भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.208

3.208.1

ततो युधिष्ठिरो राजा मार्कण्डेयं महाद्युतिम् ।
प्रपच्छ भरतश्रेष्ठ धर्मप्रश्नं स दुर्वचम् ॥

3.208.2

श्रोतुमिच्छामि भगवन्स्त्रीणां माहातम्यमुत्तमम् ।
कथ्यमानं त्वया विप्र सूक्ष्मं धर्म्यं च तत्त्वतः ॥

3.208.3

प्रत्यक्षमिह विप्रर्षे देवा दृश्यन्ति सत्तम ।
सूर्याचन्द्रमसौ वायुः पृथिवी वह्निरेव च ॥

3.208.4

पिता माता च भगवान्गाव एव च सत्तम ।
यच्चान्यदेव विहितं तच्चापि भृगुनन्दन ॥

3.208.5

मन्येऽहं गुरुवत्सर्वमेकपत्न्यस्तथा स्त्रियः । पतिव्रतानां शुश्रूषा दुष्करा प्रतिभाति मे ।
पतिव्रतानां महात्म्यं वक्तुमर्हसि नः प्रभो ॥

3.208.6

निरुध्य चेन्द्रियग्रामं मनः संरुध्य चानघ ।
पतिं दैवतवच्चापि चिन्तयन्त्य स्थिता हि या ॥

3.208.7

भगवन्दुष्करं त्वेतत्प्रतिभाति मम प्रभो ।
मातापित्रोश्च शुश्रूषा स्त्रीणां भर्तरि च द्विज ॥

3.208.8

स्त्रीणां धर्मात्सुघोराद्धि नान्यं पश्यामि दुष्करम् ।
साध्वाचाराः स्त्रियो ब्र्हमन्कुर्वन्तीह सदादृताः ॥

3.208.9

दुष्करं खलु कुर्वन्ति पितरो मातरश्च वै ।
एकपत्न्यश्च या नार्यो याश् सत्यं वदन्त्युत ॥

3.208.10

कुक्षिणा दशमासांश्च गर्भं सन्धारयन्ति याः ।
नार्यः कालेन सम्बूय किमद्भुततरं ततः ॥

3.208.11

संशयं परमं प्राप्य वेदनामतुलामपि ।
प्रजायन्ते सुतान्नार्यो दुःखेन महता विभो ॥

3.208.12

पुष्णन्ति चापि महता स्नेहेन द्विजपुङ्गव ।
चिन्तयन्ति ततश्चापि किंशीलोऽयम्भविष्यति ॥

3.208.13

याश्च क्रूरेषु सर्वेषु वर्तमाना जुगुप्सिताः ।
स्वकर्म कुर्वन्ति सदा दुष्करं तच्च मे मतम् ॥

3.208.14

क्षत्रधर्मसमाचारतत्त्वं व्याख्याहि मे द्विज ।
धर्मः सुदुर्लभो विप्र नृशंसेन महात्मना ॥

3.208.15

एतदिच्छामि भगवन्प्रश्नं प्रश्नविदांवर ।
श्रोतुं भृगुकुलश्रेष्ठ शुश्रूषे तव सुव्रत ॥
मार्कण्डेय उवाच ।

3.208.16

हन्त तेऽहं समाख्यास्ये प्रश्नमेतं सुदुर्वचम् ।
तत्त्वेन भरतश्रेष्ठ गदतस्तन्निबोध मे ॥

3.208.17

मातरंश्रेयसीं तात पितृनन्ये तु मेनिरे ।
दुष्करं कुरुते माता विवर्धयति या प्रजाः ॥

3.208.18

तपसा देवतेज्याभिर्वन्दनेन तितिक्षया ।
सुप्रशस्तैरुपायैश्चापीहन्ते पितरः सुतान् ॥

3.208.19

एवं कृच्छ्रेण महता पुत्रं प्राप्य सुदुर्लभम् ।
चिन्तयन्ति सदा वीर कीदृशोऽयं भविष्यति ॥

3.208.20

आशंसते हि पुत्रेषु पिता माता च भारत ।
यशः कीर्तिमथैश्वर्यं तेजो धर्मं तथैव च ॥

3.208.21

मातुः पितुश्च राजेन्द्र सततं हितकारिण्णोः ।
तयोराशां तु सफलां यः करोति स धर्मवित् ॥

3.208.22

पिता माता च राजेन्द्र तुष्यतो यस् नित्यशः ।
इह प्रेत्य च तस्याथ कीर्तिर्धर्मश्र शाश्वतः ॥

3.208.23

नैव यज्ञक्रियाः काश्चिन्न श्राद्धं नोपवासकम् ।
या तु भर्तरि शुश्रूषा तया स्वर्गं जयत्युत ॥

3.208.24

एतत्प्रकरणं राजन्नधिकृत्य युधिष्ठिर । पतिव्रतानां नियतं धर्मं चावाहितः शृणु ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc