भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.222

3.222.1

काश्यपो ह्यथ वासिष्ठः प्राणश्च प्राणपुत्रकः ।
अग्निराङ्गिरसश्चैव च्यवनस्तीव्रवर्चकः ॥

3.222.2

अचरत्स तपस्तीव्रं पुत्रार्थे बहुवार्षिकम् ।
पुत्रं लभेयं धर्मिष्ठं यशसा ब्रह्मणा समम् ॥

3.222.3

महाव्याहृतिभिर्ध्यातः पञ्चभिस्तैस्तदा त्वथ ।
जज्ञे तेजोमयार्चिष्मान्पञ्चवर्णः प्राकरः ॥

3.222.4

समिद्धोऽग्निः शिरस्तस्य बाहू सूर्यनिभौ तथा ।
त्वङ्नेत्रे च सुवर्णाभे कृष्णे जङ्घे च भारत ॥

3.222.5

पञ्चवर्षः स तपसा कृतस्तैः पञ्चभिर्जनैः ।
पाञ्चजन्यः श्रुतो देवः पञ्चवंशकरस्तु सः ॥

3.222.6

दशवर्षसहस्राणि तपस्तप्त्वा महातपाः ।
जनयत्पावकं घोरं पितॄणां स प्रजाः सृजन् ॥

3.222.7

बृहद्रथन्तरौ मूर्ध्ना वक्राच्च तपसा हरिम् ।
शिवं नाभ्यां बलादिन्द्रं प्राणाद्वायुं च भारत ॥

3.222.8

बाहुभ्यामनुदात्तौ च विश्वे भूतानि चैव ह ।
एतान्सृष्ट्वा ततः पञ्च पितॄणामसृजत्सुतान् ॥

3.222.9

बृहद्रथस्य प्रणिधिः काश्यपश्य महत्तरः ।
भानुरङ्गिरसो धीरः पुत्रो वर्चस्य सौरभः ॥

3.222.10

प्राणस्य चानुदात्तस्तु व्याख्याताः पञ्च वंशजाः ।
देवान्यज्ञमुषश्चान्यान्सृजन्पञ्चदशोत्तरान् ॥

3.222.11

सुभीममतिभीमं च भीमं भीमबलाबलम् ।
एतान्यज्ञमुषः पञ्च देवानप्यसृजत्ततः ॥

3.222.12

सुमित्रं मित्रवन्तं च मित्रज्ञं मित्रवर्धनम् ।
मित्रधर्माणमित्येतान्देवानभ्यसृजत्ततः ॥

3.222.13

सुरप्रवीरं वीरं च सुरेशं च सुवर्चसम् ।
सुराणामपि भर्तारं पञ्चैतानसृजत्ततः ॥

3.222.14

त्रिविधं संस्थिता ह्येते पञ्चपञ्च पृथक्पृथक् ।
मुष्णन्त्यत्र स्थिता ह्येते स्वर्गतान्यज्ञयाजिनः ॥

3.222.15

तेषामिष्टं हरन्त्येते निघ्नन्ति च महद्धविः ।
स्पर्धयाहव्यवाहानां निघ्नन्त्येते हरन्ति च ॥

3.222.16

बहिर्वेद्यां तदादानं कुशलैः सम्प्रवर्तितम् ।
तत्रैते नोपसर्पन्ति यत्र चाग्निः स्थितो भवेत् ॥

3.222.17

चितोऽग्निरुद्वहन्यज्ञं पक्षाभ्यां तान्प्रबाधते ।
मन्त्रै प्रशमिताह्येते नेष्टं मुष्णन्ति यज्ञियम् ॥

3.222.18

तपस्ये बृदुक्थस्य पुत्रो भूमिमुपाश्रितः ।
अग्निहोत्रे हूयमाने पृथिव्यां सद्भिरीड्यते ॥

3.222.19

रथन्तरश्चतपसः पुत्रोऽग्निः परिपठ्यते ।
मित्रविन्दा तथा भार्या हविरध्वर्यवो विदुः ॥

3.222.20

एतैः सह महाभाग तपस्तेजस्विभिर्नृप । मुमुदे परमप्रीतः सह पुत्रैर्भहायशाः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc