भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.209

3.209.1

कश्चिद्द्विजातिप्रवरो वेदाध्यायी तपोधनः ।
तपस्वी धर्मशीलश्च कौशिको नाम भारत ॥

3.209.2

साङ्गोपनिषदान्वेदानधीते द्विजसत्तमः ।
सवृक्षमूले कस्मिंश्चिद्वेदानुच्चारयन्स्थितः ॥

3.209.3

उपरिष्टाच्च वृक्षस्य बलाका सन्न्यलीयत ।
तया पुरीषमुत्सृष्टं ब्राह्मणस्य तदोपरि ॥

3.209.4

समवेक्ष्यततः क्रुद्धः सममध्यायत द्विजः ।
तां बलकां महाराज निलीनां नगमूर्धनि ॥

3.209.5

भृशं क्रोधाभिभूतेन बलाका सा निरीक्षिता ।
अपध्याता च विप्रेण न्यपतद्धरणीतले ॥

3.209.6

बलाकां पतितां दृष्ट्वा गतसत्वामचेतनाम् । कारुण्यादभिसन्तप्तः पर्यशोचत तां द्विजः ।
अकार्यं कृतवानस्मि द्वेषरागबलात्कृतः ॥

3.209.7

इत्युक्ताव बहुशो विद्वान्ग्रामं भैक्षाय संश्रितः ।
ग्रामे शुचीनि प्रचरन्कुलानि भरतर्षभ ॥

3.209.8

देहीति याचमानोऽसौ तिष्ठेत्युक्तः स्त्रिया ततः ।
शौचं तु यावत्कुरुते भाजनस्य कुटुम्बिवी ॥

3.209.9

एतस्मिन्नन्तरे राजन्क्षुधासम्पीडितो भृशम् ।
भर्ता प्रविष्टः सहसा तस्या भरतसत्तम ॥

3.209.10

सा तु दृष्ट्वा पतिं साध्वी ब्राह्मणं व्यपहाय तम् ।
पाद्यमाचमनीयं वै ददौ भर्तुस्तथाऽसनम् ॥

3.209.11

प्रह्वा पर्यचरच्चापि भर्तारमसितेक्षणा ।
आहारेणाथ भक्ष्यैश्च वाक्यैः सुमधुरैस्तथा ॥

3.209.12

उच्छिष्टं भाविता भर्तुर्भुङ्क्ते नित्यं युधिष्ठिर ।
दैवतं च पतिं मेने भर्तुश्चित्तानुसारिणी ॥

3.209.13

कर्मणा मनसा वाचा नात्यश्नान्नापि चापिवत् ।
तं सर्वभावोपगता पतिशुश्रूषणे रता ॥

3.209.14

साध्वाचारा शुचिर्दक्षा कुटुम्बस्य हितैषिणी ।
भर्तुश्चापि हितं यत्तत्सततं साऽनुवर्तते ॥

3.209.15

देवतातिथिभृत्यानां श्वश्रूश्वशुरयोस्तथा ।
शुश्रूषणपरा नित्यं सततं संयतेन्द्रिया ॥

3.209.16

सा ब्राह्मणं तदा दृष्ट्वा संस्थितं भैक्षकाङ्क्षिणम् ।
कुर्वती पतिशुश्रूषां सस्माराथ शुभेक्षणा ॥

3.209.17

व्रीडिता साऽभवत्साध्वी तदा भरतसत्तम ।
भिक्षामादाय विप्राय निर्जगाम यशस्विनी ॥
ब्राह्मण उवाच ।

3.209.18

किमिदं भवति त्वं मां तिष्ठेत्युक्त्वा वराङ्गने ।
उपरोधं कृतवती न विसर्जितवत्यसि ॥
मार्कण्डेय उवाच ।

3.209.19

ब्राह्मणं क्रोधसन्तप्तं ज्वलन्तमिव तेजसा ।
दृष्ट्वा साध्वी मनुष्येन्द्रसान्त्वपूर्वं वचोऽब्रवीत् ॥

3.209.20

क्षमस्वविप्रप्रवर क्षमस्व स्त्रीजडात्मताम् ।
प्रसीद भगवन्मह्यं कृपां कुरु मयि द्विज ॥

3.209.21

क्षन्तुमर्हसि मे विद्वन्भर्ता मे दैवतं महत् ।
स चापि क्षुधितः श्रान्तः प्राप्तः शुश्रूषितोमया ॥
ब्राह्मण उवाच ।

3.209.22

ब्राह्मणआ न गरीयांसो गरीयांस्ते पतिः कृतः ।
गृहस्थधर्मे वर्तन्ती ब्राह्मणानवमन्यसे ॥

3.209.23

इन्द्रोऽप्येषां प्रणमते किं पुनर्मानवो भुवि ।
अवलिप्ते न जानीषे वृद्धानां न श्रुतं त्वया ॥

3.209.24

ब्राह्मणा ह्यग्निसदृशा दहेयुः पृथिवीमपि ।
सपर्वतवनद्वीपां क्षिप्रमेवावमानिताः ॥
स्त्र्युवाच ।

3.209.25

[नाहं बलाका विप्रर्षे त्यज क्रोधं तपोधन । अनया क्रुद्धया दृष्ट्या क्रुद्धः किं मां करिष्यसि]

3.209.26

नावजानाम्यहं विप्रान्देवैस्तुल्यान्मनस्विनः ।
अपराधमिमं विप्र क्षन्तुमर्हसि मेऽनघ ॥

3.209.27

जानामि तेजो विप्राणआं महाभाग्यं च धीमताम् ।
अपेयः सागरः क्रोधात्कृतो हि लवणोदकः ॥

3.209.28

तथैव दीप्ततपसां मुनीनां भावितात्मनाम् । येषां क्रोधाग्निरद्यापि समुद्रे नोपशाम्यति ।
कस्तान्परिभवेन्मूढो ब्राह्मणानमितौजसः ॥

3.209.29

ब्राह्मणानां परिभवाद्वातापिः सुदुरात्मवान् ।
अगस्त्यमृषिमासाद्य जीर्णः क्रूरो महासुरः ॥

3.209.30

बहुप्रभावाः श्रूयन्ते ब्राह्मणानां महात्मनाम् । क्रोधः सुविपुलो ब्रह्मन्प्रसादश्च महात्मनाम् ।
अस्मिंस्त्वतिक्रमे ब्रह्मन्क्षन्तुमर्हसि मेऽनघ ॥

3.209.31

पतिशुश्रूषया धर्मो य स मे रोचते द्विज ।
दैवतेष्वपि सर्वेषु भर्ता मे दैवतं परम् ॥

3.209.32

अविशेषेण तस्याहं कुर्यां धर्मं द्विजोत्तम ।
शुश्रूषायाः फलं पश्य पत्युर्ब्राह्मण यादृशम् ॥

3.209.33

बलाका हि त्वया दग्धा रोषात्तद्विदितं मया ।
क्रोधः शत्रुः शरीरस्थो मनुष्याणां द्विजोत्तम ॥

3.209.34

मास्म क्रुध्यो बलाकेव न वध्याऽस्मि पतिव्रता ।
यः क्रोधमोहौ त्यजति तं देवा ब्राह्मणं विदुः ॥

3.209.35

यो वदेदिह सत्यानि गुरुं सन्तोषयेत च ।
हिंसितश्च त हिंसेत तं देवा ब्राह्मणं विदुः ॥

3.209.36

जितेन्द्रियो धर्मपरः स्वाध्यायनिरतः शुचिः ।
कामक्रोधौ वशौ यस्य तं देवा ब्राह्मणं विदुः ॥

3.209.37

यस्य चात्मसमो लोको धर्मज्ञस्य मनस्विनः ।
सर्वधर्मेषु चरतस्तं देवा ब्राह्मणं विदुः ॥

3.209.38

योऽध्यापयेदधीयीत यजेद्वा याजयीत वा ।
दद्याद्वाऽपि यथाशक्ति तं देवा ब्राह्मणं विदुः ॥

3.209.39

ब्राह्मचारी वदान्यो योप्यधीयाद्द्विजपुङ्गवः ।
स्वाध्यायवानमत्तो वै तं देवा ब्राह्मणं विदुः ॥

3.209.40

यद्ब्राह्मणानां कुशलं तदेषां परिकीर्तयेत् ।
सत्यं तथा व्याहरतां नानृते रमते मनः ॥

3.209.41

धनं तु ब्राह्मणस्याहुः स्वाध्यायं दममार्जवम् ।
इन्द्रियाणां निग्रहं च शाश्वतं द्विजसत्तम ॥

3.209.42

सत्यार्जवे धर्ममाहुः परं धर्मविदो जनाः ।
दुर्ज्ञेयः शाश्वतो धर्मः स च सत्ये प्रतिष्ठितः ॥

3.209.43

श्रुतिप्रमाणो धर्मः स्यादिति वृद्धानुशासनम् ।
बहुधा दृश्यते धर्मः सूक्ष्म एव द्विजोत्तम ॥

3.209.44

भगवानपि धर्मज्ञः स्वाद्यायनिरतः शुचिः ।
न तु तत्त्वेन भगवन्दर्मं वेत्सीति मे मतिः ॥

3.209.45

यदि विप्र न जानीषे धर्मं परमकं द्विज ।
धर्मव्याधं तत पृच्छ गत्वा तु मिथिलां पुरीम् ॥

3.209.46

मातापितृभ्यां शुश्रूपुः सत्यवादी जितेन्द्रियः ।
मिथिलायां वसेद्व्याधः स ते धर्मान्प्रवक्ष्यति ॥

3.209.47

तत्र गच्छस्व भद्रं ते यथाकामं द्विजोत्तम ।
व्याधः परमधर्मात्मा स ते छेत्स्यति संशयम् ॥

3.209.48

अत्युक्तमपि मे सर्वं क्षन्तुमर्हस्यनिन्दित ।
स्त्रियो ह्यवध्याः सर्वेषां ये धर्ममभिविन्दते ॥
ब्राह्मण उवाच ।

3.209.49

प्रीतोस्मि तव भद्रं ते गतः क्रोधश्च शोभने ।
उपालम्भस्त्वया प्रोक्तो मम निश्रेयसं परम् ॥

3.209.50

स्वस्ति तेऽस्तु गमिष्यामि साधयिष्यामि शोभने । धन्या त्वमसि कल्याणि यस्याः स्याद्वृत्तमीदृशम् ।
मारक्ण्डेय उवाच ।

3.209.51

तया विसृष्टो निर्गत्य स्वमेव भवनं ययौ ।
विनिन्दन्स स्वमात्मानं कौशिको द्विजसत्तमः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc