भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.211

3.211.1

स तु विप्रो महाप्राज्ञ धर्मव्याधमपृच्छत ।
शिष्टाचारं कथमहं विद्यामिति नरोत्तम ॥

3.211.2

पञ्च कानि पवित्राणि शिष्टाचारेषु नित्यदा । एतदिच्छामि भद्रं ते श्रोतुं धर्मभृतांवर ।
त्वत्तो महामते व्याध तद्ब्रवीहि यथातथम् ॥
व्याध उवाच ।

3.211.3

यज्ञो दानं तपो वेदाः सत्यं च द्विजसत्तम ।
पञ्चैतानि पवित्राणि शिष्टाचारेषु नित्यदा ॥

3.211.4

कामक्रोधौ वशे कृत्वा दम्भं लोभमनार्जवम् ।
धर्ममित्येवं सन्तुष्टास्ते शिष्टाः शिष्टसम्मताः ॥

3.211.5

न तेषां भिद्यते वृत्तं यज्ञस्वाध्यायशीलिनाम् ।
आचारपालनं चैव द्वितीयं शिष्टलक्षणम् ॥

3.211.6

गुरुशुश्रूषणं सत्यमक्रोधो दानमेव च ।
एतच्चतुष्टयं ब्रह्मञ्शिष्टाचारेषु नित्यदा ॥

3.211.7

शिष्टाचारे मनः कृत्वा प्रतिष्ठाप्य च सर्वशः ।
यामयं लभते तुष्टिं सा न शक्या ह्यतोऽन्यथा ॥

3.211.8

वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः ।
दमस्योपनिषत्त्यागः शिष्टाचारेषु नित्यदा ॥

3.211.9

ये तु धर्मानसूयन्ते बुद्धिमोहान्विता नराः ।
अपथा गच्छतां तेषामनुयाता च पीड्यते ॥

3.211.10

ये तु शिष्टाः सुनियताः श्रुतित्यागपरायणाः ।
धर्मपन्थानमारूढाः सत्यधर्मपरायणाः ॥

3.211.11

नियच्छन्ति परां बुद्धिं शिष्टाचारान्विता जनाः ।
उपाध्यायमते युक्ताः स्थित्या धर्मार्थदर्शिनः ॥

3.211.12

नास्तिकान्भिन्नमर्यादान्क्रूरान्पापमतौ स्थितान् ।
त्यज ताञ्ज्ञानमाश्रित्य धार्मिकानुपसेव्य च ॥

3.211.13

कामलोभग्रहाकीर्णं पञ्चेन्द्रियजलां नदीम् ।
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि सन्तर ॥

3.211.14

क्रमेण सञ्चितो धर्मो बुद्धियोगमयो महान् ।
शिष्टाचारे भवेत्साधू रागः शुक्ले व वाससि ॥

3.211.15

अहिंसा सत्यवचनं सर्वभूतहितं परम् । अहिंसा परमो धर्मः स च सत्ये प्रतिष्ठितः ।
सत्यं कृत्वा प्रतिष्ठां तु प्रवर्तन्ते प्रवृत्तयः ॥

3.211.16

सत्यमेव गरीयस्तु शिष्टाचारनिषेवितम् ।
आचारश्च सतां धर्मः सन्तो ह्याचारलक्षणाः ॥

3.211.17

यो यथा प्रकृतिर्जन्तुः स स्वां प्रकृतिमश्नुते ।
पापात्मा क्रोधकामादीन्दोषानाप्नोत्यनात्मवान् ॥

3.211.18

आरम्भो न्याययुक्तो यः स हि धṟम इति स्मृतः ।
अनाचारस्त्वध्रमेति एतच्छिष्टानुशासनम् ॥

3.211.19

अक्रुध्यन्तोऽनसूयन्तो निरहन्कारमत्सराः ।
ऋजवः शमसम्पन्नाः शिष्टाचारा भवन्ति ते ॥

3.211.20

त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो मनस्विनः ।
गुरुशुश्रूषवो दान्ताः शिष्टाचारा भवन्त्युत ॥

3.211.21

तेषामहीनसत्वानां दुष्कराचारकर्मणाम् ।
स्वैः कर्मभिः सत्कृतानां घोरत्वं सम्प्रणश्यति ॥

3.211.22

तं तदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम् ।
धर्म्यं धर्मेण पश्यन्तः स्वर्गं यान्ति मनीषिणः ॥

3.211.23

आस्तिका मानहीनाश्च द्विजातिजनपूजकाः ।
श्रुतवृत्तोपसम्पन्नास्ते सन्तः स्वर्गगामिनः ॥

3.211.24

वेदोक्तः प्रथमो धर्मो धर्मशास्त्रेषु चापरः ।
शिष्टाचीर्णश् शिष्टानां त्रिविधं धर्मलक्षणम् ॥

3.211.25

धारणं चापि वेदानां तीर्थानामवगाहनम् ।
क्षमा सत्यार्जवं शौचं शिष्टाचारनिदर्शनम् ॥

3.211.26

सर्वभूतदयावन्तो ह्यहिंसानिरताः सदा ।
परुषं च न भाषन्ते सदा सन्तो द्विजप्रियाः ॥

3.211.27

शुभानामशुभानां च कर्मणां सबलाश्रयम् ।
विपाकमभिजानन्ति ते शिष्टाः शिष्टसम्मताः ॥

3.211.28

न्यायोपेता गुणोपेताः सर्वलोकहितैषिणः । सन्तः स्वर्गजितः शक्त्या सन्निविष्टाश्च सत्पथे ।
दातारः संविभक्तारो दीनानुग्रहकारिणः ॥

3.211.29

सर्वपूज्याः श्रुतधनास्तथैव च तपस्विनः ।
सर्वभूतदयावन्तस्ते शिष्टाः शिष्टसम्मताः ॥

3.211.30

दाननित्याः सुखान्याशु प्राप्नुवन्त्यपि च श्रियम् ।
पीडया च कलत्रस्य भृत्यानां च समाहिताः ॥

3.211.31

अतिशक्त्या प्रयच्छन्ति सन्तः सद्भिः समागताः । लोकयात्रां च पशय्न्तो धर्ममात्महितानि च ।
एवं सन्तोवर्तमानास्त्वेधन्ते शाश्वतीः समाः ॥

3.211.32

अहिंसा सत्यवचनमानृशंस्यवथार्जवम् ।
अद्रोहो नातिमानश्च ह्रीस्तितिक्षा दमः शमः ॥

3.211.33

धीमन्तो धृतिमन्तश्च भूतानामनुकम्पकाः ।
अकामद्वेषसंयुक्तास्ते सन्तो लोकसत्कृताः ॥

3.211.34

त्रीण्येव तु पदान्याहुः सतां वृत्तमनुस्मरन् ।
न चैव द्रुह्येद्दद्याच्च सत्यं चैव सदा वदेत् ॥

3.211.35

सर्वत्र च दयावन्तः सन्तः करुणवेदिनः ।
गच्छन्तीह सुसन्तुष्टा धर्म्यं पन्थानमुत्तमम् ॥

3.211.36

शिष्टाचारा महात्मानो येषां धर्मः सुनिश्चितः ।
अनसूया क्षमा शान्तिः सन्तोषः प्रियवादिता ॥

3.211.37

कामक्रोधपरित्यागः शिष्टाचारनिषेवणम् ।
कर्म च श्रुतसम्पन्नं सतां मार्गमनुत्तमम् ॥

3.211.38

शिष्टाचारं निषेवन्ते नित्यं ध्रममनुव्रताः ।
प्रज्ञाप्रासादमारूह्य मुह्यतो महतो जनान् ॥

3.211.39

प्रेक्षन्ते लोकवृत्तानि विविधानि द्विजोत्तमाः ।
अतिषुण्यानि दानानि तानि द्विजवरोत्तम ॥

3.211.40

एतत्ते सर्वमाख्यातं यथाप्रज्ञं यथाश्रुतम् । शिष्टाचारगुणान्ब्रह्मन्पुरस्कृत्य द्विजर्षभ ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc