भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.220

3.220.1

श्रुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम् ।
पुनः पप्रच्छ तमृषिं मार्कण्डेयमिदं तदा ॥

3.220.2

कथमग्निर्वनं यातः कथं चाप्यङ्गिराः पुरा ।
नष्टेऽग्नौ हव्यमहवदग्निर्भूत्वा महाद्युतिः ॥

3.220.3

अग्निर्यदा चैक एव बहुत्वं चास्य कर्मसु ।
दृश्यते भगवन्सर्वमेतदिच्छामि वेदितुम् ॥

3.220.4

कुमारश्च यथोत्पन्नो यथा चाग्नेः सुतोऽभवत् ।
यथा रुद्राच्च सम्भूतो गङ्गायां कृत्तिकासु च ॥

3.220.5

एतदिच्छाम्यहं त्वत्तः श्रोतुं भार्गवसत्तम ।
कौतूहलसमाविष्टो याथातथ्यं महामुने ॥
मार्कण्डेय उवाच ।

3.220.6

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
यथा क्रुद्धो हुतवहस्तपस्तप्तुं वनं गतः ॥

3.220.7

यथा च भगवानग्निः स्वयमेवाङ्गेराऽभवत् ।
सन्तापयंश्च प्रभया नाशयंस्तिमिरावलिम् ॥

3.220.8

पुराङ्गिरा महाबाहो चचार तप उत्तमम् । आश्रमस्थो महाभागो हव्यवाहं विशेषयन् ।
यथाग्निर्भूत्वा तु तदा जगत्सर्वं व्यकाशयत् ॥

3.220.9

तपश्चरंस्तु हुतभुक्सन्तप्तस्तस्य तेजसा ।
भृशं ग्लानश्चतेजस्वी न च किञ्चित्प्रजज्ञिवान् ॥

3.220.10

अथ सञ्चिन्तयामास भगवान्हव्यवाहनः ।
अन्योऽग्निरिव लोकानां ब्रह्मणा सम्प्रकल्पितः ॥

3.220.11

अग्नित्वं विप्रनष्टं हि तप्यमानस् मे तपः ।
कथमग्निः पुनरहं भवेयमिति चिन्त्य सः ॥

3.220.12

अपश्यदग्निवल्लोकांस्तापयन्तं महामुनिम् ।
सोपासर्पच्छनैर्भीतस्तमुवाच तदाङ्गिराः ॥

3.220.13

शीघ्रमेव भवस्वाग्निस्त्वं पुनर्लोकभावनः ।
विज्ञातश्चासि लोकेषु त्रिषु संस्थानचारिषु ॥

3.220.14

त्वमग्ने प्रथमः सृष्टो ब्र्हमणा तिमिरापर्हः ।
स्वस्थानं प्रतिपद्यस्व शीघ्रमेव तमो नुद ॥
अग्निरुवाच ।

3.220.15

नष्टकीर्तिरहं लोके भवाञ्जातो हुताशनः ।
भवन्तमेव ज्ञास्यन्ति पावकं न तु मां जनाः ॥

3.220.16

निक्षिपम्यहमग्नित्वं त्वमग्निः प्रथमो भव ।
भविष्यामि द्वितीयोऽहं प्राजापत्यक एव च ॥
अङ्गिरा उवाच ।

3.220.17

कुरु पुण्यं प्रजास्वर्ग्यं भवाग्निस्तिमिरापहः ।
मां च देव कुरुष्वाग्ने प्रथमं पुत्रमञ्जसा ॥
मार्कण्डेय उवाच ।

3.220.18

तच्छ्रुत्वाङ्गिरसो वाक्यं जातवेदास्तथाऽकरोत् ।
राजन्वृहस्पतिर्नाम तस्याप्यङ्गिरसः सुतः ॥

3.220.19

ज्ञात्वा प्रथमजं तं तु वह्नेरङ्गिरसं सुतम् ।
उपेत्य देवाः पप्रच्छुः कारणं तत्र भारत ॥

3.220.20

स तु पृष्टस्तदा देवैस्तत कारणमब्रवीत् ।
प्रत्यगृह्णन्त देवाश्च तद्वचोऽङ्गिरसस्तदा ॥

3.220.21

तत्रनानाविधानग्नीन्प्रवक्ष्यामि महाप्रभान् । कर्मभिर्वहुभिः ख्याताननानार्थान्ब्राह्मणेष्विह ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc