भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.221

3.221.1

ब्रह्मणो यस्तृतीयस्तु पुत्रः कुरुकुलोद्वह ।
तस्यापि वसुदाभार्या प्रजास्तस्यां च मे शृणु ॥

3.221.2

बृहत्कीर्तिर्बृहज्ज्योतिर्बृहद्ब्रह्मा बृहन्मनाः ।
बृहन्मन्त्रो बृहद्भासस्तथा राजन्बृहस्पतिः ॥

3.221.3

प्रजासु तासु सर्वासु रूपेणाप्रतिमाऽभवत् ।
देवी भानुमती नाम प्रथमाऽङ्गिरसः सुता ॥

3.221.4

भूतानामेव सर्वेषां यस्यां रागस्तदाऽभवत् ।
रागाद्रागेति यामाहुर्द्वितीयाऽङ्गिरसः सुता ॥

3.221.5

यां कपर्दिसुतामाहुर्दृश्यादृश्येति देहिनः ।
तनुत्वात्सा सिनीवाली तुतीयाऽङ्गिरसः सुता ॥

3.221.6

यां तु दृष्ट्वा भगवतीं जनः कुहकुहायते ।
एकानकेति यामाहुश्चतुर्थ्यङ्गिरसः सुता ॥

3.221.7

पञ्चम्यर्चिष्मती नाम्ना हविर्भिश्च हविष्मती ।
षष्ठीम्गिरसः कन्यां पुण्यामाहुर्महिष्मतीम् ॥

3.221.8

महामखेष्वाङ्गिरसी दीप्तिमत्सु महीयती ।
महामतीति विख्याता सप्तमी कथ्यते सुता ॥

3.221.9

बृहस्पतेश्चान्द्रमसी भार्याऽसीद्या यशस्विनी ।
अग्नीन्साऽजनयत्पुण्यान्षडेकां चापि पुत्रिकाम् ॥

3.221.10

आहुतिष्वेव यस्याग्नेर्हविराज्यं विधीयते ।
सोग्निर्बृहस्पतेः पुत्र शंयुर्नाम महाप्रभः ॥

3.221.11

चातुर्मास्येषु यस्येष्टमश्वमेधाग्रभागभूत् ।
दीप्तिज्वालैरनेकाग्रैरग्निष्टोमोऽथ वीर्यवान् ॥

3.221.12

शंयोरप्रतिमा भार्या सत्या सत्याऽथ धर्मजा ।
अग्नितस्य सुतो दीप्तस्तिस्रः कन्याश्च सुव्रताः ॥

3.221.13

प्रथमेनाज्यभागेन पूज्यते योऽग्निरध्वरे ।
अग्निस्तस्य भरद्वाजः प्रथमः पुत्र उच्यते ॥

3.221.14

पौर्णमासेषु सर्वेषु हविराज्यं ध्रुवोद्यतम् ।
भरतो नामतः सोग्निर्द्वितीयः शंयुतः सुतः ॥

3.221.15

तिस्रः कन्या भवन्त्यन्या यासां स भरत पतिः ।
भारतस्तु सुतस्तस्य भारत्येका च पुत्रिका ॥

3.221.16

भारतो भरतस्याग्नेः पावकस्तु प्रजायते ।
महानत्यर्थमहितस्तथा भरतसत्तम ॥

3.221.17

भरद्वाजस्य भार्या तु वीरा वीरश्च पिण्डदः ।
प्राहुराज्येन तस्येज्यां सोमस्येव द्विजाः शनैः ॥

3.221.18

हविषा यो द्वितीयेन सोमेन सह युज्यते ।
रथप्रभू रथध्वानः कुम्भरेताः स उच्यते ॥

3.221.19

सरय्वां जनयत्सिद्धिं भानुं भाभिः समावृणोत् ।
आग्नेयमनयन्मिथ्यं मिथ्यो नामैव कथ्यते ॥

3.221.20

यस्तु न च्यवते नित्यं शयसा वर्चसा श्रिया ।
अग्निर्निश्च्यवनो नाम पृथिवीं स्तौति केवलम् ॥

3.221.21

विपाप्मा कलुषैर्मुक्तो विशुद्धश्चार्चिषा ज्वलन् ।
विपापोऽग्निः सुतस्तस्य योज्यः समयकर्मसु ॥

3.221.22

अक्रोशतां हि भूतानां यः करोति हि निष्कृतिम् ।
अग्निः स निष्कृतिर्नाम शोभयत्यभिसेवितः ॥

3.221.23

अनुकूजन्ति येनेह वेदनार्ताः स्वयं जनाः ।
तस्य पुत्रः स्वनो नाम पावकः सरुजस्करः ॥

3.221.24

यस्तु विश्वस् जगतो बुद्धिमाक्रम्य तिष्ठति ।
तं प्राहुरध्यात्मविदो विश्वजिन्नाम पावकम् ॥

3.221.25

अन्तराग्निः स्मृतो यस्तु भुक्तं पचति देहिनाम् ।
स यज्ञे विश्वभुङ्वाम सर्वलोकेषु भारत ॥

3.221.26

ब्रह्मचारी यतात्मा च सततं विपुलप्रभः ।
ब्राह्मणाः पूजयन्त्येनं पाकयज्ञेषु पावकम् ॥

3.221.27

प्रथितो गोपतिर्नाम नदी यस्याभवत्प्रिया ।
तस्मिन्कर्माणि सर्वाणि क्रियन्ते धर्मकर्तृभिः ॥

3.221.28

बडबाग्निः पिबत्यम्भो योसौ परमदारुणः ।
ऊर्द्वभागूर्ध्वभाङ्नाम कविः प्राणाश्रितस्तु यः ॥

3.221.29

उदग्द्वारं हविर्यस्य गृहे नित्यं प्रदीयते ।
ततस्तुष्टो भवेद्ब्रह्मा स्विष्टकृत्परमः स्मृतः ॥

3.221.30

यः प्रशान्तेषु भूतेषु आविर्भवति पावकः ।
क्रोधस्य तु रसो जज्ञे मन्यती चाथ पुत्रिका ॥

3.221.31

स्वाहेति दारुणा क्रूरा सर्वभूतेषु तिष्ठति । त्रिदिवे यस्य सदृशो नास्ति रूपेण कश्चन ।
अतुलत्वात्कृतो देवैर्नाम्ना कामस्तु पावकः ॥

3.221.32

संहर्षाद्धारयन्क्रोधं धन्वी स्रग्वी रथे स्थितः ।
समरे नाशयेच्छत्रूनमोघो नाम पावकः ॥

3.221.33

उक्थ्यो नाम महाभाग त्रिभिरुक्थैरभिष्टुतः । महावर्षं त्वजनयत्सकामाश्वं हि यं विदुः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc