भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.207

3.207.1

धुन्धुर्नाम महाराज तयोः पुत्रो महाद्युतिः ।
स तपोऽतप्यत महन्महावीर्यपराक्रमः ॥

3.207.2

अतिष्ठदेकपादेन कृशो धमनिसन्ततः ।
तस्मै ब्रह्मा ददौ प्रीतो वरं वव्रे स च प्रभुम् ॥

3.207.3

देवदानवयक्षाणां सर्पगन्धर्वरक्षसाम् ।
अवध्योऽहं भवेयं वै वर एष वृतो मया ॥

3.207.4

एवं भवतु गच्छेति तमुवाच पितामहः ।
स एवमुक्तस्तत्पादौ मूर्ध्ना स्पृष्ट्वा जगाम ह ॥

3.207.5

सतु धुन्धुर्वरं लब्ध्वा महवीर्यपराक्रमः ।
अनुस्मरन्पितृवधं द्रुतं विष्णुमुपागमत् ॥

3.207.6

सतु देवान्सगन्धर्वाञ्जित्वा धुन्धुरमर्षणः ।
बबाध सर्वानसकृद्विष्णुं देवांश्च वै भृशम् ॥

3.207.7

समुद्रवालुकापूर्णे उज्जानक इति स्मृते । आगम्य च स दुष्टात्मा तं देशं भरतर्षभ ।
बाधतेस्म परं शक्त्या तमुदङ्काश्रमं विभो ॥

3.207.8

अन्तर्भूमिगतस्तत्र वालुकान्तर्हितस्तथा ।
मधुकैटभयोः पुत्रो धुन्धुर्भीमपराक्रमः ॥

3.207.9

शेते लोकविनाशाय तपोबलमुपाश्रितः ।
उदङ्कस्याश्रमाभ्याशे निःश्वसन्पावकार्चिषः ॥

3.207.10

एतस्मिन्नेव काले तु राजा सबलवाहनः ।
कुवलाश्वो नरपतिरन्वितो बलशालिनाम् ॥

3.207.11

सहस्रैरेकविंशत्या पुत्राणामरिमर्दनः ।
प्रायादुदङ्कसहितो धुन्धोस्तस्य वधाय वै ॥

3.207.12

तमाविशत्ततो विष्णुर्भगवांस्तेजसा प्रभुः ।
उदङ्कस् नियोगेन लोकानां हितकाम्यया ॥

3.207.13

तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत् ।
एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति ॥

3.207.14

दिव्यैश्च पुष्पैस्तं देवाः समन्तात्पर्यवाकिरन् ।
देवदुन्दुभयश्चापि नेदुः स्वयमनीरिताः ॥

3.207.15

शीतश्च वायुः प्रववौ प्रयाणे तस्य धीमतः । विपांसुलां महीं कुर्वन्ववर्ष च सुरेश्वरः ।
प्रदक्षिणाश्चाप्यभवन्वन्यास्तं समृगद्विजाः ॥

3.207.16

अन्तरिक्षे विमानानि देवतानां युधिष्ठिर ।
तत्रैव समदृश्यन्त धुन्धुर्यत्र महासुरः ॥

3.207.17

कुवलाश्वस्य धुन्योश्च युद्धकौतूहलान्विताः ।
देवगन्धर्वसहिताः समवैक्षन्महर्षयः ॥

3.207.18

नारायणेन कौरव्य तेजसाऽप्यायितस्तदा ।
स गतो नृपतिः क्षिप्रं पुत्रैस्तैः सर्वतो दिशम् ॥

3.207.19

अर्णवं स्वानयामास कुवलाश्वो महीपतिः ।
हितार्तं सर्वलोकानामुदङ्कस्य वशे स्थितः ॥

3.207.20

कुवलाश्वस् पुत्रैश्च तस्मिन्वै वालुकार्णवे ।
सप्तभिर्दिवसैः स्वात्वा दृष्टो धुन्धुर्महाबलः ॥

3.207.21

आसीद्धोरं वपुस्तस्य वालुकान्तर्हितं महत् ।
दीप्यमानं यथा सूर्यस्तेजसा भरतर्षभ ॥

3.207.22

ततो धुन्धुर्महाराज दिशमावृत्य पश्चिमाम् ।
सुप्तोऽभूद्राजशार्दूल कालानलसमद्युतिः ॥

3.207.23

कुवलाश्वस्य पुत्रैस्तु सर्वतः परिवारितः ।
अभिद्रुतः शरैस्तीक्ष्णैर्गदाभिर्मुसलैरपि ॥

3.207.24

प्टसैः परिधैः प्रासैः खङ्गैश् विमलैः शितैः ।
सवध्यमानः सन्क्रुद्धः समुत्तस्थौ महाबलः ॥

3.207.25

क्रुद्धश्चाभक्षयत्तेषां शस्त्राणि विविधानि च ।
आस्याद्वमन्पावकं स संवर्तकसमं तदा ॥

3.207.26

तान्सर्वान्नृपतेः पुत्रानदहत्स्वेन तेजसा ।
मुखजेनाग्निना क्रुद्धो लोकानुद्वर्तयन्निव ॥

3.207.27

क्षणेन राजशार्दूल पुरेव कपिलः प्रभुः ।
सगरस्यात्मजान्क्रुद्धस्तदद्भुतमिवाभवत् ॥

3.207.28

तेषु क्रोधाग्निदग्धेषु तदा भरतसत्तम । तं प्रबुद्धं महात्मानं कुम्भकर्णमिवापरम् ।
आससाद महातेजाः कुवलाश्वो महीपतिः ॥

3.207.29

तस्य वारिमहाराज सुस्राव बहु देहतः ।
तत्तदापीयतेतेजो राज्ञा वारिमयं नृप ॥

3.207.30

योगी योगेन सृष्टं स समयित्वा च वारिणा । ब्रह्मास्त्रेण ततो राजा दैत्यन्क्रूरपराक्रमम् ।
ददाह भरतश्रेष्ठ सर्वलोकभवाय वै ॥

3.207.31

सोऽस्त्रेण दग्ध्वा राजर्षिः कुवलाश्वो महासुरम् ।
सुरशत्रुममित्रघ्नस्त्रैलोक्येश इवापरः ॥

3.207.32

धुन्धोर्वधात्तदा राजा कुवलाश्वो महामनाः ।
धुन्धुमार इतिख्यातो नाम्ना समभवत्ततः ॥

3.207.33

प्रीतैश्च त्रेदशैः सर्वैर्महर्षिमसितैस्तदा । परं वृणीष्वत्युक्तः स प्राञ्जलिः प्रणतस्तदा ।
अतीव मुदितो राजन्निदंवचनमब्रवीत् ॥

3.207.34

दद्यां वित्तं द्विजाग्र्येभ्यः शत्रूणां चापि दुर्जयः । सख्यं च विष्णुना मे स्याद्भूतेष्वद्रोह एव च ।
धर्मे रतिश् सततं स्वर्गे वासस्तथाऽक्षयः ॥

3.207.35

तथाऽस्त्विति ततो देवैः प्रीतैरुक्तः स पार्थिवः ।
ऋषिभिश्च सगन्धर्वैरुदङ्केन च धीमता ॥

3.207.36

सम्भाष्य चैनं विविधैराशीर्वादैस्ततो नृषम् ।
देवा महर्षयश्चापि स्वानि स्तानानि भेजिरे ॥

3.207.37

तस्य पुत्रास्त्रयः शिष्टा युधिष्ठिर तदाऽभवन् ।
दृढाश्वः कपिलाश्वश्च भद्राश्वश्चैव भारत ॥

3.207.38

तेभ्यः परम्परा राजन्निक्ष्वाकूणां महात्मनाम् ।
[वंशस्य सुमहाभाग राज्ञाममिततेजसाम्] ॥

3.207.39

एवंसं निहतस्तेन कुवलाश्वेन सत्तम ।
धुन्धुर्नाम महादैत्यो मधुकैटभयोः सुतः ॥

3.207.40

कुवलाश्वश्च नृपतिर्धुन्धुमार इति स्मृतः ।
नाम्ना च गुणयुक्तेन तदाप्रभृति सोऽभवत् ॥

3.207.41

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
धौन्धुमारमुपाख्यानं प्रथितं यस्य कर्मणा ॥

3.207.42

इदं तु पुण्यमाख्यानं विष्णोः समनुकीर्तनम् ।
शृणुयाद्यः स धर्मात्मा पुत्रवांश्च भवेन्नरः ॥

3.207.43

आयुष्मान्भूतिमांश्चैव श्रुत्वा भवति पर्वसु । न च व्याधिभंयकिञ्चित्प्राप्नोति विगतज्वरः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc