भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.212

3.212.1

स तु विप्रमथोवाच धर्मव्याधो युधिष्ठिर ।
यदहं ह्याचरे कर्म घोरमेतदसंशयम् ॥

3.212.2

विधिस्तु बलवान्ब्रह्मन्दुस्तरं हि पुरा कृतम् ।
पुरा कृतस् पापस्य कर्मदोषो भवत्ययम् ॥

3.212.3

दोपस्यैतस्य वै ब्रह्मन्विघाते यत्नवानहम् ।
विधिना हि हते पूर्वं निमित्तं घातको भवेत् ॥

3.212.4

निमित्तभूता हि वयं कर्मणोऽस्य द्विजोत्तम ॥

3.212.5

येषां हतानां मांसानि विक्रीणीमो वयं द्विज । तेषामपि भवेद्धर्म उपयोगेन भक्षणात् ।
देवतातिथिभृत्यानां पितृणां चापि पूजनात् ॥

3.212.6

ओषध्यो वीरुधश्चैव पशवो मृगपक्षिणः ।
अन्नाद्यभूता लोकस्य इत्यपि श्रूयते श्रुतिः ॥

3.212.7

आत्ममांसप्रसादेन शिबिरौशीनरो नृपः ।
स्वर्गं सुदुर्लभं प्राप्तः क्षमावान्द्विजसत्तम ॥

3.212.8

राज्ञो महानसे पूर्वं रन्तिदेवस्य वै द्विज । [द्वे सहस्रे तु पच्छेते पशूनामन्वहं तदा.]
अहन्यहनि पच्येते द्वे सहस्रे गवां तथा ॥

3.212.9

स मासं ददतो ह्यन्नं रन्तिदेवस्य नित्यशः ।
अतुला कीर्तिरभवन्नृपस्य द्विजसत्तम ॥

3.212.10

चातुर्मास्ये च पशवो वध्यन्त इति नित्यशः ।
अग्नयो मांसकामाश्चैत्यपि श्रूयते श्रुतिः ॥

3.212.11

यज्ञेषु पशवो ब्रह्मन्वध्यन्ते सततं द्विजैः ।
संस्कृताः किल मन्त्रैश्च तेऽपि स्वर्गमवाप्नुवन् ॥

3.212.12

यदि नैवाग्नयो ब्रह्मन्मांसकामाऽभवन्पुरा ।
भक्ष्यं नैवाभवन्मांसं कस्यचिद्द्विजसत्तम ॥

3.212.13

अत्रापि विधिरुक्तश् मुनिभिर्मांसभक्षणे ॥

3.212.14

देवतानां पितृणां च शुङ्क्ते दत्त्वाऽपियः सदा ।
यथाविधि यथाश्रद्धं न स दुष्येत भक्षणात् ॥

3.212.15

अमांसाशी भवत्येवमित्यपि श्रूयते श्रुतिः ।
भार्यां गच्छन्ब्रह्मचारी ऋतौ भवति ब्राह्मणः ॥

3.212.16

सत्यानृते विनिश्चित्य अत्रापि विधिरुच्यते । सौदासेन तदा राज्ञा मानुषा भक्षिता द्विज ।
शापाभिभूतेन भृशमत्र किं प्रतिभाति ते ॥

3.212.17

स्वधर्म इतिकृत्वा तु न त्यजामि द्विजोत्तम ।
पुरा कृतमिति ज्ञात्वा रजीवाम्येतेन कर्मणा ॥

3.212.18

स्वधर्मं त्यजतो ब्रह्मन्नधर्म इह दृश्यते ।
स्वकर्मनिरतो यस्तु धर्मः स इति निश्चयः ॥

3.212.19

कुले हि विहितं कर्म देही तं न विमुञ्चति ।
धात्रा विधिरयं दृष्टो बहुधा कर्मनिर्मये ॥

3.212.20

द्रष्टव्यस्तु भवेद्ब्रह्मन्धर्मो धर्मविनिश्चये ।
कथं कर्म शुभं कुर्यां कथं मुच्ये पराभवात् ॥

3.212.21

कर्मणस्तस्य घोरस् वसुधा निर्णयो भवेत् । दाने च सत्यवाक्ये च गुरुशुश्रूणे तथा ।
द्विजातिपूजने चाहं धर्मे च निरतः सदा ॥

3.212.22

अतिमानातिवादाभ्यां निवृत्तोस्मि द्विजोत्तम ।
कृषिं साध्वीति मन्यन्ते तत्र हिंसा परा स्मृता ॥

3.212.23

कर्षन्तो लाङ्गलैरुर्वीं घ्नन्ति भूमिशयान्बहून् ।
जीवानन्यांश्च बहुशस्तत्रकिं प्रतिभाति ते ॥

3.212.24

धान्यबीजानि यान्याहुर्व्रीह्यादीनि द्विजोत्तम ।
सर्वाण्येतानि जीवा हि तत्र किं प्रतिभाति ते ॥

3.212.25

अध्याक्रम् पशूंश्चापि घ्नन्ति वै भक्षयन्ति च ।
वृक्षांस्तथौषधीश्चापि छिन्दन्ति पुरुषा द्विज ॥

3.212.26

जीवा हि बहवो ब्रह्मन्वृक्षेषु च फलेषु च ।
उदके बहवश्चापि तत्रकिं प्रतिभाति ते ॥

3.212.27

सर्वं व्याप्तमिदं ब्रह्मन्प्राणिभिः प्राणिजीवनैः ।
मत्स्यान्ग्रसन्ते मत्स्याश्च तत्रकिं प्रतिभाति ते ॥

3.212.28

सत्वैः सत्वानि जीवन्ति बहुधा द्विजसत्तम ।
प्राणिनोऽन्योन्यभक्षाश्च तत्रकिं प्रतिभाति ते ॥

3.212.29

चङ्क्रम्यमाणा जीवांश्च धरणीसंश्रितान्बहून् ।
पद्भ्यां घ्नन्ति नरा विप्र तत्र किं प्रतिभाति ते ॥

3.212.30

उपविष्टाः शयानाश्च घ्नन्ति जीवाननेकशः ।
अज्ञानादथवा ज्ञानात्तत्रकिं प्रतिभाति ते ॥

3.212.31

जीवैर्ग्रस्तमिदं सर्वमाकाशं पृथिवी तथा ।
अविज्ञानाच्च हिंसन्ति तत्र किं प्रतिभाति ते ॥

3.212.32

अहिंसेति यदुक्तं हि पुरुषैर्विस्मितैः पुरा ।
के न हिंसन्ति जीवान्वै लोकेऽस्मिन्द्विजसत्तम् ॥

3.212.33

बहु सञ्चिन्त्य इह वै नास्ति कश्चिदहिंसकः ॥

3.212.34

अहिंयासां तु निरता यतयो द्विजसत्तम ।
कुर्वन्त्येव हि हिंसां ते यत्नादल्पतरा भवेत् ॥

3.212.35

आलक्ष्याश्चैव पुरुषाः कुले जाता महागुणाः ।
महाघोराणि कर्माणि कृत्वा लज्जन्ति वै न च ॥

3.212.36

सुहृदः सुहृदोऽन्यांस्च दुर्हृदश्चापि दुर्हृदः ।
सम्यक्प्रवृत्तान्पुरुषानन सम्यगनुपश्यति ॥

3.212.37

समृद्धैश्चन नन्दन्ति बान्धवा बान्धवैरपि ।
गुरूंश्चैव विनिदन्ति मूढा निश्चितमानिनः ॥

3.212.38

बहु लोके विपर्यस्तं दृश्यते द्विजसत्तम ।
धर्मयुक्तमधर्मं च तत्र किं प्रतिभाति ते ॥

3.212.39

वक्तुं बहुविधं शक्यं धर्माधर्मेषु कर्मसु । स्वकर्मनिरतो यो हि स यशः प्राप्नुयान्महत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc