भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.219

3.219.1

एवं शप्तोऽहमृषिणा तदा द्विजबरोत्तम ।
अहं प्रासादयमृषिं गिरा वाक्यविशारदम् ॥

3.219.2

अजानता मयाऽकार्यमिदमद्य कृतं मुने ।
क्षन्तुमर्हसि तत्सर्वं प्रसीद भगवन्निति ॥
ऋषिरुवाच ।

3.219.3

नान्यथा भविता शाप एवमेतदसंशयम् ।
आनृशंस्यात्त्वंहकिञ्चित्कर्ताऽनुग्रहमद्य ते ॥

3.219.4

शूद्रयोन्यां वर्तमानो धर्मज्ञो हि भविष्यसि ।
मातापित्रोश् शुश्रूषां करिष्यसि न संशयः ॥

3.219.5

तयोः शुश्रूषया सिद्धिं महतीं समवाप्स्यसि ।
जातिस्मरश् भविता स्वर्गं चैव गमिष्यसि ॥

3.219.6

भूत्वाच धार्मिको व्याधः पित्रोः शुश्रूषणे रतः ।
शापक्षये तु निर्वृत्ते भविताऽसि पुनर्द्विजः ॥

3.219.7

एवं शप्तः पुरा तेन ऋषिणाऽस्म्युग्रतेजसा ।
प्रसादश्च कृतस्तेन ममैव द्विपदांवर ॥

3.219.8

शरं चोद्धृतवानस्मि तस्य वै द्विजसत्तम ।
आश्रमं च मया नीतो न च प्राणैर्व्ययुज्यत ॥

3.219.9

एतत्ते सर्वमाख्यातं यथा मम पुराऽभवत् ।
अभितश्चापि गन्तव्यो मया स्वर्गो द्विजोत्तम ॥
ब्राह्मण उवाच ।

3.219.10

एवमेतानि पुरुषा दुःखानि च सुखानि च ।
आप्नुवन्ति महाबुद्धे नोत्कण्ठां कर्तुमर्हसि ॥

3.219.11

दुष्करं हि कृतन्कर्म जानता जातिमात्मनः । [लोकवृत्तान्ततत्त्वज्ञ नित्यं धर्मपरायण ॥ ]

3.219.12

कर्मदोषाच्च वै विद्वन्नात्मजातिकृतेन वै ।
कञ्चित्कालं मृष्यतां वै ततोसि भविता द्विजः ॥

3.219.13

साम्प्रतं च मतो मेऽसि ब्राह्मणो नात्र संशयः ॥

3.219.14

ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु ।
दाम्भिक्वो दुष्कृतप्रायः शूद्रेण सदृशो भवेत् ॥

3.219.15

यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः ।
तं ब्राह्मणमहं मन्ये वृत्तेन हि भवेद्द्विजः ॥

3.219.16

कर्मदोषेण विषमां गतिमाप्तोसि दारुणाम् ।
क्षीणदोषमहं मन्ये चाभितस्त्वां नरोत्तम ॥

3.219.17

कर्तुमर्हसि नोत्कण्ठां त्वद्विधा ह्यविषादिनः ।
लोकवृत्तान्ततत्वज्ञा नित्यं धर्मपरायणाः ॥
व्याध उवाच ।

3.219.18

प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः ।
एतद्विज्ञानसामर्थ्यं न बालै समतामियात् ॥

3.219.19

अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रयिस्य च ।
मनुष्या मानसैर्दुःखैर्युज्यन्ते चाल्पबुद्धयः ॥

3.219.20

गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च ।
सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते ॥

3.219.21

अनिष्टनान्वितं पश्यंस्तथा क्षिप्रं विरज्यते ।
ततश्च प्रतिकुर्वन्ति यदि पश्यन्त्युपक्रमम् ॥

3.219.22

शोचतो न भवेत्किञ्चित्केवलं परितप्यते ।
परित्यजन्ति ये दुःखं सुखं वाऽप्युभयं नराः ॥

3.219.23

त एव सुखमेधन्ते ज्ञानतृप्ता मनीषिणः ।
असन्तोषपरा मूढाः सन्तोषं यानति पण्डिताः ॥

3.219.24

असन्तोषस्य नास्त्यन्तस्तुष्टिस्तु परमं सुखम् ।
न शोचन्ति गताध्वानः पश्यन्तः परमां गतिं ॥

3.219.25

न विषादे मनः कार्यं विषादो विषमुत्तमम् ।
मारयत्यकृतप्रज्ञं बालं क्रुद्ध इवोरगः ॥

3.219.26

यंविषादोऽभिभवति विषमे समुपस्थिते ।
तेजसा तस् हीनस्य पुरुषार्थो न विद्यते ॥

3.219.27

अवश्यं क्रियमाणस् कर्मणो दृश्यते फलम् ।
न हि निर्वेदमागम्य किञ्चित्प्राप्नोति शोभनम् ॥

3.219.28

अथाप्युपायं पश्येत दुःखस् परिमोक्षणे ।
अशोचन्नारभेतैव युक्तश्चाव्यसनी भवेत् ॥

3.219.29

भूतेष्वभावं सञ्चिन्त्य ये तु बुद्धेः परं गताः ।
न शोचन्ति कृतप्रज्ञाः पश्यन्तः परमां गतिम् ॥

3.219.30

न शोचामि रमे विद्वन्कालाकाङ्क्षी स्थितोस्म्यहम् ।
एतैर्निदर्शनैर्ब्रह्मन्नावसीदामि सत्तम ॥
ब्राह्मण उवाच ।

3.219.31

कृतप्रज्ञोसि मेधावी बुद्धिश्च विपुला तव ।
पापान्निवृत्तोसि सदा ज्ञानवृद्धोसि धर्मवित् ॥

3.219.32

आपृच्छे त्वां स्वस्ति तेऽस्तु धर्मस्त्वां परिरक्षतु ।
अप्रमादस्तु कर्तव्यो धर्मे धर्मभृतांवर ॥
मार्कण्डेय उवाच ।

3.219.33

बाढमित्येव तं व्याधः कृताञ्जलिरुवाच ह ।
प्रदक्षिणमथो कृत्वा प्रस्थितो द्विजसत्तमः ॥

3.219.34

स तु गत्वाद्विजः सर्वां शुश्रूषां कृतवांस्तदा ।
मातापितृभ्यामन्धाभ्यां यथान्यायं सुसंशितः ॥

3.219.35

एतत्ते सर्वमाख्यातं निखिलेन युधिष्ठिर ।
पृष्टवानसि यं तात धर्मं धर्मभृतांवर ॥

3.219.36

पतिव्रताया माहात्म्यं ब्राह्मणस्य च सत्तम ।
मातापित्रोश्च शुश्रूषा धर्मव्याधेन कीर्तिता ॥
युधिष्ठिर उवाच ।

3.219.37

अत्यद्भुतमिदं ब्रह्मन्धर्माख्यानमनुत्तमम् ।
सर्वधर्मविदांश्रेष्ठ कथितं मुनिसत्तम ॥

3.219.38

सुखश्राव्यतया विद्वन्मुहूर्त इव मे गतः । न हि तृप्तोस्मि भगवञ्शृण्वानो धर्ममुत्तमम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc