भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.210

3.210.1

चिन्तयित्वा तदाश्चर्यं स्त्रिया प्रोक्तमशेपतः ।
विनिन्दन्स द्विजोऽत्मानमागस्कृत इवाबभौ ॥

3.210.2

चिन्तयानः स धर्मस्य सूक्ष्मां गतिमथाब्रवीत् ।
श्रद्दधानेन वै भाव्ये गच्छामि मिथिलामहम् ॥

3.210.3

कृतात्मा धर्मवित्तस्यां व्याधो निवसते किल ।
तं गच्चाम्यहमद्यैव धर्मं प्रष्टुं तपोधनम् ॥

3.210.4

इतिसञ्चिन्त्य मनसा श्रद्दधानः स्त्रिया वचः ।
बलाकाप्रत्ययेनासौ धर्म्यैश्च वचनैः शुभैः ॥

3.210.5

सम्प्रतस्थे स मिथिलां कौतूहलसमन्वितः ।
अतिक्रामन्नरण्यानि ग्रामांश्च नगराणि च ॥

3.210.6

ततो जगाम मिथिलां जनकेन सुरक्षिताम् ।
धर्मसेतुसमाकीर्णां यज्ञोत्सववतीं शुभाम् ॥

3.210.7

गोपुराट्टालकवतीं हर्म्यप्राकारशोभनाम् ।
प्रविश्य नगरीं रम्यां विमानैर्बहुभिर्युताम् ॥

3.210.8

पण्यैश्च बहुभिर्युक्तां सुविभक्तमहापथाम् ।
अश्वै रथैस्तथा नागैर्योधैश्च बहुभिर्युताम् ॥

3.210.9

हृष्टपुष्टजनाकीर्णां नित्योत्सवसमाकुलाम् ।
सोऽपस्यद्बहुवृत्तान्तां ब्राह्मणः समतिक्रमन् ॥

3.210.10

धर्मव्याधमपृच्छच्च स चास्य कथितो द्विजैः ।
अपश्यत्तत्रगत्वा तं सूनामध्ये व्यवस्थितम् ॥

3.210.11

मार्गमाहिपमांसानि विक्रीणन्तं तपस्विनम् ।
आकुलत्वाच्च क्रेतृणामेकान्ते संस्थितो द्विजः ॥

3.210.12

स तु ज्ञाता द्विजं प्राप्तं सहसा सम्भ्रमोत्थितः ।
आजगाम यतो विप्रः स्थित एकान्तआसने ॥
व्याध उवाच ।

3.210.13

अभिवादये त्वां भगवन्स्वागतं ते द्विजोत्तम ।
अहं व्याधो हि भद्रं ते किं करोमि प्रशाधि माम् ॥

3.210.14

एकपत्न्या यदुक्तोसि गच्छ त्वं मिथिलामिति ।
जानाम्येतदहं सर्वं यदर्थं त्वमिहागतः ॥

3.210.15

श्रुत्वा च तस्य तद्वाक्यं स विप्रो भृशविस्मितः ।
द्वितीयमिदमाश्चर्यमित्यचिन्तयत द्विजः ॥

3.210.16

अदेशस्थं हि ते स्तानमिति व्याघोऽब्रवीद्द्विजम् ।
गृहं गच्छाव भगवन्यदि ते रोचतेऽनघ ॥
मार्कण्डेय उवाच ।

3.210.17

बाढमित्येव तं विप्रो हृष्टो वचनमब्रवीत् ।
अग्रतस्तु द्विजं कृत्वा स जगाम गृहं प्रति ॥

3.210.18

प्रविश्य च गृहंरम्यमासनेनाभिपूजितः ।
अर्ध्येण च स वै तेन व्याधेन द्विजसत्तमः ॥

3.210.19

पाद्यमाचमनीयं च प्रतिगृह्य द्विजोत्तमः ।
ततः सुखोपविष्स्तं व्याधं वचनमब्रवीत् ॥

3.210.20

कर्मैतद्वै न सदृशं भवतः प्रतिभाति मे ।
अनुतप्ये भृशं तात तव घोरेण कर्मणा ॥
व्याध उवाच ।

3.210.21

कुलोचितमिदं कर्म पितृपैतामहं परम् ।
वर्तमानस्य मे धर्मे स्वे मन्युं मा कृथा द्विज ॥

3.210.22

विधात्रा विहितं पूर्वं कर्म स्वमनुपालयन् ।
प्रयत्नाच्च गुरू वृद्धौ शुश्रूषेऽहं द्विजोत्तम ॥

3.210.23

सत्यं वदे नाभ्यसूये यथाशक्ति ददामि च ।
देवतातिथिभृत्यानामवशिष्टेन वर्तये ॥

3.210.24

न कुत्सयाम्यहं किञ्चिन्न गर्हे बलवत्तरम् ।
कृतमन्वेति कर्तारं पुरा कर्म द्विजेत्तम ॥

3.210.25

कृषिगोरक्ष्यवाणिज्यमिह लोकस्य जीवनम् ।
दण्डनीतिस्त्रयो विद्या तेन लोको भवत्युत ॥

3.210.26

कर्म शूद्रे कृषिर्वैश्ये सन्ग्रामः क्षत्रिये स्मृतः ।
ब्रह्मचर्यतपोमन्त्राः सत्यं च ब्राह्मणे सदा ॥

3.210.27

राजा प्रशास्ति धर्मेण स्वकर्मनिरताः प्रजाः ।
विकर्माणश्च ये केचित्तान्युनक्ति स्वकर्मसु ॥

3.210.28

भेतव्यं हि सदा राज्ञां प्रजानामधिपा हिते ।
मारयन्ति विकर्मस्थं लुब्धा मृगमिवेषुभिः ॥

3.210.29

जनकस्येह विप्रर्षे विकर्मस्थो न विद्यते ।
स्वकर्मनिरता वर्णाश्चत्वारोपि द्विजोत्तम ॥

3.210.30

स एष जनको राजा दुर्वृत्तमपि चेत्सुतम् ।
दण्ड्यं दण्डे निक्षिपति यथा न ग्लाति धार्मिकम् ॥

3.210.31

सुयुक्तचारो नृपतिः सर्वं धर्मेण पश्यति ।
श्रीश्च राज्यं च दण्डश्च क्षत्रियाणां द्विजोत्तम ॥

3.210.32

राजानो हि स्वधर्मेण श्रियमिच्छन्ति भूयसीम् ।
सर्वेषामेव वर्णानां त्राता राजा भवत्युत ॥

3.210.33

परेण हि हतान्ब्रह्मन्वराहमहिषानहम् ।
न स्वयं हन्मि विप्रर्षे विक्रीणामि सदा त्वहम् ॥

3.210.34

न भक्षयामि मांसानि ऋतुगामी तथाह्यहम् ।
सदोपवासी च तथा नक्तभोजी सदा द्विज ॥

3.210.35

अशीलश्चापि पुरुषो भूत्वा भवति शीलवान् ।
प्राणिहिंसारतिश्चापि भवते धार्मिकः पुनः ॥

3.210.36

व्यभिचाराननरेन्द्राणां धर्मः सन्कीर्यते महान् ।
अधर्मो वर्तते चापि सन्कीर्यन्ते ततः प्रजाः ॥

3.210.37

भेरुण्डा वामनाः कुब्जाः स्थूलशीर्षास्तथैव च ।
क्लीबाश्चान्धाश्च बधिरा जायन्तेऽत्युच्चलोचनाः ॥

3.210.38

पार्थिवानामधर्मत्वात्प्रजानामभवः सदा ।
स एष राजा जनकः प्रजा धर्मेण पश्यति ॥

3.210.39

अनुगृह्णन्प्रजाः सर्वाः स्वधर्मनिरताः सदा ।
पात्येष राजा जनकः पितृवद्द्विजसत्तम ॥

3.210.40

येचैव मां प्रशंसन्ति येच निन्दन्ति मानवाः ।
सर्वान्सुपरिणीतेन कर्माणा तोषयाम्यहम् ॥

3.210.41

ये जीवन्ति स्वधर्मेण संयुञ्जन्ति च पार्थिवाः ।
न किञ्चिदुपजीवनति दान्ता उत्थानसीलिनः ॥

3.210.42

शक्त्याऽन्नदानं सततं तितिक्षा धर्मनित्यता ।
यथार्हं प्रतिपूजा च सर्वभूतेषु वै दया ॥

3.210.43

त्यागान्नान्यत्र मर्त्यानां गुणास्तिष्ठान्ति पूरुषे ।
मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः ॥

3.210.44

न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् ।
प्रिये नातिभृशं हृष्येदप्रिये न च सञ्ज्वरेत् ॥

3.210.45

न मुह्येदर्थकृच्छ्रेषु न च धṟमं परित्यजेत् ।
कर्म चेत्किञ्चिदन्यत्स्यादितरन्न तदाचरेत् ॥

3.210.46

यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत् ।
न पापं प्रति पापः स्यात्साधुरेव सदा भवेत् ॥

3.210.47

आत्मनैव हतः पापो यः पापं कर्तुमिच्छति ।
कर्म चैतदसाधूनां वृजिनानामसाधुकम् ॥

3.210.48

न धर्मोस्तीति मन्वानाः शुचीनवहसन्ति ये ।
अश्रद्दधाना धर्मस् ते नश्यन्ति न संशयः ॥

3.210.49

महादृतिरिवाध्मातः पापो भवति नित्यदा ।
साधुः सन्नतिमानेव सर्वत्रद्विजसत्तम ॥

3.210.50

मूढानामवलिप्तानामसारं भाषितं भवेत् ।
दर्शयन्त्यन्तरात्मानं दिवा रूपमिवांशुमान् ॥

3.210.51

न लोके राजते मूर्खः केवलात्मप्रशंसया ।
अपिचेह मृजाहीनः कृतविद्यः प्रकाशते ॥

3.210.52

अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन् ।
न कश्चिद्गुणसम्पन्नः प्रकाशो भुवि दृश्यते ॥

3.210.53

विकर्मणा तप्यमानः पापाद्विपरिमुच्यते ।
न तत्कुर्यां पुनरिति द्वितीयात्परिमुच्यते ॥

3.210.54

कर्मणा येन केनापि पापात्मा द्विजसत्तम ।
एवं श्रुतिरियं ब्रह्मन्धर्मेषु प्रतिदृश्यते ॥

3.210.55

पापनि बुद्ध्वेह पुरा कृतानि स्वधर्मशीलो विनिहन्ति पश्चात् ।
धर्मो ब्रह्मन्नुदते ब्राह्मणानां यत्कुर्वते पापमिह प्रमादात् ॥

3.210.56

पापं कृत्वा हि मन्येत नाहमस्मीति पूरुषः ।
[तं तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः] ॥

3.210.57

चिकीर्षेदेव कल्यायणं श्रद्दधानोऽनसूयकः ॥

3.210.58

वसनस्येव च्छिद्राणै साधूनां विवृणोति यः ।
अपश्यन्नात्मनो दोषान्स पापः प्रेत्य नश्यति ॥

3.210.59

पापं चेत्पुरुषः कृत्वा कल्याणमभिपद्यते ।
मुच्यते सर्वपापेभ्यो महाभ्रेणेव चन्द्रमाः ॥

3.210.60

यथाऽदित्यः समुद्यन्वै तमः सर्वं व्यपोहति ।
एवं कल्याणमातिष्ठन्सर्वपापैः प्रमुच्यते ॥

3.210.61

पापानां विद्ध्यधिष्ठानं लोभमोहौ द्विजोत्तम ।
तस्मात्तौ विदुषा विप्र वर्जनीयौ विशेषतः ॥

3.210.62

लुबधाः पापं व्यवस्यन्ति नरा नातिबहुश्रुताः ।
अधर्म्या धर्मरूपेण तृणैः कूपा इवावृताः ॥

3.210.63

येषां पञ् पवित्राणि प्रलापा धर्मसंश्रितः । सर्वं हि विद्यते तेषु शिष्टाचारः सुदुर्लभः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc