यवाहान्सुवर्णसदृशप्रभान् ।
अग्निस्तपो ह्यजनयत्पञ्च यज्ञसुतानिह ॥

3.223.7

प्रततोऽग्निर्महाभाग परिश्रान्तो गवाम्पतिः ।
असुराञ्जनयन्धोरान्मत्यांश्चैव पृथिग्विधान् ॥

3.223.8

तपसश्च मनुं भानुं चाप्यङ्गिराः सृजत् ।
बृहद्भानुं तु तं प्राहुर्ब्राह्मणा वेदपारघाः ॥

3.223.9

भानोर्भार्या महाराज बृहद्भासा तु सोमजा । षट्पुत्राञ्जनयामास तदा सा कन्यया सह ।
भानोराङ्गिरसस्याथ शृणु तस्य प्रजाविधिम् ॥

3.223.10

दुर्बलानां तु भूतानामसून्यः सम्प्रयच्छति ।
तमग्निं बलदं प्राहुः प्रथमं भानुजं सुतम् ॥

3.223.11

यः प्रशान्तेषु भूतेषु मन्युर्भवति दारुणः ।
अग्निः स मन्युमान्नाम द्वितीयो भानुजः सुतः ॥

3.223.12

दर्शे च पौर्णमासे च यस्येह हविरुच्यते ।
विष्णुर्नामेह योऽग्निस्तु धृतिमान्नाम सोङ्गिराः ॥

3.223.13

इन्द्रेण सहितं यस्य हविराग्रयणं स्मृतम् ।
अग्निराग्रयणो नाम भानोरेवान्वयस्तु सः ॥

3.223.14

चातुर्मास्येषु नित्यानां हविषां यो निरग्रहः ।
चतुर्भिः सहितः पुत्रैर्भानोरेवान्वयस्तु सः ॥

3.223.15

निशां त्वजनयत्कन्यामग्नीषोमावुभौ तथा ।
मनोरेवाभवद्भार्या सुषुवे पञ्च पावकान् ॥

3.223.16

पूज्यते हविषा योऽग्रे चातुर्मास्येषु पावकः ।
पर्जन्यसहितः श्रीमानग्निर्वैश्वानरस्तु सः ॥

3.223.17

अस्य लोकस्य सर्वस्य यः प्रभुः परिषठ्यते ।
सोऽग्निर्विश्वपतिर्नाम द्वितीयस्तापसः सुतः ॥

3.223.18

कन्या या हरिणी नाम हिरण्यकशिपोः सुताः ।

3.223.19

कर्मणाऽसौ बभौ भार्या स वह्निः स प्रजापतिः । प्राणानाश्रित्य यो देहं प्रवर्तयति देहिनाम् ।
तस्य सन्निहितो नाम शब्दरूपस् साधनः ॥

3.223.20

शुक्लं कृष्णं वपुर्देवो यो बिभर्ति हुताशनः ।
अकल्मषः कल्मषाणां कर्ता क्रोधाश्रितस्तुसः ॥

3.223.21

कपिलं परमर्षिं च यं प्राहुर्यतयः सदा ।
अग्निः स कपिलो नाम साङ्ख्ययोगप्रवर्तकः ॥

3.223.22

योऽन्तर्यच्छति भूतानि येन चेष्टन्ति नित्यदा ।
कर्मस्विह विचित्रेषु सोऽग्रणीर्वह्निरुच्यते ॥

3.223.23

इमामन्यान्समसृजत्पावकान्प्रथितौजसः ।
अग्निहोत्रस्य दुष्टस्य प्रायश्चित्तार्थमुल्वणान् ॥

3.223.24

संस्पृशेयुर्यदाऽन्योन्यं कथञ्चिद्वायुनाऽग्नयः ।
इष्टिरष्टाकपालेन कार्या वै शुचयेऽग्नये ॥

3.223.25

दक्षिणाग्निर्यदा द्वाभ्यां संसृजेत तदा किल ।
इष्टिरष्टाकपालेन कार्या वै वीतयेऽग्नये ॥

3.223.26

यद्यग्नयो हि स्पृश्येयुर्निवेशस्था दवाग्निना ।
इष्टरष्टाकपालेन कार्या तु शुचयेऽग्नये ॥

3.223.27

अग्निं रजस्वला वै स्त्री संस्पृशेदाग्निहौत्रिकम् ।
इष्टिरष्टाकपालेन कार्या वसुमतेऽग्नये ॥

3.223.28

मृतः श्रूयेत यो जीवन्परासुरशुचिर्यथा ।
इष्टिरष्टाकपालेन कार्या सुरभिमतेऽग्नये ॥

3.223.29

आर्तो न जुहुयादग्निं त्रिरात्रं यस्तु ब्राह्मणः ।
इष्टिरष्टाकपालेन कार्या तन्तुमतेऽग्नये ॥

3.223.30

दर्शश्च पौर्णमासश्च यस् तिष्ठेत्प्रतिष्ठितम् ।
इष्टिरष्टाकपालेन कार्या पथिकृतेऽग्नये ॥

3.223.31

सूतिकाग्निर्यदा चाग्निं संस्पृशेदाग्निहौत्रिकम् । इष्टिरष्टाकपालेन कार्यां चाग्निमतेऽग्नये ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc